蚁垤《罗摩衍那》 · 篇 2.95
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.95.1
अथ शैलाद्विनिष्क्रम्य मैथिलीं कोसलेश्वरः ।
अदर्शयच्छुभजलां रम्यां मन्दाकिनीं नदीम् ॥ २.९५.१ ॥
随后,科萨拉之主(罗摩)从山上下来,向弥提罗公主(悉多)指示清澈美丽的曼达基尼河。
2.95.2
अब्रवीच्च वरारोहां चारुचन्द्रनिभाननाम् ।
विदेहराजस्य सुतां रामो राजीवलोचनः ॥ २.९५.२ ॥
莲花眼的罗摩对毗提诃王之女说话,她有着美丽的臀部,面容如皎洁的月亮。
2.95.3
विचित्रपुलिनां रम्यां हंससारससेविताम् ।
कमलैरुपसम्पन्नां पश्य मन्दाकिनीं नदीम् ॥ २.९५.३ ॥
看那可爱的曼达基尼河,沙洲千姿百态,天鹅与鹤常来此处,遍开莲花。
2.95.4
नानाविधैस्तीररुहैर्वृतां पुष्पफलद्रुमैः ।
राजन्तीं राजराजस्य नलिनीमिव सर्वतः ॥ २.९५.४ ॥
四周环绕着各色岸边树木与开花结果的树,她四面闪耀,如同诸王之王(俱毗罗)的莲池。
2.95.5
मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम् ।
तीर्थानि रमणीयानि रतिं सञ्जनयन्ति मे ॥ २.९५.५ ॥
这些可爱的沐浴之处,浑浊的水被鹿群饮过,如今在我心中唤起喜悦。
2.95.6
जटाजिनधराः काले वल्कलोत्तरवाससः ।
ऋषयस्त्ववगाहन्ते नदीं मन्दाकिनीं प्रिये ॥ २.९५.६ ॥
亲爱的,那些头发纠结、披鹿皮、外着树皮衣的仙人,在适当的时候在曼达基尼河中沐浴。
2.95.7
आदित्यमुपतिष्ठन्ते नियमादूर्द्ध्वबाहवः ।
एते परे विशालाक्षि मुनयः संशितव्रताः ॥ २.९५.७ ॥
宽目的人啊,这些坚守誓愿的其他仙人,依照戒律高举双臂,向太阳致敬。
2.95.8
मारुतोद्धूतशिखरैः प्रनृत्त इव पर्वतः ।
पादपैः पत्ऺत्रपुष्पाणि सृजद्भिरभितो नदीम् ॥ २.९५.८ ॥
山峰被风吹动,仿佛在起舞;树木四周向河中抛洒着树叶和花朵。
2.95.9
क्वचिन्मणिनिकाशोदां क्वचित्पुलिनशालिनीम् ।
क्वचित्सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम् ॥ २.९५.९ ॥
请看曼陀吉尼河:此处河水如宝石般明亮,彼处河岸沙洲相映,别处则聚满成就之人。
2.95.10
निर्द्धूतान् वायुना पश्य विततान् पुष्पसञ्चयान् ।
पोप्लूयमानानपरान् पश्य त्वं जलमध्यगान् ॥ २.९५.१० ॥
看那被风吹落、散布四处的花堆;也看那些漂浮在水中的其他花朵。
2.95.11
तांश्चातिवल्गुवचसो रथाङ्गाह्वयना द्विजाः ।
अधिरोहन्ति कल्याणि विकूजन्तः शुभा गिरः ॥ २.९५.११ ॥
吉祥的人啊,那些名为“车轮”的鸟,以极其甜美的声音,发出悦耳的鸣叫,落在它们上面。
2.95.12
दर्शनं चित्र कूटस्य मन्दाकिन्याश्च शोभने ।
अधिकं पुरवासाच्च मन्ये च तव दर्शनात् ॥ २.९५.१२ ॥
光彩照人的人啊,我觉得观赏奇峰山与曼陀吉尼河,胜过住在城中;而见到你,更是胜过一切。
2.95.13
विधूतकलुषैः सिद्धैस्तपोदमशमान्वितैः ।
नित्यविक्षोभितजलां विगाहस्व मया सह ॥ २.९५.१३ ॥
与那些罪垢已洗净、具备苦行、克制与寂静的悉陀一起,与我在这条水常翻涌的河中沐浴吧。
2.95.14
सखीवच्च विगाहस्व सीते मन्दाकिनीं नदीम् ।
कमलान्यवमज्जन्ती पुष्कराणि च भामिनि ॥ २.९५.१४ ॥
悉多啊,像朋友一样在曼达吉尼河中沐浴吧,在莲花与睡莲之间潜入,美丽的人啊。
2.95.15
त्वं पौरजनवद्व्यालानयोध्यामिव पर्वतम् ।
मन्यस्व वनिते नित्यं सरयूवदिमां नदीम् ॥ २.९५.१५ ॥
女士啊,请把这座山当作阿逾陀,把这条河永远当作萨拉尤河,仿佛城中之民与野兽都在那里。
2.95.16
लक्ष्मणश्चापि धर्मात्मा मन्निदेशे व्यवस्थितः ।
त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम ॥ २.९५.१६ ॥
正法之心的罗什曼那也遵从我的吩咐而立,你也温顺,毗提诃之女啊;你们二人都令我欢喜。
2.95.17
उपस्पृशंस्त्रिषवणं मधुमूलफलाशनः ।
नायोध्यायै न राज्याय स्पृहये ऽद्य त्वया सह ॥ २.९५.१७ ॥
每日三时沐浴,以蜂蜜、根茎和果实为食,今日与你同在,我既不渴望阿逾陀,也不渴望王位。
2.95.18
इमां हि रम्यां मृगयूथशालिनीं निपीततोयां गजसिंहवानरैः ।
सुपुष्पितैः पुष्पधरैरलङ्कृतां न सो ऽस्ति यः स्यादगतक्लमः सुखी ॥ २.९५.१८ ॥
这条美丽的河流,鹿群环绕,象、狮、猴都来饮其水,开满鲜花的树木将其装点;在此,没有人不能摆脱疲惫而快乐。
2.95.19
इतीव रामो बहुसङ्गतं वचः प्रियासहायः सरितं प्रति ब्रुवन् ।
चचार रम्यं नयनाञ्जनप्रभं स चित्रकूटं रघुवंशवर्द्धनः ॥ २.९५.१९ ॥
如此,以爱妻为伴的罗摩向河流说着许多话,漫游于美丽的citrakūṭa山,那山色如眼上的黛粉,他是光大罗怙家族的人。