蚁垤《罗摩衍那》 · 篇 2.99
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.99.1
निविष्टायां तु सेनायामुत्सुको भरतस्तदा।
जगाम भ्रातरं द्रष्टुं शत्रुध्नमनुदर्शयन् ॥ २.९९.१ ॥
大军扎营之后,急切的婆罗多便出发去见他的兄长,并指示着舍都卢那同行。
2.99.3
ऋषिं वसिष्ठं सन्दिश्य मातऽर्मे शीघ्रमानय।
सुमन्त्रस्त्वपि शत्रुघ्नमदूरादन्वपद्यत।
रामदर्शनजस्तर्षो भरतस्येव तस्य च ॥ २.९९.३ ॥
吩咐仙人伐悉吒迅速把我的母亲们带来之后,苏曼陀罗也在不远处跟随舍都卢那;他对见到罗摩的渴望,与婆罗多一样强烈。
2.99.4
गच्छन्नेवाथ भरतस्तापसालयसंस्थिताम्।
भ्रातुः पर्णकुटीं श्रीमानुटजं च ददर्श ह ॥ २.९९.४ ॥
他一边走着,那位光荣的婆罗多看到了位于苦行者居所中的兄长的叶屋和茅舍。
2.99.5
शालायास्त्वग्रतस्तस्या ददर्श भरतस्तदा।
काष्ठानि चावभग्नानि पुष्पाण्युपचितानि च ॥ २.९९.५ ॥
在那茅舍的前面,婆罗多当时看到了折断的柴薪和堆积起来的花朵。
2.99.6
सलक्ष्मणस्य रामस्य ददर्शाश्रममीयुषः।
कृतं वृक्षेष्वभिज्ञानं कुशचीरैः क्वचित् क्वचित् ॥ २.९९.६ ॥
在与罗什曼那一同前来的罗摩的修行处,婆罗多看到树上到处都有用吉祥草和树皮布做的标记。
2.99.7
ददर्श च वने तस्मिन् महतः सञ्चयान् कृतान्।
मृगाणां महिषाणां च कऺरीषैः शीतकारणात् ॥ २.९९.७ ॥
在那片森林里,婆罗多看到了为抵御寒冷而堆起的大量鹿和水牛粪饼。
2.99.8
गच्छन्नेव महाबाहुर्द्युतिमान् भरतस्तदा।
शत्रुघ्नं चाब्रवीद्धृष्टस्तानमात्यांश्च सर्वशः ॥ २.९९.८ ॥
大臂而光辉的婆罗多一边行走,一边欣喜地对沙特鲁祥那和所有大臣说道。
2.99.9
मन्ये प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत्।
नातिदूरे हि मन्येऽहं नदीं मन्दाकिनीमितः ॥ २.९९.९ ॥
我想我们已经到达了婆罗堕阇所描述的那个地方。我想曼陀吉尼河离这里不远了。
2.99.10
उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम्।
अभिज्ञानकृतः पन्था विकाले गन्तुमिच्छता ॥ २.९९.१० ॥
高处系着的树皮衣或许是罗什曼那系的;这条作为标记的路,是想在非常时刻出行的人开辟的。
2.99.11
इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम्।
शैलपार्श्वे परिक्रान्तमन्योन्यमभिगर्जताम् ॥ २.९९.११ ॥
这也是高牙迅捷的象群的痕迹:它们在山坡旁来回走动,彼此咆哮。
2.99.12
यमेवाधातुमिच्छन्ति तापसाः सततं वने।
तस्यासौ दृश्यते धूमः सङ्कुलः कृष्णवर्त्मनः ॥ २.९९.१२ ॥
林中苦行者时常想要点燃的那火的浓烟,在幽暗的路上可以看见。
2.99.13
अत्राहं पुरुषव्याघ्रं गुरुसंस्कारकारिणम्।
आर्यं द्रक्ष्यामि संहृष्टो महर्षिमिव राघवम् ॥ २.९९.१३ ॥
在这里,我将欣然见到高贵的罗伽婆,那位人中之虎,他恪守对长辈应尽的礼义,犹如见到大仙人一般。
2.99.14
अथ गत्वा मुहूर्तं तु चित्रकूटं स राघवः।
मन्दाकिनीमनुप्राप्तस्तं जनं चेदमब्रवीत् ॥ २.९९.१४ ॥
随后,罗伽瓦稍往支多罗俱吒走去,抵达曼达吉尼河,对那些人说了这番话。
2.99.15
जगत्यां पुरुषव्याघ्र आस्ते वीरासने रतः।
जनेन्द्रो निर्जनं प्राप्य धिङ्मे जन्म सजीवितम् ॥ २.९९.१५ ॥
那位人中猛虎坐在大地上的英雄坐姿中,来到荒僻之地,像国王一样沉浸其中。我的出生与生命都该受诅咒!
2.99.16
मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युतिः।
सर्वान् कामान् परित्यज्य वने वसति राघवः ॥ २.९९.१६ ॥
因我之故,那位世界之主、大光明者陷入了苦难;罗伽瓦舍弃了一切欲望,居住在森林中。
2.99.17
रामस्य निपतिष्यामि सीताया लक्ष्मणस्य च ॥ २.९९.१७ ॥
我将俯身跪倒在罗摩、悉多和罗什曼那的脚下。
2.99.18
एवं स विलपंस्तस्मिन् वने दशरथात्मजः।
ददर्श महतीं पुण्यां पर्णशालां मनोरमाम् ॥ २.९९.१८ ॥
他这样哀叹着,在那片森林里,十车王之子看见一座宽大、神圣而迷人的叶屋。
2.99.19
सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम्।
विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे ॥ २.९९.१९ ॥
覆盖着许多娑罗、多罗和马耳树的叶子,宽敞,铺着柔软的吉祥草,宛如祭祀的祭坛。
2.99.20
शक्रायुधनिकाशैश्च कार्मुकैर्भारसाधनैः।
रुक्मपृष्टष्ठैर्महासारैः शोभितां शत्रुबाधकैः ॥ २.९९.२० ॥
此地装饰着如因陀罗之弓的弓箭,能承重,背部镶金,极其坚固,能折磨敌人。
2.99.21
अर्करश्मिप्रतीकाशैर्घोरैस्तूणीगतैः शरैः।
शोभितां दीप्तवदनैः सर्प्पैर्भोगवतीमिव ॥ २.९९.२१ ॥
此地装饰着如日光般可怖、置于箭囊中的箭,以及面目燃烧的蛇,恰如薄伽婆提城。
2.99.22
महारजतवासोभ्यामसिभ्यां च विराजिताम्।
रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् ॥ २.९९.२२ ॥
此地还以镶嵌大银鞘的剑和饰有金点的斑斓盾牌而光辉耀眼。
2.99.23
गोधाङ्गुलित्रैरासक्तैश्चित्रैः काञ्चनभूषितैः।
अरिसङ्घैरनाधृष्यां मृगैः सिंहगुहामिव ॥ २.९९.२३ ॥
附有蜥蜴皮制护指,斑斓且饰以黄金,敌军无法攻破,宛如狮子的洞穴。
2.99.24
प्रागुदक्प्रवणां वेदिं विशालां दीप्तपावकाम्।
ददर्श भरतस्तत्र पुण्यां रामनिवेशने ॥ २.९९.२४ ॥
婆罗多在罗摩的居所中看见那座神圣的祭坛,向东北倾斜,宽广,火焰熊熊。
2.99.25
निरीक्ष्य स मुहूर्त्तं तु ददर्श भरतो गुरम्।
उटजे राममासीनं जटामण्डलधारिणम् ॥ २.९९.२५ ॥
婆罗多凝视片刻,看见罗摩尊者坐在茅屋中,头戴蓬乱的发髻。
2.99.26
तं तु कृष्णाजिनधरं चीरवल्कलवाससम्।
ददर्श राममासीनमभितः पावकोपमम् ॥ २.९९.२६ ॥
他看见罗摩坐在那里,身披黑羚羊皮,穿着树皮衣,光辉如火。
2.99.27
सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम्।
पृथिव्याः सागरान्ताया भर्त्तारं धर्मचारिणम् ॥ २.९९.२७ ॥
肩如狮子,臂膀雄健,眼如莲花,是直到大海的大地之主,行持法道的罗摩。
2.99.28
उपविष्टं महाबाहुं ब्रह्माणमिव शाश्वतम्।
स्थण्डिले दर्भसंस्तीर्णे सीतया लक्ष्मणेन च ॥ २.९९.२८ ॥
大臂的罗摩如永恒的梵天,坐在铺着吉祥草的土台上,与悉多、罗什曼那同在。
2.99.29
तं दृष्ट्वा भरतः श्रीमान् दुःखशोकपरिप्लुतः।
अभ्यधावत धर्मात्मा भरतः कैकयीसुतः ॥ २.९९.२९ ॥
见到他,高贵的婆罗多——吉开伊之子,正直之人,被悲伤与忧愁所淹没——便向他奔去。
2.99.30
दृष्ट्वैव विललापार्त्तो बाष्पसन्दिग्धया गिरा।
अशक्नुवन् धारयितुं धैर्याद्वचनमब्रवीत् ॥ २.९९.३० ॥
一见到他,婆罗多便悲恸哭诉;他声音被泪水哽咽,难以自持,于是说出了这些话。
2.99.31
यः संसदि प्रकृतिभिर्भवेद्युक्त उपासितुम्।
वन्यैर्मृगैरुपासीनः सोऽयमास्ते ममाग्रजः ॥ २.९९.३१ ॥
在朝会上本应由臣民侍奉的人,我的兄长,如今却坐在这里,由野鹿陪伴。
2.99.32
वासोभिर्बहुसाहस्रैर्यो महात्मा पुरोचितः।
मृगाजिने सोऽयमिह प्रवस्ते धर्ममाचरन् ॥ २.९९.३२ ॥
那位曾经身着成千上万件华服的大德,如今在此流亡,身披鹿皮,奉行法道。
2.99.33
अधारयद्यो विविधाश्चित्राः सुमनसस्तदा
सोऽयं जटाभारमिमं वहते राघवः कथम् ॥ २.९९.३३ ॥
那位曾经佩戴各色鲜花的罗伽瓦,如今如何承受这满头的结发之重?
2.99.34
यस्य यज्ञैर्यथोद्दिष्टैर्युक्तो धर्मस्य सञ्चयः।
शरीरक्लेशसम्भूतं स धर्मं परिमार्गते ॥ २.९९.३४ ॥
那位以依规定祭祀而积累法德的人,如今却在寻求由身体苦行所生的法。
2.99.35
चन्दनेन महार्हेण यस्याङ्गमुपसेवितम्।
मलेन तस्याङ्गमिदं कथमार्यस्य सेव्यते ॥ २.९९.३५ ॥
这位高贵之人的身体,昔日以贵重檀香涂抹,如今为何沾满尘垢?
2.99.36
मन्निमित्तमिदं दुःखं प्राप्तो रामः सुखोचितः।
धिग्जीवितं नृशंसस्य मम लोकविगर्हितम् ॥ २.९९.३६ ॥
因为我,值得享福的罗摩遭遇了这般苦难。残忍的我,这为世人所鄙视的生命,真是可耻!
2.99.37
इत्येवं विलपन् दीनः प्रस्विन्नमुखपङ्कजः।
पादावप्राप्य रामस्य पपात भरतो रुदन् ॥ २.९९.३७ ॥
如此哀叹的薄伽多,面如莲花,满是汗水,尚未到达罗摩脚前,便哭泣着倒下了。
2.99.38
दुःखाभितप्तो भरतो राजपुत्रो महाबलः।
उक्त्वार्येति सकृद्दीनं पुनर्नोवाच किञ्चन ॥ २.९९.३८ ॥
悲痛煎熬的大力王子婆罗多,悲切地说了一次"阿利耶",此后便不再说任何话。
2.99.39
बाष्पापिहितकण्ठश्च प्रेक्ष्य रामं यशस्विनम्।
आर्येत्येवाथ संक्रुश्य व्याहर्त्तुं नाशकत्तदा ॥ २.९९.३९ ॥
泪水哽住喉咙的婆罗多望着光荣的罗摩,只说出了"阿利耶";他痛哭着,当时竟无法再说话。
2.99.40
शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन्।
तावुभौ स समालिङ्ग्य रामश्चाश्रूण्यवर्त्तयत् ॥ २.९९.४० ॥
设睹卢那也哭泣着向罗摩的双足行礼;罗摩拥抱了他们二人,泪水随之流下。
2.99.41
ततः सुमन्त्रेण गुहेन चैव समीयतू राजसुतावरण्ये।
दिवाकरश्चैव निशाकरश्च यथाम्बरे शुक्रबृहस्पतिभ्याम् ॥ २.९९.४१ ॥
于是两位王子与苏曼特罗、古诃在林中相会,如同天空中日月与金星、木星相遇。
2.99.42
तान् पार्थिवान् वारणयूथपाभान् समागतांस्तत्र महत्यरण्ये।
वनौकसस्तेऽपि समीक्ष्य सर्वेप्यश्रूण्यमुञ्चन् प्रविहाय हर्षम् ॥ २.९९.४२ ॥
林中的居民见那些如象群之王般聚集于大林中的诸王,也都放下喜悦,纷纷落泪。