Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 3.10

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.10.1

वाक्यमेतत् तु वैदेह्या व्याहृतं भर्तृभक्तया।
श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ जानकीम् ॥ ३.१०.१ ॥

悉多因敬夫而说出此言,罗摩安住于法,闻言后便回答了耆那吉(悉多)。

3.10.2

हितमुक्तं त्वया देवि स्निग्धया सदृशं वचः।
कुलं व्यपदिशन्त्या च धर्मज्ञे जनकात्मजे ॥ ३.१०.२ ॥

女神啊,你怀着爱意说出了有益而恰当的话语。精通法的耆那吉之女啊,你提及家族而说了这些。

3.10.3

किं नु वक्ष्याम्यहं देवि त्वयैवोक्तमिदं वचः।
क्षत्रियैर्धार्यते चापो नार्तशब्दो भवेदिति ॥ ३.१०.३ ॥

女神啊,对你刚才所说的话,我还能说什么呢?刹帝利持弓,是为了不让受苦之人发出哀号。

3.10.4

ते चार्ता दण्डकारण्ये मुनयः संशितव्रताः।
मां सीते स्वयमागम्य शरण्यं शरणं गताः ॥ ३.१०.४ ॥

悉多啊,那些住在檀陀迦林中、坚守誓愿而受苦的仙人,亲自前来,向值得依靠的我寻求庇护。

3.10.5

वसन्तः कालकालेषु वने मूलफलाशनाः।
न लभन्ते सुखं भीरु राक्षसैः क्रूरकर्मभिः ॥ ३.१०.५ ॥

胆怯的人啊,那些一年四季居住在林中、以根果为食的仙人,因行为残忍的罗刹而得不到安乐。

3.10.6

भक्ष्यन्ते राक्षसैर्भीमैर्नरमांसोपजीविभिः।
ते भक्ष्यमाणा मुनयो दण्डकारण्यवासिनः ॥ ३.१०.६ ॥

他们正被以人肉为生的可怖罗刹所吞食;住在檀陀迦林中的那些仙人正被吞噬。

3.10.7

अस्मानभ्यवपद्येति मामूचुर्द्विजसत्तमाः।
मया तु वचनं श्रुत्वा तेषामेवं मुखाच्च्युतम् ॥ ३.१०.७ ॥

“请保护我们。”那些最优秀的再生者如此对我说。我听到他们口中吐出的这些话后,

3.10.8

कृत्वा वचनशुश्रूषां वाक्यमेतदुदाहृतम्।
प्रसीदन्तु भवन्तो मे ह्रीरेषा तु ममातुला ॥ ३.१०.८ ॥

我出于侍奉他们之言的心意,说了这番话:“愿诸位都对我宽宥;这是我无比的羞惭。”

3.10.9

यदीदृशैरहं विप्रैरुपस्थेयैरुपस्थितः।
किं करोमीति च मया व्याहृतं द्विजसंनिधौ ॥ ३.१०.९ ॥

“若我来到这些应当侍奉的再生者面前,我该做什么?”——我在再生者面前如此说道。

3.10.10

सर्वैरेव समागम्य वागियं समुदाहृता।
राक्षसैर्दण्डकारण्ये बहुभिः कामरूपिभिः ॥ ३.१०.१० ॥

众人聚集一起说出这些话:“我们正受到达达迦森林中众多能随意变形的罗刹的折磨。”

3.10.11

अर्दिताः स्म भृशं राम भवान् नस्तत्र रक्षतु।
होमकाले तु सम्प्राप्ते पर्वकालेषु चानघ ॥ ३.१०.११ ॥

“罗摩啊,我们深受苦难;请你在那里保护我们——在祭火之时,也请在节日之时,无过者啊。”

3.10.12

धर्षयन्ति सुदुर्धर्षा राक्षसाः पिशिताशनाः।
राक्षसैर्धर्षितानां च तापसानां तपस्विनाम् ॥ ३.१०.१२ ॥

极其难以抵挡的食肉罗刹侵扰我们;而被罗刹所害的苦行者与修行人,也同样遭受侵袭。

3.10.13

गतिं मृगयमाणानां भवान् नः परमा गतिः।
कामं तपःप्रभावेण शक्ता हन्तुं निशाचरान् ॥ ३.१०.१३ ॥

对于寻求庇护的我们,您便是至高的庇护。凭借苦行的威力,我们确实能够诛杀夜行者。

3.10.14

चिरार्जितं न चेच्छामस्तपः खण्डयितुं वयम्।
बहुविघ्नं तपो नित्यं दुश्चरं चैव राघव ॥ ३.१०.१४ ॥

我们不愿破坏长久积累的苦行。哦,罗怙之后,苦行总是充满诸多障碍,且难以践行。

3.10.15

तेन शापं न मुञ्चामो भक्ष्यमाणाश्च राक्षसैः।
तदर्द्यमानान् रक्षोभिर्दण्डकारण्यवासिभिः ॥ ३.१०.१५ ॥

因此我们不解除诅咒,尽管我们正被罗刹吞食,并被居住在檀荼迦森林中的罗刹如此折磨。

3.10.16

रक्ष नस्त्वं सह भ्रात्रा त्वन्नाथा हि वयं वने।
मया चैतद्वचः श्रुत्वा कात्स्न्र्येन परिपालनम् ॥ ३.१०.१६ ॥

请您与兄弟一同保护我们,因为在森林中我们以您为主。听了我这番话,请全力予以守护。

3.10.17

ऋषीणां दण्डकारण्ये संश्रुतं जनकात्मजे।
संश्रुत्य च न शक्ष्यामि जीवमानः प्रतिश्रवम् ॥ ३.१०.१७ ॥

哦,阁那迦之女,这是我在檀荼迦森林中向仙人们的承诺。既已承诺,只要我活着,便不能违背诺言。

3.10.18

मुनीनामन्यथा कर्तुं सत्यमिष्टं हि मे सदा।
अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम् ॥ ३.१०.१८ ॥

违背仙人们的心愿并非我所能为,因为真理向来为我所珍视。哦,悉多,我宁可舍弃自己的生命,或是舍弃你与罗什曼那。

3.10.19

न तु प्रतिज्ञा संश्रुत्य ब्राह्मणेभ्यो विशेषतः।
तदवश्यं मया कार्यमृषीणां परिपालनम् ॥ ३.१०.१९ ॥

但我已向婆罗门,尤其是向仙人们许下诺言,我必须守护他们。

3.10.20

अनुक्तेनापि वैदेहि प्रतिज्ञाय कथं पुनः।
मम स्नेहाच्च सौहार्दादिदमुक्तं त्वया वचः ॥ ३.१०.२० ॥

毗提诃公主啊,我未被请求便已立下誓言,怎能再违背?你是出于对我的爱与善意,才说出这番话。

3.10.21

परितुष्टोऽस्म्यहं सीते न ह्यनिष्टोऽनुशास्यते।
सदृशं चानुरूपं च कुलस्य तव शोभने।
सधर्मचारिणी मे त्वं प्राणेभ्योऽपि गरीयसी ॥ ३.१०.२१ ॥

悉多啊,我很欢喜;不会去教导不善之事。光彩照人的你,这与你的家族相称、相配。你是与我共行法道的伴侣,比生命还更为我所珍爱。

3.10.22

इत्येवमुक्त्वा वचनं महात्मा
सीतां प्रियां मैथिलराजपुत्रीम्।
रामो धनुष्मान् सह लक्ष्मणेन
जगाम रम्याणि तपोवनानि ॥ ३.१०.२२ ॥

伟大的罗摩手持弓箭,对心爱的弥提罗国王之女悉多说完这番话,便与罗什曼那一同向美丽的苦行林走去。