蚁垤《罗摩衍那》 · 篇 3.11
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.11.1
अग्रतः प्रययौ रामः सीता मध्ये सुशोभना।
पृष्ठतस्तु धनुष्पाणिर्लक्ष्मणोऽनुजगाम ह ॥ ३.११.१ ॥
罗摩走在前面,光彩照人的悉多在中间,手持弓箭的罗什曼那跟在后面。
3.11.2
तौ पश्यमानौ विविधान् शैलप्रस्थान् वनानि च।
नदीश्च विविधा रम्या जग्मतुः सह सीतया ॥ ३.११.२ ॥
两人一边观赏各种山岭高原、森林和美丽的河流,一边与悉多同行。
3.11.3
सारसांश्चक्रवाकांश्च नदीपुलिनचारिणः।
सरांसि च सपद्मानि युतानि जलजैः खगैः ॥ ३.११.३ ॥
沿着河岸漫步的沙罗鹤和赤麻鸭,以及盛开莲花的湖泊,点缀着水鸟。
3.11.4
यूथबद्धांश्च पृषतान् मदोन्मत्तान् विषाणिनः।
महिषांश्च वराहांश्च गजांश्च द्रुमवैरिणः ॥ ३.११.४ ॥
成群的斑鹿,因发情而狂躁的长角水牛,野猪,以及树木的天敌——大象。
3.11.5
ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे।
ददृशुः सहिता रम्यं तटाकं योजनायुतम् ॥ ३.११.५ ॥
走了很远的路,太阳将落之时,他们看见一座美丽的湖泊,绵延一万由旬。
3.11.6
पद्मपुष्करसम्बाधं गजयूथैरलंकृतम्।
सारसैर्हंसकादम्बैः संकुलं जलजातिभिः ॥ ३.११.६ ॥
长满莲花与睡莲,点缀着象群,充满沙罗鹤、天鹅和鸭子,栖息着多种水生生物。
3.11.7
प्रसन्नसलिले रम्ये तस्मिन् सरसि शुश्रुवे।
गीतवादित्रनिर्घोषो न तु कश्चन दृश्यते ॥ ३.११.७ ॥
在那清澈可爱的湖中,人们听到歌声与乐器之声,却不见一人。
3.11.8
ततः कौतूहलाद् रामो लक्ष्मणश्च महारथः।
मुनिं धर्मभृतं नाम प्रष्टुं समुपचक्रमे ॥ ३.११.८ ॥
于是,出于好奇,罗摩与大车士罗什曼那开始向名为达摩跋利特的仙人发问。
3.11.9
इदमत्यद्भुतं श्रुत्वा सर्वेषां नो महामुने।
कौतूहलं महज्जातं किमिदं साधु कथ्यताम् ॥ ३.११.९ ॥
大仙啊,听闻这极其神奇之事,我们所有人心中都生出了强烈的好奇;这究竟是什么?请您如实告诉我们。
3.11.10
तेनैवमुक्तो धर्मात्मा राघवेण मुनिस्तदा।
प्रभावं सरसः क्षिप्रमाख्यातुमुपचक्रमे ॥ ३.११.१० ॥
罗摩如此发问,那位德性高尚的仙人便立即开始讲述这湖泊的神力。
3.11.11
इदं पञ्चाप्सरो नाम तटाकं सार्वकालिकम्।
निर्मितं तपसा राम मुनिना माण्डकर्णिना ॥ ३.११.११ ॥
罗摩啊,这座名为般遮阿沙罗斯的湖泊,万世长存,是仙人曼荼迦尔尼以苦行所造。
3.11.12
स हि तेपे तपस्तीव्रं माण्डकर्णिर्महामुनिः।
दशवर्षसहस्राणि वायुभक्षो जलाशये ॥ ३.११.१२ ॥
那位大仙曼荼迦尔尼在水中居住,只以风为食,苦修了一万年。
3.11.13
ततः प्रव्यथिताः सर्वे देवाः साग्निपुरोगमाः।
अब्रुवन् वचनं सर्वे परस्परसमागताः ॥ ३.११.१३ ॥
于是以火神为首的诸神大为不安,相聚一处,互相说出了这些话。
3.11.15
अस्माकं कस्यचित् स्थानमेष प्रार्थयते मुनिः।
ततः कर्तुं तपोविघ्नं सर्वदेवैर्नियोजिताः।
प्रधानाप्सरसः पञ्च विद्युच्चलितवर्चसः ॥ ३.११.१५ ॥
“这位仙人想夺取我们中某人的地位。”因此诸神派出五位主要的天女,她们的光彩如闪电般闪烁,以扰乱他的苦行。
3.11.16
अप्सरोभिस्ततस्ताभिर्मुनिर्दृष्टपरावरः।
नीतो मदनवश्यत्वं देवानां कार्यसिद्धये ॥ ३.११.१६ ॥
于是,那位已洞悉至上与低下真理的仙人,被那些天女引入爱欲的掌控之中,以成就诸神的目的。
3.11.17
ताश्चैवाप्सरसः पञ्च मुनेः पत्नीत्वमागताः।
तटाके निर्मितं तासां तस्मिन्नन्तर्हितं गृहम् ॥ ३.११.१७ ॥
那五位天女也成为了仙人的妻子,为她们在湖岸建造了一座住所,而它隐藏在湖水之中。
3.11.18
तत्रैवाप्सरसः पञ्च निवसन्त्यो यथासुखम्।
रमयन्ति तपोयोगान्मुनिं यौवनमास्थितम् ॥ ३.११.१८ ॥
那五位天女便在那里安逸地居住,以欢悦取悦仙人——他因苦行之力而重获青春。
3.11.19
तासां संक्रीडमानानामेष वादित्रनिःस्वनः।
श्रूयते भूषणोन्मिश्रो गीतशब्दो मनोहरः ॥ ३.११.१९ ॥
她们嬉戏时,乐器的声音清晰可闻,与饰物的叮当声交织,还有迷人的歌声。
3.11.20
आश्चर्यमिति तस्यैतद् वचनं भावितात्मनः।
राघवः प्रतिजग्राह सह भ्रात्रा महायशाः ॥ ३.११.२० ॥
闻此纯净心灵的仙人之言,说道:「真是奇妙!」,声名显赫的罗ker婆(罗摩)与其兄弟一同接受了。
3.11.21
एवं कथयमानः स ददर्शाश्रममण्डलम्।
कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम् ॥ ३.११.२१ ॥
他如此说着,看见了被吉祥草和树皮衣环绕、充满梵天光辉的诸净修林。
3.11.22
प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः।
तदा तस्मिन् स काकुत्स्थः श्रीमत्याश्रममण्डले ॥ ३.११.२२ ॥
于是罗摩(迦俱提斯塔、罗摩)与毗提诃(悉多)、罗什曼那一同进入了那吉祥的诸净修林。
3.11.23
उषित्वा स सुखं तत्र पूज्यमानो महर्षिभिः।
जगाम चाश्रमांस्तेषां पर्यायेण तपस्विनाम् ॥ ३.११.२३ ॥
他在那里安乐居住,受到大仙人们的尊敬,依次前往那些苦行者的净修林。
3.11.24
येषामुषितवान् पूर्वं सकाशे स महास्त्रवित् ।
क्वचित् परिदशान् मासानेकसंवत्सरं क्वचित् ॥ ३.११.२४ ॥
在那些曾经与这位精通神兵的人同住过的苦行者身边,有时十个月,有时整整一年。
3.11.25
क्वचिच्च चतुरो मासान् पञ्च षट् च परान् क्वचित्।
अपरत्राधिकान् मासानध्यर्धमधिकं क्वचित् ॥ ३.११.२५ ॥
有时四个月,有时五六个月,甚至更多;在别处又有更多的月份,有时则超过一个半月。
3.11.26
त्रीन् मासानष्टमासांश्च राघवो न्यवसत् सुखम्।
तत्र संवसतस्तस्य मुनीनामाश्रमेषु वै ॥ ३.११.२६ ॥
罗怙婆在那里幸福地居住了三个月和八个月,住在诸位仙人的修行处中。
3.11.27
रमतश्चानुकूल्येन ययुः संवत्सरा दश।
परिसृत्य च धर्मज्ञो राघवः सह सीतया ॥ ३.११.२७ ॥
在和悦中欢乐,十年过去了;精通法的罗怙婆与悉多一同游历之后,
3.11.28
सुतीक्ष्णस्याश्रमपदं पुनरेवाजगाम ह।
स तमाश्रममागम्य मुनिभिः परिपूजितः ॥ ३.११.२८ ॥
他又回到了苏提克什那的修行处;到达那修行处后,受到了众仙人的敬重。
3.11.29
तत्रापि न्यवसद् रामः किंचित् कालमरिंदमः।
अथाश्रमस्थो विनयात् कदाचित् तं महामुनिम् ॥ ३.११.२९ ॥
罗摩也在那里住了一段时间,他是降伏敌人者;后来他在修行处中,怀着谦逊,有一次走近那位大仙人。
3.11.30
उपासीनः स काकुत्स्थः सुतीक्ष्णमिदमब्रवीत्।
अस्मिन्नरण्ये भगवन्नगस्त्यो मुनिसत्तमः ॥ ३.११.३० ॥
坐在旁边的迦古特斯塔(罗摩)对苏提克什那说道:“尊者,在这片森林里居住着最优秀的仙人阿伽斯蒂亚。”
3.11.31
वसतीति मया नित्यं कथाः कथयतां श्रुतम्।
न तु जानामि तं देशं वनस्यास्य महत्तया ॥ ३.११.३१ ॥
“我常从讲述这些事的人那里听说;但由于这片森林广大,我并不知道那个地方。”
3.11.32
कुत्राश्रमपदं रम्यं महर्षेस्तस्य धीमतः।
प्रसादार्थं भगवतः सानुजः सह सीतया ॥ ३.११.३२ ॥
那位智慧的大仙人的可爱静修处在哪里?我想与弟弟和悉多一同前往,求得这位尊者的恩惠。
3.11.33
अगस्त्यमधिगच्छेयमभिवादयितुं मुनिम्।
मनोरथो महानेष हृदि सम्परिवर्तते ॥ ३.११.३३ ॥
我心中萦绕着一个大愿:前去拜见圣人阿伽斯蒂亚,向他致敬。
3.11.35
यदहं तं मुनिवरं शुश्रूषेयमपि स्वयम्।
सुतीक्ष्णः प्रत्युवाचेदं प्रीतो दशरथात्मजम्।
अहमप्येतदेव त्वां वक्तुकामः सलक्ष्मणम् ॥ ३.११.३५ ॥
苏提克希那满心欢喜地对十车王之子说:"我也想亲自侍奉那位最优秀的圣人。我也正想把这件事告诉你和罗什曼那。"
3.11.36
अगस्त्यमभिगच्छेति सीतया सह राघव।
दिष्ट्या त्विदानीमर्थेऽस्मिन् स्वयमेव ब्रवीषि माम् ॥ ३.११.३६ ॥
"罗怙之子啊,与悉多一同去拜见阿伽斯蒂亚吧。幸运的是,此事你如今亲自对我说了。"
3.11.37
अयमाख्यामि ते राम यत्रागस्त्यो महामुनिः।
योजनान्याश्रमात् तात याहि चत्वारि वै ततः।
दक्षिणेन महान् श्रीमानगस्त्यभ्रातुराश्रमः ॥ ३.११.३७ ॥
"罗摩啊,我告诉你大仙人阿伽斯蒂亚在哪里。孩子,从这静修处走四由旬。从那里向南,有阿伽斯蒂亚兄长的宏大而庄严的静修处。"
3.11.38
स्थलीप्रायवनोद्देशे पिप्पलीवनशोभिते।
बहुपुष्पफले रम्ये नानाविहगनादिते ॥ ३.११.३८ ॥
它位于一片以干燥地面为主的林区,装饰着荜拨林,盛开着许多花朵,结满果实,景色宜人,回荡着各种鸟儿的鸣叫。
3.11.39
पद्मिन्यो विविधास्तत्र प्रसन्नसलिलाशयाः।
हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः ॥ ३.११.३९ ॥
那里有种种莲池,池水清澈,布满天鹅与迦兰陀鸭,并以赤麻鸭装点。
3.11.40
तत्रैकां रजनीं व्युष्य प्रभाते राम गम्यताम्।
दक्षिणां दिशमास्थाय वनखण्डस्य पार्श्वतः ॥ ३.११.४० ॥
罗摩啊,在那里住一夜,黎明时分,沿着林地一侧向南方出发吧。
3.11.41
तत्रागस्त्याश्रमपदं गत्वा योजनमन्तरम्।
रमणीये वनोद्देशे बहुपादपशोभिते ॥ ३.११.४१ ॥
距此一由旬处有阿伽斯提耶的修行处,位于那片林木繁茂、景色优美的林地之中。
3.11.42
रंस्यते तत्र वैदेही लक्ष्मणश्च त्वया सह।
स हि रम्यो वनोद्देशो बहुपादपसंयुतः ॥ ३.११.४२ ॥
在那里,毗提诃与罗什曼那将与你一同欢愉,因为那片林地树木众多,实在可爱。
3.11.43
यदि बुद्धिः कृता द्रष्टुमगस्त्यं तं महामुनिम्।
अद्यैव गमने बुद्धिं रोचयस्व महामते ॥ ३.११.४३ ॥
若你已决定去见那位大仙阿伽斯提耶,那么,大智者啊,就请今日决定动身前往吧。
3.11.44
प्रतस्थेऽगस्त्यमुद्दिश्य सानुगः सह सीतया ॥ ३.११.४४ ॥
以阿伽斯提耶为目标,他与随从及悉多一同出发了。
3.11.45
पश्यन् वनानि चित्राणि पर्वतांश्चाभ्रसंनिभान्।
सरांसि सरितश्चैव पथि मार्गवशानुगान् ॥ ३.११.४५ ॥
一路观赏奇异的森林、如云的群山、湖泊与河流,沿着道路的曲折前行。
3.11.46
सुतीक्ष्णेनोपदिष्टेन गत्वा तेन पथा सुखम्।
इदं परमसंहृष्टो वाक्यं लक्ष्मणमब्रवीत् ॥ ३.११.४६ ॥
沿着苏提克什那指示的道路轻松前行,心中十分欢喜,他对罗什曼那说了这番话。
3.11.47
एतदेवाश्रमपदं नूनं तस्य महात्मनः।
अगस्त्यस्य मुनेर्भ्रातुर्दृश्यते पुण्यकर्मणः ॥ ३.११.४७ ॥
这无疑是那位伟大心灵、行善积德的仙人阿伽斯蒂耶之兄的隐修处。
3.11.48
यथा हीमे वनस्यास्य ज्ञाताः पथि सहस्रशः।
संनताः फलभारेण पुष्पभारेण च द्रुमाः ॥ ३.११.४८ ॥
你看这条林间小路上的成千上万棵树,被果实与花朵的重量压得低垂。
3.11.49
पिप्पलीनां च पक्वानां वनादस्मादुपागतः।
गन्धोऽयं पवनोत्क्षिप्तः सहसा कटुकोदयः ॥ ३.११.४९ ॥
这片森林中成熟的荜拨发出一股辛烈的香气,被风忽然吹送过来。
3.11.50
तत्र तत्र च दृश्यन्ते संक्षिप्ताः काष्ठसंचयाः।
लूनाश्च परिदृश्यन्ते दर्भा वैदूर्यवर्चसः ॥ ३.११.५० ॥
到处可见收拢成堆的柴火,还有闪耀如琉璃的吉祥草已被割下。
3.11.51
एतच्च वनमध्यस्थं कृष्णाभ्रशिखरोपमम्।
पावकस्याश्रमस्थस्य धूमाग्रं सम्प्रदृश्यते ॥ ३.११.५१ ॥
林中央那缕如同乌云山峰的,是修行处圣火升起的烟尖,清楚可见。
3.11.52
विविक्तेषु च तीर्थेषु कृतस्नाना द्विजातयः।
पुष्पोपहारं कुर्वन्ति कुसुमैः स्वयमर्जितैः ॥ ३.११.५२ ॥
在幽静的圣浴处沐浴之后,再生者以亲手采摘的花朵献上花供。
3.11.53
ततः सुतीक्ष्णवचनं यथा सौम्य मया श्रुतम्।
अगस्त्यस्याश्रमो भ्रातुर्नूनमेष भविष्यति ॥ ३.११.५३ ॥
贤弟啊,依我听苏提克娜所言,这必定是阿伽斯蒂亚之兄的修行处。
3.11.54
निगृह्य तरसा मृत्युं लोकानां हितकाम्यया।
यस्य भ्रात्रा कृतेयं दिक्शरण्या पुण्यकर्मणा ॥ ३.११.५४ ॥
为了世界的福祉,他甚至以力量制服了死神,那位行善积德者之兄使此方向成为可以依托的庇护之所。
3.11.55
इहैकदा किल क्रूरो वातापिरपि चेल्वलः।
भ्रातरौ सहितावास्तां ब्राह्मणघ्नौ महासुरौ ॥ ३.११.५५ ॥
此处曾有残忍的伐塔披与伊尔瓦拉二人,两兄弟,皆为杀害婆罗门的大阿修罗,一同居住。
3.11.56
धारयन् ब्राह्मणं रूपमिल्वलः संस्कृतं वदन्।
आमन्त्रयति विप्रान् स श्राद्धमुद्दिश्य निर्घृणः ॥ ३.११.५६ ॥
那无情的伊尔瓦拉化作婆罗门之形,以梵语说话,假借祭祖(室罗达)之名邀请婆罗门。
3.11.57
भ्रातरं संस्कृतं कृत्वा ततस्तं मेषरूपिणम्।
तान् द्विजान् भोजयामास श्राद्धदृष्टेन कर्मणा ॥ ३.११.५७ ॥
随后,他将化作公羊之形的兄长烹煮,依照施拉达仪轨,供养那些再生婆罗门。
3.11.58
ततो भुक्तवतां तेषां विप्राणामिल्वलोऽब्रवीत्।
वातापे निष्क्रमस्वेति स्वरेण महता वदन् ॥ ३.११.५८ ॥
于是,伊尔瓦拉对已经进食完毕的婆罗门大声喊道:"瓦塔皮,出来吧!"
3.11.59
ततो भ्रातुर्वचः श्रुत्वा वातापिर्मेषवन्नदन्।
भित्त्वा भित्त्वा शरीराणि ब्राह्मणानां विनिष्पतत् ॥ ३.११.५९ ॥
此时,听到兄长的呼唤,瓦塔皮像公羊一样咩咩叫着,一次又一次撕裂婆罗门的身体冲了出来。
3.11.60
ब्राह्मणानां सहस्राणि तैरेवं कामरूपिभिः।
विनाशितानि संहत्य नित्यशः पिशिताशनैः ॥ ३.११.६० ॥
如此,这些能随意变化形体的食肉者合力,每天都摧毁数千名婆罗门。
3.11.61
अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा।
अनुभूय किल श्राद्धे भक्षितः स महासुरः ॥ ३.११.६१ ॥
那时,应诸神之请,大仙阿伽斯蒂亚据说在施拉达中,亲身经历之后,让那大阿修罗被吞食。
3.11.62
ततः सम्पन्नमित्युक्त्वा दत्त्वा हस्तेऽवनेजनम्।
भ्रातरं निष्क्रमस्वेति चेल्वलः समभाषत ॥ ३.११.६२ ॥
他说道:"已经完成了。"又将水倒在手上,对兄长说:"出来吧!"
3.11.63
स तदा भाषमाणं तु भ्रातरं विप्रघातिनम्।
अब्रवीत् प्रहसन् धीमानगस्त्यो मुनिसत्तमः ॥ ३.११.६३ ॥
那时,智慧的、最优秀的仙人阿伽斯detya看到这个杀害婆罗门的兄弟正在说话,便笑着说道:
3.11.64
कुतो निष्क्रमितुं शक्तिर्मया जीर्णस्य रक्षसः।
भ्रातुस्तु मेषरूपस्य गतस्य यमसादनम् ॥ ३.११.६४ ॥
你的兄长已化作公羊前往阎摩之居,我这衰老的罗刹哪里还有力量走出来呢?
3.11.65
अथ तस्य वचः श्रुत्वा भ्रातुर्निधनसंश्रितम्।
प्रधर्षयितुमारेभे मुनिं क्रोधान्निशाचरः ॥ ३.११.६५ ॥
夜行的罗刹听到他关于兄长之死的话,怒火中烧,开始攻击这位仙人。
3.11.66
सोऽभ्यद्रवद् द्विजेन्द्रं तं मुनिना दीप्ततेजसा।
चक्षुषानलकल्पेन निर्दग्धो निधनं गतः ॥ ३.११.६६ ॥
他扑向那位再生者中的最优秀者,却被这位光辉灿烂的仙人如火的目光完全焚烧,死去了。
3.11.67
तस्यायमाश्रमो भ्रातुस्तटाकवनशोभितः।
विप्रानुकम्पया येन कर्मेदं दुष्करं कृतम् ॥ ३.११.६७ ॥
这是那位兄长的修行处,以湖泊和林木为装饰。出于对婆罗门的怜悯,他完成了这一艰难之事。
3.11.68
एवं कथयमानस्य तस्य सौमित्रिणा सह।
रामस्यास्तं गतः सूर्यः संध्याकालोऽभ्यवर्तत ॥ ३.११.६८ ॥
他与苏弥特里谈论罗摩时,太阳落山了,黄昏的时刻到来。
3.11.69
उपास्य पश्चिमां संध्यां सह भ्रात्रा यथाविधि।
प्रविवेशाश्रमपदं तमृषिं चाभ्यवादयत् ॥ ३.११.६९ ॥
与兄弟一同按规定举行西方的黄昏礼之后,罗摩走入修行所的范围,向那位仙人行礼。
3.11.70
सम्यक्प्रतिगृहीतस्तु मुनिना तेन राघवः।
न्यवसत् तां निशामेकां प्राश्य मूलफलानि च ॥ ३.११.७० ॥
罗怙婆受到那位仙人的妥善接待,食用了根茎与果实,在那里度过了这一夜。
3.11.71
तस्यां रात्र्यां व्यतीतायामुदिते रविमण्डले।
भ्रातरं तमगस्त्यस्य आमन्त्रयत राघवः ॥ ३.११.७१ ॥
那一夜过去,太阳升起之时,罗怙婆便与兄弟商议告别阿伽斯蒂耶的修行所。
3.11.72
अभिवादये त्वां भगवन् सुखमस्म्युषितो निशाम्।
आमन्त्रये त्वां गच्छामि गुरुं ते द्रष्टुमग्रजम् ॥ ३.११.७२ ॥
尊敬的大人,我向您致敬;我安然度过了这一夜。现在向您告辞,前去拜见您的师尊、我的兄长。
3.11.73
गम्यतामिति तेनोक्तो जगाम रघुनन्दनः।
यथोद्दिष्टेन मार्गेण वनं तच्चावलोकयन् ॥ ३.११.७३ ॥
他说“去吧”之后,罗怙族的喜悦者便沿着所指示的道路出发,一边观望那片森林。
3.11.74
नीवारान् पनसान् सालान् वञ्जुलांस्तिनिशांस्तथा।
चिरिबिल्वान् मधूकांश्च बिल्वानथ च तिन्दुकान् ॥ ३.११.७४ ॥
尼婆罗草、波罗蜜树、娑罗树、旺朱罗树、提尼舍树、奇里比尔瓦树、摩度迦树、毕尔瓦树与坦度迦树(一路观望)。
3.11.75
पुष्पितान् पुष्पिताग्राभिर्लताभिरुपशोभितान्।
ददर्श रामः शतशस्तत्र कान्तारपादपान् ॥ ३.११.७५ ॥
罗摩在那里看到数百棵森林中的树木,开满了花,树梢繁花似锦,缀满藤蔓。
3.11.76
हस्तिहस्तैर्विमृदितान् वानरैरुपशोभितान्।
मत्तैः शकुनिसङ्घैश्च शतशः प्रतिनादितान् ॥ ३.११.७६ ॥
被象鼻践踏,有猴子点缀,并被兴奋的鸟群发出的成百上千的回声所回响。
3.11.77
ततोऽब्रवीत् समीपस्थं रामो राजीवलोचनः।
पृष्ठतोऽनुगतं वीरं लक्ष्मणं लक्ष्मिवर्धनम् ॥ ३.११.७७ ॥
于是莲花眼的罗摩对站在身旁、跟在身后的英雄、增添光彩的罗什曼那说道。
3.11.78
स्निग्धपत्रा यथा वृक्षा यथा क्षान्ता मृगद्विजाः।
आश्रमो नातिदूरस्थो महर्षेर्भावितात्मनः ॥ ३.११.७८ ॥
树木叶片光滑,鹿与鸟儿安静,可见这位自制的大仙人的隐居处并不太远。
3.11.79
अगस्त्य इति विख्यातो लोके स्वेनैव कर्मणा।
आश्रमो दृश्यते तस्य परिश्रान्तश्रमापहः ॥ ३.११.७९ ॥
可以看见那位以自身事业闻名于世、名叫阿伽斯提亚的仙人的隐居处;它能消除疲惫者的劳累。
3.11.80
प्राज्यधूमाकुलवनश्चीरमालापरिष्कृतः।
प्रशान्तमृगयूथश्च नानाशकुनिनादितः ॥ ३.११.८० ॥
林中弥漫着浓烟,挂满树皮衣的花环,鹿群安详,回响着各种鸟鸣。
3.11.81
निगृह्य तरसा मृत्युं लोकानां हितकाम्यया।
दक्षिणा दिक् कृता येन शरण्या पुण्यकर्मणा ॥ ३.११.८१ ॥
那位行善积德者,出于对众世界福祉的渴望,以力量制服死亡,使南方成为庇护之所。
3.11.82
तस्येदमाश्रमपदं प्रभावाद् यस्य राक्षसैः।
दिगियं दक्षिणा त्रासाद् दृश्यते नोपभुज्यते ॥ ३.११.८२ ॥
这是他的隐修处。因他的威力,罗刹出于恐惧,只能望见这南方,却不敢享用。
3.11.83
यदाप्रभृति चाक्रान्ता दिगियं पुण्यकर्मणा।
तदाप्रभृति निर्वैराः प्रशान्ता रजनीचराः ॥ ३.११.८३ ॥
自那位行善积德者占据此方以来,夜行的罗刹便不再结怨,安然平静。
3.11.84
नाम्ना चेयं भगवतो दक्षिणा दिक्प्रदक्षिणा।
प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूरकर्मभिः ॥ ३.११.८४ ॥
这位尊者的南方,名为“方位右绕”。它闻名三界,凶残之人难以侵犯。
3.11.85
मार्गं निरोद्धुं सततं भास्करस्याचलोत्तमः।
संदेशं पालयंस्तस्य विन्ध्यशैलो न वर्धते ॥ ३.११.८५ ॥
群山之首的温迪亚山,原本不断长高以阻挡太阳的路径,如今遵从他的命令,不再增长。
3.11.86
अयं दीर्घायुषस्तस्य लोके विश्रुतकर्मणः।
अगस्त्यस्याश्रमः श्रीमान् विनीतमृगसेवितः ॥ ३.११.८६ ॥
这是长寿、功业闻名于世的阿伽斯提耶的殊胜隐居处,温顺的鹿群时常来此。
3.11.87
एष लोकार्चितः साधुर्हिते नित्यं रतः सताम्।
अस्मानधिगतानेष श्रेयसा योजयिष्यति ॥ ३.११.८७ ॥
这位受世人尊崇的贤者,常常乐于善人之利益,将使我们这些来到此地的人获得吉祥。
3.11.88
आराधयिष्याम्यत्राहमगस्त्यं तं महामुनिम्।
शेषं च वनवासस्य सौम्य वत्स्याम्यहं प्रभो ॥ ३.११.८८ ॥
我将在此供奉那位大仙阿伽斯提亚,善良的人啊,主上,我将在此度过余下的林中流放之期。
3.11.89
अत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः।
अगस्त्यं नियताहाराः सततं पर्युपासते ॥ ३.११.८९ ॥
此处诸天、乾闼婆、成就者与大仙,饮食有节,常常侍奉阿伽斯提亚。
3.11.90
नात्र जीवेन्मृषावादी क्रूरो वा यदि वा शठः।
नृशंसः पापवृत्तो वा मुनिरेष तथाविधः ॥ ३.११.९० ॥
在此地,说谎者、残忍者、狡诈者、凶恶者或行恶者都无法存活;此位仙人正是如此。
3.11.91
अत्र देवाश्च यक्षाश्च नागाश्च पतगैः सह।
वसन्ति नियताहारा धर्ममाराधयिष्णवः ॥ ३.११.९१ ॥
此处诸天、夜叉与龙蛇与众鸟同居,饮食有节,愿以敬奉正法为志。
3.11.92
अत्र सिद्धा महात्मानो विमानैः सूर्यसंनिभैः।
त्यक्त्वा देहान् नवैर्देहैः स्वर्याताः परमर्षयः ॥ ३.११.९२ ॥
此处的大德成就者与大仙,乘坐如太阳般的天车,舍弃旧身,以新身升往天界。
3.11.93
यक्षत्वममरत्वं च राज्यानि विविधानि च।
अत्र देवाः प्रयच्छन्ति भूतैराराधिताः शुभैः ॥ ३.११.९३ ॥
在此,诸神受吉祥众生的供奉,赐予夜叉之位、不死之身以及种种王国。
3.11.94
आगताः स्माश्रमपदं सौमित्रे प्रविशाग्रतः।
निवेदयेह मां प्राप्तमृषये सह सीतया ॥ ३.११.९४ ॥
我们已到达苦行林之地。萨乌米特里啊,请先行进入,在此禀告仙人:我已与悉多一同到来。