Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 3.17

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.17.1

कृताभिषेको रामस्तु सीता सौमित्रिरेव च।
तस्माद् गोदावरीतीरात् ततो जग्मुः स्वमाश्रमम् ॥ ३.१७.१ ॥

沐浴之后,罗摩、悉多与萧弥呾罗(罗什曼那)便从戈达瓦里河岸返回了他们自己的修道院。

3.17.2

आश्रमं तमुपागम्य राघवः सहलक्ष्मणः।
कृत्वा पौर्वाह्णिकं कर्म पर्णशालामुपागमत् ॥ ३.१७.२ ॥

罗怙之后罗摩(罗怙后裔)抵达修道院,与罗什曼那一同完成上午的仪式,随后走进了叶屋。

3.17.3

उवास सुखितस्तत्र पूज्यमानो महर्षिभिः।
स रामः पर्णशालायामासीनः सह सीतया ॥ ३.१७.३ ॥

受到大仙们的敬重,他在那里快乐地居住。那罗摩与悉多一同坐在叶屋之中。

3.17.4

विरराज महाबाहुश्चित्रया चन्द्रमा इव।
लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः ॥ ३.१७.४ ॥

大臂者如月与角宿(citrā)同辉;他与兄弟罗什曼那谈论了种种事情。

3.17.5

तदासीनस्य रामस्य कथासंसक्तचेतसः।
तं देशं राक्षसी काचिदाजगाम यदृच्छया ॥ ३.१७.५ ॥

罗摩正坐着、心神沉浸于交谈之中时,一个罗刹女偶然来到了那个地方。

3.17.6

सा तु शूर्पणखा नाम दशग्रीवस्य रक्षसः।
भगिनी राममासाद्य ददर्श त्रिदशोपमम् ॥ ३.१७.६ ॥

她名叫舒尔帕纳卡,是罗刹王十首(十颈)的妹妹。她走近罗摩,看见他如同天神一般。

3.17.7

दीप्तास्यं च महाबाहुं पद्मपत्रायतेक्षणम्।
गजविक्रान्तगमनं जटामण्डलधारिणम् ॥ ३.१७.७ ॥

面容光辉,双臂有力,眼睛修长如莲花花瓣,步态如象般庄严,头上盘着一团发髻。

3.17.8

सुकुमारं महासत्त्वं पार्थिवव्यञ्जनान्वितम्।
राममिन्दीवरश्यामं कंदर्पसदृशप्रभम् ॥ ३.१७.८ ॥

罗摩,身形柔美而精神强大,带着王者的标记,肤色如青莲般深黑,光彩如爱神迦摩。

3.17.9

बभूवेन्द्रोपमं दृष्ट्वा राक्षसी काममोहिता।
सुमुखं दुर्मुखी रामं वृत्तमध्यं महोदरी ॥ ३.१७.९ ॥

罗刹女见到如因陀罗般的罗摩,被欲望迷惑。在美貌的罗摩面前,她是丑陋面容、腰身圆润、腹部肥大的女子。

3.17.10

विशालाक्षं विरूपाक्षी सुकेशं ताम्रमूर्धजा।
प्रियरूपं विरूपा सा सुस्वरं भैरवस्वना ॥ ३.१७.१० ॥

在大眼的罗摩面前,她是丑陋的眼睛;在美发的罗摩面前,她是铜色的头发;在俊美的罗摩面前,她是畸形的;在声音甜美的罗摩面前,她是声音可怖的。

3.17.11

तरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी।
न्यायवृत्तं सुदुर्वृत्ता प्रियमप्रियदर्शना ॥ ३.१७.११ ॥

在年轻的罗摩面前,她凶恶而衰老;在善辩的罗摩面前,她言语乖戾;在行为端正的罗摩面前,她行为极其邪恶;在可爱的罗摩面前,她面貌令人厌恶。

3.17.12

शरीरजसमाविष्टा राक्षसी राममब्रवीत्।
जटी तापसवेषेण सभार्यः शरचापधृक् ॥ ३.१७.१२ ॥

被肉身欲望所控制的罗刹女对罗摩说:“你这头结发、扮作苦行者的人,与妻子同行,手持弓箭!”

3.17.13

आगतस्त्वमिमं देशं कथं राक्षससेवितम्।
किमागमनकृत्यं ते तत्त्वमाख्यातुमर्हसि ॥ ३.१७.१३ ॥

你是如何来到这片罗刹出没之地的?请如实告诉我你来此的目的。

3.17.14

एवमुक्तस्तु राक्षस्या शूर्पणख्या परंतपः।
ऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे ॥ ३.१७.१४ ॥

罗刹女首陀那迦如此问道,灭敌者罗摩便以坦诚之心,开始把一切都告诉她。

3.17.15

आसीद् दशरथो नाम राजा त्रिदशविक्रमः।
तस्याहमग्रजः पुत्रो रामो नाम जनैः श्रुतः ॥ ३.१७.१५ ॥

从前有位名叫十车王的国王,他的勇武堪比诸天神。我是他的长子,世人都称我为罗摩。

3.17.16

भ्रातायं लक्ष्मणो नाम यवीयान् मामनुव्रतः।
इयं भार्या च वैदेही मम सीतेति विश्रुता ॥ ३.१७.१६ ॥

这是我的弟弟罗什曼那,他忠诚地追随我。这是我的妻子毗提诃,以悉多之名闻名于世。

3.17.17

नियोगात् तु नरेन्द्रस्य पितुर्मातुश्च यन्त्रितः।
धर्मार्थं धर्मकांक्षी च वनं वस्तुमिहागतः ॥ ३.१७.१७ ॥

我受国王父亲与母亲之命所约束,为了法,怀着求法之心,来到这里的森林中居住。

3.17.18

त्वां तु वेदितुमिच्छामि कस्य त्वं कासि कस्य वा।
त्वं हि तावन्मनोज्ञाङ्गी राक्षसी प्रतिभासि मे ॥ ३.१७.१८ ॥

但我想知道,你是谁家的,又是谁的妻子。目前你在我看来,像是一位身形优美的罗刹女。

3.17.19

इह वा किंनिमित्तं त्वमागता ब्रूहि तत्त्वतः।
साब्रवीद् वचनं श्रुत्वा राक्षसी मदनार्दिता ॥ ३.१७.१९ ॥

你为何来到此处?请如实告诉我。听了这话,被情欲折磨的罗刹女说道:

3.17.20

श्रूयतां राम तत्त्वार्थं वक्ष्यामि वचनं मम।
अहं शूर्पणखा नाम राक्षसी कामरूपिणी ॥ ३.१७.२० ॥

罗摩啊,请听真相,我将说出我的话。我是名叫首爾帕那卡的罗刹女,能随意变换形貌。

3.17.21

अरण्यं विचरामीदमेका सर्वभयंकरा।
रावणो नाम मे भ्राता यदि ते श्रोत्रमागतः ॥ ३.१७.२१ ॥

我独自在这森林中游荡,使所有人惧怕。我的兄长名叫罗婆那,如果他的名字已传入你的耳中。

3.17.22

वीरो विश्रवसः पुत्रो यदि ते श्रोत्रमागतः।
प्रवृद्धनिद्रश्च सदा कुम्भकर्णो महाबलः ॥ ३.१७.२२ ॥

毗舍罗婆之子那位英雄——如果他的名字已传入你的耳中——以及常年沉睡的大力者俱跋那。

3.17.23

विभीषणस्तु धर्मात्मा न तु राक्षसचेष्टितः।
प्रख्यातवीर्यौ च रणे भ्रातरौ खरदूषणौ ॥ ३.१७.२३ ॥

然而毗婆沙那心地正直,并不像罗刹那样行事。还有兄弟坷罗与伽庐那,在战场上以勇名著称。

3.17.24

तानहं समतिक्रान्तां राम त्वापूर्वदर्शनात्।
समुपेतास्मि भावेन भर्तारं पुरुषोत्तमम् ॥ ३.१७.२४ ॥

罗摩啊,他们我都已超越,因为我从未见过像你这样的人。怀着情意,我来迎娶这位人中至尊为夫。

3.17.25

अहं प्रभावसम्पन्ना स्वच्छन्दबलगामिनी।
चिराय भव भर्ता मे सीतया किं करिष्यसि ॥ ३.१७.२५ ॥

我拥有力量,凭自己的意志之力而行。长久地做我的丈夫吧;你要西塔何用?

3.17.26

विकृता च विरूपा च न सेयं सदृशी तव।
अहमेवानुरूपा ते भार्यारूपेण पश्य माम् ॥ ३.१७.२६ ॥

她丑陋畸形,不配你。唯有我与你相配。请以妻子的模样看看我。

3.17.27

इमां विरूपामसतीं करालां निर्णतोदरीम्।
अनेन सह ते भ्रात्रा भक्षयिष्यामि मानुषीम् ॥ ३.१७.२७ ॥

这个丑陋、不贞、可怖、腹部凹陷的人类女子,连同你的这位兄弟,我都要吞吃掉。

3.17.28

ततः पर्वतशृङ्गाणि वनानि विविधानि च।
पश्यन् सह मया कामी दण्डकान् विचरिष्यसि ॥ ३.१७.२८ ॥

然后,你与我同行,观看山峰与各种森林,沉溺于欲乐之中,将在檀多迦林中漫游。

3.17.29

इत्येवमुक्तः काकुत्स्थः प्रहस्य मदिरेक्षणाम्।
इदं वचनमारेभे वक्तुं वाक्यविशारदः ॥ ३.१७.२९ ॥

被如此称呼后,言辞娴熟的迦恭特斯罗摩看着那双如醉眼的女子,微笑起来,开始说出这些话。