Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 3.2

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

3.2.1

कृतातिथ्योऽथ रामस्तु सूर्यस्योदयनं प्रति।
आमन्त्र्य स मुनीन् सर्वान् वनमेवान्वगाहत ॥ ३.२.१ ॥

もてなしを受けたラーマは、日の出の方へ、すべての聖者に別れを告げて森の中へ入っていった。

3.2.2

नानामृगगणाकीर्णमृक्षशार्दूलसेवितम्।
ध्वस्तवृक्षलतागुल्मं दुर्दर्शसलिलाशयम् ॥ ३.२.२ ॥

多くの種類の鹿の群れで満ち、熊や虎が棲み、木々・蔓・茂みは折れ倒れ、水場は近づきがたい。

3.2.3

निष्कूजमानशकुनिं झिल्लिकागणनादितम्।
लक्ष्मणानुचरो रामो वनमध्यं ददर्श ह ॥ ३.२.३ ॥

ラクシュマナに従うラーマは、鳥の声はなく、コオロギの群れの音が響く森の中央を見た。

3.2.4

सीतया सह काकुत्स्थस्तस्मिन् घोरमृगायुते।
ददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम् ॥ ३.२.४ ॥

恐ろしい獣に満ちたその森で、シーターと共にいたカークツトスタのラーマは、山の頂のような、大声を発する人食いのラークシャサを見た。

3.2.5

गभीराक्षं महावक्त्रं विकटं विकटोदरम्।
बीभत्सं विषमं दीर्घं विकृतं घोरदर्शनम् ॥ ३.२.५ ॥

眼は深く、口は大きく、凶悪で腹は途方もなく大きい。おぞましく、形は歪み、背が高く、異様で、見るだけで恐ろしい。

3.2.6

वसानं चर्म वैयाघ्रं वसार्द्रं रुधिरोक्षितम्।
त्रासनं सर्वभूतानां व्यादितास्यमिवान्तकम् ॥ ३.२.६ ॥

虎の皮をまとい、脂に濡れ血にまみれ、すべての生き物を震え上がらせる、口を開けた死神ヤマのようだ。

3.2.7

त्रीन् सिंहांश्चतुरो व्याघ्रान् द्वौ वृकौ पृषतान् दश।
सविषाणं वसादिग्धं गजस्य च शिरो महत् ॥ ३.२.७ ॥

三頭の獅子、四頭の虎、二頭の狼、十頭の斑点の鹿、そして牙を持ち脂にまみれた大きな象の頭。

3.2.8

अवसज्यायसे शूले विनदन्तं महास्वनम्।
स रामं लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम् ॥ ३.२.८ ॥

鉄の槍に吊るされ、大声で吠えていた彼は、ラーマとラクシュマナ、そしてミティラーの王女シーターを見た。

3.2.9

अभ्यधावत् सुसंक्रुद्धः प्रजाः काल इवान्तकः
स कृत्वा भैरवं नादं चालयन्निव मेदिनीम् ॥ ३.२.९ ॥

激しく怒り、時間のように、死神のように生き物たちへと突進した。恐ろしい咆哮をあげ、大地を揺るがすかのように。

3.2.10

अङ्केनादाय वैदेहीमपक्रम्य तदाब्रवीत्।
युवां जटाचीरधरौ सभार्यौ क्षीणजीवितौ ॥ ३.२.१० ॥

ヴァイデーヒーを膝に抱え、少し離れて、彼は言った。「もつれた髪と樹皮の衣をまとい、妻とともにいる汝ら二人、命は尽きかけている!」

3.2.11

प्रविष्टौ दण्डकारण्यं शरचापासिपाणिनौ।
कथं तापसयोर्वां च वासः प्रमदया सह ॥ ३.२.११ ॥

矢と弓と剣を手にダンダカの森に入った者たちよ!苦行者でありながら、女と共にここに住むとは、どういうことか?

3.2.12

अधर्मचारिणौ पापौ कौ युवां मुनिदूषकौ।
अहं वनमिदं दुर्गं विराधो नाम राक्षसः ॥ ३.२.१२ ॥

不正を行い、罪深く、聖仙を汚す汝ら二人は何者か。私はこの険しい森に住む、ヴィラーダという名の羅刹である。

3.2.13

चरामि सायुधो नित्यमृषिमांसानि भक्षयन्।
इयं नारी वरारोहा मम भार्या भविष्यति ॥ ३.२.१३ ॥

私は常に武器を携え、聖仙たちの肉を食らいながら歩き回る。この腰の美しい女は私の妻となるだろう。

3.2.14

युवयोः पापयोश्चाहं पास्यामि रुधिरं मृधे।
तस्यैवं ब्रुवतो दुष्टं विराधस्य दुरात्मनः ॥ ३.२.१४ ॥

戦いでお前たち二人の罪人の血を私は飲み干そう。このように語る邪悪な心のヴィラーダの(言葉)。

3.2.15

श्रुत्वा सगर्वितं वाक्यं सम्भ्रान्ता जनकात्मजा।
सीता प्रवेपितोद्वेगात् प्रवाते कदली यथा ॥ ३.२.१५ ॥

その傲慢な言葉を聞き、ジャナカの娘シーターは恐怖に襲われ、風に揺れる芭蕉のように動揺に震えた。

3.2.16

तां दृष्ट्वा राघवः सीतां विराधाङ्कगतां शुभाम्।
अब्रवील्लक्ष्मणं वाक्यं मुखेन परिशुष्यता ॥ ३.२.१६ ॥

ヴィラーダの膝に座る美しいシーターを見て、ラーガヴァ(ラーマ)は口を乾かしながらラクシュマナにこう言った。

3.2.17

पश्य सौम्य नरेन्द्रस्य जनकस्यात्मसम्भवाम्।
मम भार्यां शुभाचारां विराधाङ्के प्रवेशिताम् ॥ ३.२.१७ ॥

見よ、優しき者よ。王ジャナカの娘、私の徳高き妻が、ヴィラーダの膝の上に座らされている。

3.2.18

अत्यन्तसुखसंवृद्धां राजपुत्रीं यशस्विनीम्।
यदभिप्रेतमस्मासु प्रियं वरवृतं च यत् ॥ ३.२.१८ ॥

この上ない安楽のうちに育った、栄光ある王女。私たちにとって愛しく、恵みとして選ばれた者——

3.2.19

कैकेय्यास्तु सुसंवृत्तं क्षिप्रमद्यैव लक्ष्मण।
या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी ॥ ३.२.१९ ॥

ラクシュマナよ、カイケーyīの企みは今日すぐに成就した。息子のために遠くを見通す彼女は、王国では満足しなかったのだ。

3.2.20

ययाहं सर्वभूतानां प्रियः प्रस्थापितो वनम्।
अद्येदानीं सकामा सा या माता मध्यमा मम ॥ ३.२.२० ॥

万物に愛される私を森へ送り出した、私の中の母は、今や望みを遂げたのだ。

3.2.21

परस्पर्शात् तु वैदेह्या न दुःखतरमस्ति मे।
पितुर्विनाशात् सौमित्रे स्वराज्य हरणात् तथा ॥ ३.२.२१ ॥

スマトリよ、ヴァイデーヒーが他者に触れられること、父の死、そして私自身の王国が奪われることより大きな苦しみは私にはない。

3.2.22

अब्रवील्लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन् ॥ ३.२.२२ ॥

怒ったラクシュマナは、押さえつけられた象や蛇のように荒い息を吐きながら語った。

3.2.23

अनाथ इव भूतानां नाथस्त्वं वासवोपमः।
मया प्रेष्येण काकुत्स्थ किमर्थं परितप्यसे ॥ ३.२.२३ ॥

カークツスタよ、あなたは帝釈天のように万物の主です。私はあなたの従者です。なぜそのように嘆かれるのですか。

3.2.24

शरेण निहतस्याद्य मया क्रुद्धेन रक्षसः।
विराधस्य गतासोर्हि मही पास्यति शोणितम् ॥ ३.२.२४ ॥

今日、私が怒りの矢で射殺した羅刹ヴィラダの、命の失せた身体の血を、大地が飲み干すだろう。

3.2.25

राज्यकामे मम क्रोधो भरते यो बभूव ह।
तं विराधे विमोक्ष्यामि वज्री वज्रमिवाचले ॥ ३.२.२५ ॥

王国を望んだバラタに対して私が抱いた怒りを、今ヴィラーダにぶつけよう。雷霆の持ち主が山に雷を投げるように。

3.2.26

मम भुजबलवेगवेगितः
पततु शरोऽस्य महान् महोरसि।
व्यपनयतु तनोश्च जीवितं
पततु ततश्च महीं विघूर्णितः ॥ ३.२.२६ ॥

私の腕の力の勢いに駆られたこの大矢が、彼の広い胸に当たり、身体から命を奪わんことを。そして彼はよろめきながら大地に倒れよ。