蚁垤《罗摩衍那》 · 篇 3.20
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.20.1
ततः शूर्पणखा घोरा राघवाश्रममागता।
राक्षसानाचचक्षे तौ भ्रातरौ सह सीतया ॥ ३.२०.१ ॥
于是可怕的首潘那迦来到罗怙后裔的修行处,把与悉多在一起的两位兄弟指给罗刹们看。
3.20.2
ते रामं पर्णशालायामुपविष्टं महाबलम्।
ददृशुः सीतया सार्धं लक्ष्मणेनापि सेवितम् ॥ ३.२०.२ ॥
他们看见大力的罗摩坐在叶屋中,悉多与罗什曼那也在侍奉他。
3.20.3
तां दृष्ट्वा राघवः श्रीमानागतांस्तांश्च राक्षसान्।
अब्रवीद् भ्रातरं रामो लक्ष्मणं दीप्ततेजसम् ॥ ३.२०.३ ॥
罗摩见到她和前来的罗刹,对光辉灿烂的弟弟罗什曼那说道。
3.20.4
मुहूर्तं भव सौमित्रे सीतायाः प्रत्यनन्तरः।
इमानस्या वधिष्यामि पदवीमागतानिह ॥ ३.२०.४ ॥
苏弥陀罗之子啊,暂且守在悉多身边。来到这里跟随她的这些人,我将杀死他们。
3.20.5
वाक्यमेतत् ततः श्रुत्वा रामस्य विदितात्मनः।
तथेति लक्ष्मणो वाक्यं राघवस्य प्रपूजयन् ॥ ३.२०.५ ॥
自知之明的罗摩说了这些话,罗什曼那听后说:“就照您说的办。”以此尊敬罗怙后裔的话。
3.20.6
राघवोऽपि महच्चापं चामीकरविभूषितम्।
चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत् ॥ ३.२०.६ ॥
罗怙后裔也将饰以黄金的大弓上好弦,这位心地正直的人对那些罗刹说道。
3.20.7
पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ।
प्रविष्टौ सीतया सार्धं दुश्चरं दण्डकावनम् ॥ ३.२०.७ ॥
我们二人是十车王之子、兄弟罗摩与罗什曼那;与悉多一同进入了难以穿越的檀那迦森林。
3.20.8
फलमूलाशनौ दान्तौ तापसौ ब्रह्मचारिणौ।
वसन्तौ दण्डकारण्ये किमर्थमुपहिंसथ ॥ ३.२०.८ ॥
我们以果实和根茎为食,是克制自律的苦行者与梵行学生,居住在檀那迦森林中;你们为何要伤害我们?
3.20.9
युष्मान् पापात्मकान् हन्तुं विप्रकारान् महाहवे।
ऋषीणां तु नियोगेन सम्प्राप्तः सशरासनः ॥ ३.२०.९ ॥
奉众仙人之命,我手持弓箭前来,要在这场大战中诛杀你们这些骚扰仙人的恶徒。
3.20.10
तिष्ठतैवात्र संतुष्टा नोपवर्तितुमर्हथ।
यदि प्राणैरिहार्थो वो निवर्तध्वं निशाचराः ॥ ३.२०.१० ॥
就留在此地吧,你们不应心满意足地撤退。若你们在此还顾惜性命,夜行者们,就快回去吧。
3.20.11
तस्य तद् वचनं श्रुत्वा राक्षसास्ते चतुर्दश।
ऊचुर्वाचं सुसंक्रुद्धा ब्रह्मघ्नाः शूलपाणयः ॥ ३.२०.११ ॥
那十四个罗刹听了他的话,极为愤怒,都是杀害婆罗门的凶徒,手持长矛,便说出了这些话。
3.20.12
संरक्तनयना घोरा रामं संरक्तलोचनम्।
परुषा मधुराभाषं हृष्टा दृष्टपराक्रमम् ॥ ३.२०.१२ ॥
那些双目赤红的可怖罗刹,欢喜地望着双目赤红、言语温和、已显示过勇武的罗摩,口出粗声恶语。
3.20.13
क्रोधमुत्पाद्य नो भर्तुः खरस्य सुमहात्मनः।
त्वमेव हास्यसे प्राणान् सद्योऽस्माभिर्हतो युधि ॥ ३.२०.१३ ॥
你激起了我们对主上、大德的罗刹首领恐罗的愤怒;你将在战场上被我们杀死,立即舍弃性命。
3.20.14
का हि ते शक्तिरेकस्य बहूनां रणमूर्धनि।
अस्माकमग्रतः स्थातुं किं पुनर्योद्धुमाहवे ॥ ३.२०.१४ ॥
你孤身一人,在战阵前列,有何力量抵挡如此多的敌人?连站在我们面前都难,更何况作战!
3.20.15
एभिर्बाहुप्रयुक्तैश्च परिघैः शूलपट्टिशैः।
प्राणांस्त्यक्ष्यसि वीर्यं च धनुश्च करपीडितम् ॥ ३.२०.१५ ॥
你将被这些由臂膀掷出的铁棒、长矛与利剑夺去性命;你的勇武和手中紧握的弓也将一并失去。
3.20.16
इत्येवमुक्त्वा संरब्धा राक्षसास्ते चतुर्दश।
उद्यतायुधनिस्त्रिंशा राममेवाभिदुद्रुवुः ॥ ३.२०.१६ ॥
说完这番话,那十四名怒火中烧的罗刹高举兵器与刀剑,直扑罗摩而去。
3.20.17
चिक्षिपुस्तानि शूलानि राघवं प्रति दुर्जयम्।
तानि शूलानि काकुत्स्थः समस्तानि चतुर्दश ॥ ३.२०.१७ ॥
他们把那些长矛投向不可战胜的罗怙后裔;但拘矩氏罗摩将这十四支长矛全部斩断。
3.20.18
तावद्भिरेव चिच्छेद शरैः काञ्चनभूषितैः।
ततः पश्चान्महातेजा नाराचान् सूर्यसंनिभान् ॥ ३.२०.१८ ॥
他以同样数目的金饰箭将其全部射落;随后,大光辉的罗摩发出如太阳般耀眼的那罗遮箭。
3.20.19
जग्राह परमक्रुद्धश्चतुर्दश शिलाशितान्।
गृहीत्वा धनुरायम्य लक्ष्यानुद्दिश्य राक्षसान् ॥ ३.२०.१९ ॥
他大怒之下取出十四支在石上磨利的箭;持弓拉满弓弦,瞄准了罗刹们。
3.20.20
मुमोच राघवो बाणान् वज्रानिव शतक्रतुः।
ते भित्त्वा रक्षसां वेगाद् वक्षांसि रुधिरप्लुताः ॥ ३.२०.२० ॥
罗怙之裔如因陀罗投掷金刚杵般放出箭矢;箭矢迅猛地穿透罗刹的胸膛,浸满鲜血而出。
3.20.21
विनिष्पेतुस्तदा भूमौ वल्मीकादिव पन्नगाः।
तैर्भग्नहृदया भूमौ छिन्नमूला इव द्रुमाः ॥ ३.२०.२१ ॥
那时,他们如从蚁垤中窜出的蛇一样倒在地上;心已被击碎,如同断根的树木一般倒卧于地。
3.20.22
निपेतुः शोणितस्नाता विकृता विगतासवः।
तान् भूमौ पतितान् दृष्ट्वा राक्षसी क्रोधमूर्छिता ॥ ३.२०.२२ ॥
他们浸满鲜血,形貌残损,失去生命,纷纷倒下;罗刹女看见他们倒卧在地,因愤怒而几乎昏厥。
3.20.23
उपगम्य खरं सा तु किंचित्संशुष्कशोणिता।
पपात पुनरेवार्ता सनिर्यासेव वल्लरी ॥ ३.२०.२३ ॥
她走到罗刹将军伽罗身旁,血已略干,因悲痛再次倒下,如同渗出汁液的藤蔓。
3.20.24
भ्रातुः समीपे शोकार्ता ससर्ज निनदं महत् ।
सस्वरं मुमुचे बाष्पं विवर्णवदना तदा ॥ ३.२०.२४ ॥
她在兄长身旁悲痛欲绝,发出一声巨大的哀号;随即面色惨白,放声哭泣,泪如雨下。
3.20.25
निपातितान् प्रेक्ष्य रणे तु राक्षसान्
प्रधाविता शूर्पणखा पुनस्ततः।
वधं च तेषां निखिलेन रक्षसां
शशंस सर्वं भगिनी खरस्य सा ॥ ३.२०.२५ ॥
看到罗刹在战场上倒下,首利波那卡又急速奔去;罗刹之妹将罗刹的全部覆灭之事尽数诉说。