Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 3.26

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.26.1

दूषणस्तु स्वकं सैन्यं हन्यमानं विलोक्य च।
संदिदेश महाबाहुर्भीमवेगान् दुरासदान् ॥ ३.२६.१ ॥

都薄那见自己的军队被杀戮,这位大臂者向那些迅捷可怖、难以抵挡的(罗刹)下达了命令。

3.26.2

राक्षसान् पञ्चसाहस्रान् समरेष्वनिवर्तिनः।
ते शूलैः पट्टिशैः खड्गैः शिलावर्षैर्द्रुमैरपि ॥ ३.२६.२ ॥

五千名在战场上从不退缩的罗刹,手持长矛、铁棒、刀剑,以及如雨的石块和树木(作战)。

3.26.3

शरवर्षैरविच्छिन्नं ववर्षुस्तं समन्ततः।
तद् द्रुमाणां शिलानां च वर्षं प्राणहरं महत् ॥ ३.२६.३ ॥

他们以不间断的箭雨从四面八方倾泻在他身上;那由树木和岩石组成的、夺命的巨大暴雨。

3.26.4

प्रतिजग्राह धर्मात्मा राघवस्तीक्ष्णसायकैः।
प्रतिगृह्य च तद् वर्षं निमीलित इवर्षभः ॥ ३.२६.४ ॥

德行之心的罗ghava以锐利的箭迎击;承受那场箭雨,他像闭目的公牛一般屹立。

3.26.5

रामः क्रोधं परं लेभे वधार्थं सर्वरक्षसाम्।
ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा ॥ ३.२६.५ ॥

罗摩为杀尽所有罗刹而生起极大的愤怒;于是,他充满怒火,以威光熊熊燃烧,如同烈火。

3.26.6

शरैरभ्यकिरत् सैन्यं सर्वतः सहदूषणम्।
ततः सेनापतिः क्रुद्धो दूषणः शत्रुदूषणः ॥ ३.२६.६ ॥

他以箭矢从四面八方覆盖了包括都薄那在内的军队;于是统帅、愤怒的都薄那,这位折磨敌人者,(向前进发)。

3.26.7

शरैरशनिकल्पैस्तं राघवं समवारयत्।
ततो रामः सुसंक्रुद्धः क्षुरेणास्य महद् धनुः ॥ ३.२६.७ ॥

他以如雷电般的箭阻挡罗怙之子。于是极为愤怒的罗摩以刃箭斩断了他的大弓。

3.26.8

चिच्छेद समरे वीरश्चर्तुभिश्चतुरो हयान्।
हत्वा चाश्वान् शरैस्तीक्ष्णैरर्धचन्द्रेण सारथेः ॥ ३.२६.८ ॥

英雄在战中以四箭斩断他的四匹马;以利箭杀死马匹后,又以半月箭……御者。

3.26.9

शिरो जहार तद्रक्षस्त्रिभिर्विव्याध वक्षसि।
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ॥ ३.२६.९ ॥

他砍下那罗刹之首,并以三箭射穿其胸。他的弓已断,无车,马已被杀,御者也被杀,

3.26.10

जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम्।
वेष्टितं काञ्चनैः पट्टैर्देवसैन्याभिमर्दनम् ॥ ३.२६.१० ॥

他握起一把如山峰般的铁棒,令人毛骨悚然,缠以金带,能摧毁天神的军队。

3.26.11

आयसैः शङ्कुभिस्तीक्ष्णैः कीर्णं परवसोक्षितम्।
वज्राशनिसमस्पर्शं परगोपुरदारणम् ॥ ३.२६.११ ॥

缀有锋利的铁刺,溅满敌人的脂血,触感如金刚与闪电,能摧破敌城之门。

3.26.12

तं महोरगसंकाशं प्रगृह्य परिघं रणे।
दूषणोऽभ्यपतद् रामं क्रूरकर्मा निशाचरः ॥ ३.२६.१२ ॥

他在战中握起那如大蛇般的铁棒,残暴的夜行者dūṣaṇa扑向罗摩。

3.26.13

तस्याभिपतमानस्य दूषणस्य च राघवः।
द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ ॥ ३.२६.१३ ॥

当持杖的Dūṣaṇa扑来时,罗怙之裔以两支箭连同手臂与饰物一并斩断了他的双臂。

3.26.14

भ्रष्टस्तस्य महाकायः पपात रणमूर्धनि।
परिघश्छिन्नहस्तस्य शक्रध्वज इवाग्रतः ॥ ३.२६.१४ ॥

那巨大身躯倒在战场前列;断手脱落的铁杵如因陀罗之旗般横陈于前。

3.26.15

कराभ्यां च विकीर्णाभ्यां पपात भुवि दूषणः।
विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः ॥ ३.२६.१५ ॥

双手被斩断散落,Dūṣaṇa倒于地上,如同断了象牙的雄壮大象。

3.26.16

दृष्ट्वा तं पतितं भूमौ दूषणं निहतं रणे।
साधु साध्विति काकुत्स्थं सर्वभूतान्यपूजयन् ॥ ३.२६.१६ ॥

众生见Dūṣaṇa战死倒卧于地,皆高呼“善哉,善哉!”以敬礼罗怙之裔Kākutstha(罗摩)。

3.26.17

एतस्मिन्नन्तरे क्रुद्धास्त्रयः सेनाग्रयायिनः।
संहत्याभ्यद्रवन् रामं मृत्युपाशावपाशिताः ॥ ३.२६.१७ ॥

此时,行于军前的三名愤怒将领,仿佛被死亡之索缠住,聚集一处向罗摩猛扑而来。

3.26.18

महाकपालः स्थूलाक्षः प्रमाथी च महाबलः।
महाकपालो विपुलं शूलमुद्यम्य राक्षसः ॥ ३.२६.१८ ॥

Mahākapāla、Sthūlākṣa与大力的Pramāthin——Mahākapāla高举巨大的三叉戟。

3.26.19

स्थूलाक्षः पट्टिशं गृह्य प्रमाथी च परश्वधम्।
दृष्ट्वैवापततस्तांस्तु राघवः सायकैः शितैः ॥ ३.२६.१९ ॥

斯图拉克莎持铁棍,普拉马提持战斧。罗怙之后见他们冲来,便以锐利的箭迎击。

3.26.20

तीक्ष्णाग्रैः प्रतिजग्राह सम्प्राप्तानतिथीनिव।
महाकपालस्य शिरश्चिच्छेद रघुनन्दनः ॥ ३.२६.२० ॥

他以锐利的箭头迎接他们,仿佛迎接远道而来的客人;罗怙族的喜悦者斩下了摩诃迦波罗的头颅。

3.26.21

असंख्येयैस्तु बाणौघैः प्रममाथ प्रमाथिनम्।
स्थूलाक्षस्याक्षिणी स्थूले पूरयामास सायकैः ॥ ३.२६.२१ ॥

他以无数箭雨击倒了普拉马提,又以箭矢充满了斯图拉克莎的大眼。

3.26.22

स पपात हतो भूमौ विटपीव महाद्रुमः।
दूषणस्यानुगान् पञ्चसाहस्रान् कुपितः क्षणात् ॥ ३.२६.२२ ॥

他被杀后如大树般倒在地上;随后愤怒的罗摩刹那间杀死了都舍那的五千随从。

3.26.23

हत्वा तु पञ्चसाहस्रैरनयद् यमसादनम्।
दूषणं निहतं श्रुत्वा तस्य चैव पदानुगान् ॥ ३.२६.२३ ॥

他杀死五千人,将他们送往阎王之所。听闻都舍那被杀,其步兵随从也(被杀),

3.26.24

व्यादिदेश खरः क्रुद्धः सेनाध्यक्षान् महाबलान्।
अयं विनिहतः संख्ये दूषणः सपदानुगः ॥ ३.२६.२४ ॥

愤怒的羯罗对强大的将领们下令:“在战斗中,这个都舍那连同他的步兵随从已被杀死。”

3.26.25

महत्या सेनया सार्धं युद्ध्वा रामं कुमानुषम्।
शस्त्रैर्नानाविधाकारैर्हनध्वं सर्वराक्षसाः ॥ ३.२६.२५ ॥

率领这支大军与那卑劣的人罗摩作战,用各式武器,诸位罗刹,把他击杀吧!

3.26.26

एवमुक्त्वा खरः क्रुद्धो राममेवाभिदुद्रुवे।
श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहंगमः ॥ ३.२६.२६ ॥

如此说罢,愤怒的羯罗直扑罗摩而去:疾如鹰隼,粗颈,祭祀的敌人,形如飞鸟。

3.26.27

दुर्जयः करवीराक्षः परुषः कालकार्मुकः।
हेममाली महामाली सर्पास्यो रुधिराशनः ॥ ३.२६.२७ ॥

难胜、羯罗毗罗刹、粗暴、迦罗迦尔穆迦、金鬘、大鬘、蛇面和饮血者。

3.26.28

द्वादशैते महावीर्या बलाध्यक्षाः ससैनिकाः।
राममेवाभ्यधावन्त विसृजन्तः शरोत्तमान् ॥ ३.२६.२८ ॥

这十二位大勇的统帅率领士兵直扑罗摩,发射出上好的箭矢。

3.26.29

ततः पावकसंकाशैर्हेमवज्रविभूषितैः।
जघान शेषं तेजस्वी तस्य सैन्यस्य सायकैः ॥ ३.२६.२९ ॥

于是光辉的罗摩用如火般闪耀、饰以黄金与金刚石的箭矢,杀尽了那支军队中剩下的人。

3.26.30

ते रुक्मपुङ्खा विशिखाः सधूमा इव पावकाः।
निजघ्नुस्तानि रक्षांसि वज्रा इव महाद्रुमान् ॥ ३.२६.३० ॥

那些金羽的箭如同冒烟的火焰;如金刚杵击倒大树,它们击倒了那些罗刹。

3.26.31

रक्षसां तु शतं रामः शतेनैकेन किर्णना।
सहस्रं तु सहस्रेण जघान रणमूर्धनि ॥ ३.२६.३१ ॥

在战场前线,罗摩以一支箭射杀了百名罗刹,以千支箭射杀了千名罗刹。

3.26.32

तैर्भिन्नवर्माभरणाश्छिन्नभिन्नशरासनाः।
निपेतुः शोणितादिग्धा धरण्यां रजनीचराः ॥ ३.२६.३२ ॥

他们被那些箭射穿,铠甲与饰物破碎,弓弦断裂,血染全身的夜行者们纷纷倒在地上。

3.26.33

तैर्मुक्तकेशैः समरे पतितैः शोणितोक्षितैः।
विस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैरिव ॥ ३.२६.३३ ॥

那些倒在战场上、披散着头发、溅满鲜血的尸体铺满了整个大地,宛如铺满吉祥草的大祭坛。

3.26.34

तत्क्षणे तु महाघोरं वनं निहतराक्षसम्।
बभूव निरयप्रख्यं मांसशोणितकर्दमम् ॥ ३.२६.३४ ॥

就在那一刻,罗刹被杀尽,这片可怖的森林变得如同地狱,满是血肉的泥沼。

3.26.35

चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम्।
हतान्येकेन रामेण मानुषेण पदातिना ॥ ३.२६.३५ ॥

一名步行的凡人罗摩,杀死了一万四千名行凶作恶的罗刹。

3.26.36

तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः।
राक्षसस्त्रिशिराश्चैव रामश्च रिपुसूदनः ॥ ३.२६.३६ ॥

在整支军队中,唯有大车将卡拉、罗刹三首,以及摧毁敌人的罗摩尚存。

3.26.37

शेषा हता महावीर्या राक्षसा रणमूर्धनि।
घोरा दुर्विषहाः सर्वे लक्ष्मणस्याग्रजेन ते ॥ ३.२६.३७ ॥

其余的罗刹皆具大勇、凶猛难当,在战阵前列被罗什曼那的兄长所杀。

3.26.38

ततस्तु तद्भीमबलं महाहवे
समीक्ष्य रामेण हतं बलीयसा।
रथेन रामं महता खरस्ततः
समाससादेन्द्र इवोद्यताशनिः ॥ ३.२६.३८ ॥

见那可怖的大军在大战中被强大的罗摩杀尽,羯罗便乘大车迎向罗摩,如因陀罗高举金刚杵而来。