Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 3.3

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.3.1

अथोवाच पुनर्वाक्यं विराधः पूरयन् वनम्।
पृच्छतो मम हि ब्रूतं कौ युवां क्व गमिष्यथः ॥ ३.३.१ ॥

于是毗罗陀充满森林般再次说道:"我问你们:请据实告诉我,你们二人是谁,要往何处去?"

3.3.2

तमुवाच ततो रामो राक्षसं ज्वलिताननम्।
पृच्छन्तं सुमहातेजा इक्ष्वाकुकुलमात्मनः ॥ ३.३.२ ॥

于是大光明的罗摩,对那张面目燃烧、正在询问的罗刹,说出自己的甘蔗王族之家作答。

3.3.3

क्षत्रियौ वृत्तसम्पन्नौ विद्धि नौ वनगोचरौ।
त्वां तु वेदितुमिच्छावः कस्त्वं चरसि दण्डकान् ॥ ३.३.३ ॥

请知道我们是刹帝利,品行端正,是林中行走之人。但我们想知道你:在檀陀迦林中游荡的你是谁?

3.3.4

तमुवाच विराधस्तु रामं सत्यपराक्रमम्।
हन्त वक्ष्यामि ते राजन् निबोध मम राघव ॥ ३.३.४ ॥

于是毗罗陀对真正勇猛的罗摩说:"好吧,国王,我会告诉你;罗怙之后,请听我说。"

3.3.5

पुत्रः किल जवस्याहं माता मम शतह्रदा।
विराध इति मामाहुः पृथिव्यां सर्वराक्षसाः ॥ ३.३.५ ॥

我确实是遮婆之子;我的母亲是百心。大地上的所有罗刹都称我为毗罗陀。

3.3.6

तपसा चाभिसम्प्राप्ता ब्रह्मणो हि प्रसादजा।
शस्त्रेणावध्यता लोकेऽच्छेद्याभेद्यत्वमेव च ॥ ३.३.६ ॥

凭借苦行与梵天的恩赐,我获得了这些:在世间我不会被兵器所杀,我既不可斩断,也不可刺穿。

3.3.7

उत्सृज्य प्रमदामेनामनपेक्षौ यथागतम्।
त्वरमाणौ पलायेथां न वां जीवितमाददे ॥ ३.३.७ ॥

舍弃此女,不必顾虑,依原路快快逃走吧;我不会夺取你们的性命。

3.3.8

तं रामः प्रत्युवाचेदं कोपसंरक्तलोचनः।
राक्षसं विकृताकारं विराधं पापचेतसम् ॥ ३.३.८ ॥

罗摩双眼因愤怒而通红,对那形貌丑陋、心存邪念的罗刹毗罗陀说了这番话。

3.3.9

क्षुद्र धिक् त्वां तु हीनार्थं मृत्युमन्वेषसे ध्रुवम्।
रणे प्राप्स्यसि संतिष्ठ न मे जीवन् विमोक्ष्यसे ॥ ३.३.९ ॥

卑贱之徒,你该受唾弃!你必定是为了无益之事而寻死;在战场上你将得到它。站住!你休想从我手中活着脱身。

3.3.10

ततः सज्यं धनुः कृत्वा रामः सुनिशितान् शरान्।
सुशीघ्रमभिसंधाय राक्षसं निजघान ह ॥ ३.३.१० ॥

于是罗摩张弓搭箭,迅速搭上极锋利的箭矢,将那罗刹击杀。

3.3.11

धनुषा ज्यागुणवता सप्त बाणान् मुमोच ह।
रुक्मपुङ्खान् महावेगान् सुपर्णानिलतुल्यगान् ॥ ३.३.११ ॥

罗摩以张紧弦的弓射出七支箭,箭羽为金色,速度极快,飞驰如迦卢陀或疾风。

3.3.12

ते शरीरं विराधस्य भित्त्वा बर्हिणवाससः।
निपेतुः शोणितादिग्धा धरण्यां पावकोपमाः ॥ ३.३.१२ ॥

那些饰有孔雀翎的箭穿透了毗罗陀的身体,沾满鲜血,如火焰般落在地上。

3.3.13

स विद्धो न्यस्य वैदेहीं शूलमुद्यम्य राक्षसः।
अभ्यद्रवत् सुसंक्रुद्धस्तदा रामं सलक्ष्मणम् ॥ ३.३.१३ ॥

被箭所伤的罗刹将毗提诃放下,举起长矛,怒不可遏地冲向罗摩与罗什曼那。

3.3.14

स विनद्य महानादं शूलं शक्रध्वजोपमम्।
प्रगृह्याशोभत तदा व्यात्तानन इवान्तकः ॥ ३.३.१४ ॥

发出巨大的吼声,握起如因陀罗旗帜般的长矛,此时他如张开大口的死神一般光彩夺目。

3.3.15

अथ तौ भ्रातरौ दीप्तं शरवर्षं ववर्षतुः।
विराधे राक्षसे तस्मिन् कालान्तकयमोपमे ॥ ३.३.१५ ॥

于是两兄弟向那如时间、终结者与阎摩般的罗刹毗罗陀倾泻出炽热的箭雨。

3.3.16

स प्रहस्य महारौद्रः स्थित्वाजृम्भत राक्षसः।
जृम्भमाणस्य ते बाणाः कायान्निष्पेतुराशुगाः ॥ ३.३.१६ ॥

那极其可怖的罗刹大笑,站立着张口打了个哈欠;他打哈欠时,那些迅疾的箭便从他体内飞了出来。

3.3.17

स्पर्शात् तु वरदानेन प्राणान् संरोध्य राक्षसः।
विराधः शूलमुद्यम्य राघवावभ्यधावत ॥ ३.३.१७ ॥

毗罗陀凭借所得的恩赐,一触即能止住生命之息,他举起长矛,向两位罗怙后裔扑去。

3.3.18

तच्छूलं वज्रसंकाशं गगने ज्वलनोपमम्।
द्वाभ्यां शराभ्यां चिच्छेद रामः शस्त्रभृतां वरः ॥ ३.३.१८ ॥

那长矛如雷电,在空中燃烧如火,持武器者中最杰出的罗摩以两支箭将其斩断。

3.3.19

तद् रामविशिखैश्छिन्नं शूलं तस्यापतद् भुवि।
पपाताशनिना छिन्नं मेरोरिव शिलातलम् ॥ ३.३.१९ ॥

那长矛被罗摩的箭射断,从他手中落到地上,如同须弥山的岩石被雷电击裂而坠下。

3.3.20

तौ खड्गौ क्षिप्रमुद्यम्य कृष्णसर्पाविवोद्यतौ।
तूर्णमापेततुस्तस्य तदा प्रहरतां बलात् ॥ ३.३.२० ॥

二人迅速举起宝剑,那剑如两条黑蛇昂首而起,随即猛然冲向他,奋力砍击。

3.3.21

स वध्यमानः सुभृशं भुजाभ्यां परिगृह्य तौ।
अप्रकम्प्यौ नरव्याघ्रौ रौद्रः प्रस्थातुमैच्छत ॥ ३.३.२१ ॥

那可怖的罗刹虽遭重击,仍以双臂擒住这两位人中猛虎,纹丝不动,想要从那里离去。

3.3.22

तस्याभिप्रायमाज्ञाय रामो लक्ष्मणमब्रवीत्।
वहत्वयमलं तावत् पथानेन तु राक्षसः ॥ ३.३.२२ ॥

罗摩了解了他的意图,便对罗什曼那说:“就让这个罗刹暂且沿着这条路把我们带走吧。”

3.3.23

यथा चेच्छति सौमित्रे तथा वहतु राक्षसः।
अयमेव हि नः पन्था येन याति निशाचरः ॥ ३.३.२३ ॥

随他所愿,哦,sumitra之子,就让这罗刹把我们带走吧;因为这正是我们的路,也是这夜行者所走的路。

3.3.24

स तु स्वबलवीर्येण समुत्क्षिप्य निशाचरः।
बालाविव स्कन्धगतौ चकारातिबलोद्धतः ॥ ३.३.२४ ॥

那夜行者以自身的力量与威势,仗着无比的膂力而骄横自负,将二人举起,像抱着两个孩子一样,把他们放在自己的肩上。

3.3.25

तावारोप्य ततः स्कन्धं राघवौ रजनीचरः।
विराधो विनदन् घोरं जगामाभिमुखो वनम् ॥ ३.३.२५ ॥

于是夜行的罗刹毗罗陀将两位罗怙后裔扛上肩头,发出可怕的吼声,径直向森林走去。

3.3.26

वनं महामेघनिभं प्रविष्टो
द्रुमैर्महद्भिर्विविधैरुपेतम्।
नानाविधैः पक्षिकुलैर्विचित्रं
शिवायुतं व्यालमृगैर्विकीर्णम् ॥ ३.३.२६ ॥

他进入了那片森林,它宛如巨大的云团,布满各种高大的树木,因群鸟而色彩斑斓,又到处是豺狼和猛兽。