Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 3.33

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.33.1

ततः शूर्पणखा दीना रावणं लोकरावणम्।
अमात्यमध्ये संक्रुद्धा परुषं वाक्यमब्रवीत् ॥ ३.३३.१ ॥

于是,悲苦而愤怒的首哩播那迦在众大臣之中,向令世界恐惧的罗波那说了严厉的话。

3.33.2

प्रमत्तः कामभोगेषु स्वैरवृत्तो निरङ्कुशः।
समुत्पन्नं भयं घोरं बोद्धव्यं नावबुध्यसे ॥ ३.३३.२ ॥

你沉溺于欲望的享乐,任性而行,毫无节制;已经产生的可怕危险本应被你察觉,你却浑然不知。

3.33.3

सक्तं ग्राम्येषु भोगेषु कामवृत्तं महीपतिम्।
लुब्धं न बहु मन्यन्ते श्मशानाग्निमिव प्रजाः ॥ ३.३३.३ ॥

百姓不会十分尊重一个沉迷于粗俗世俗享乐、为欲望所驱使、贪婪的君王,正如他们不把火葬的火放在心上一样。

3.33.4

स्वयं कार्याणि यः काले नानुतिष्ठति पार्थिवः।
स तु वै सह राज्येन तैश्च कार्यैर्विनश्यति ॥ ३.३३.४ ॥

国王若不亲自按时处理自己的职责,必定会与国家及那些事务一同毁灭。

3.33.5

अयुक्तचारं दुर्दर्शमस्वाधीनं नराधिपम्।
वर्जयन्ति नरा दूरान्नदीपङ्कमिव द्विपाः ॥ ३.३३.५ ॥

人们远远地避开行为失当、难以接见、不能自制的君王,正如大象避开河中的泥淖一样。

3.33.6

ये न रक्षन्ति विषयमस्वाधीनं नराधिपाः।
ते न वृद्ध्या प्रकाशन्ते गिरयः सागरे यथा ॥ ३.३३.६ ॥

那些不能自制、不保护自己国土的君王,不会在繁荣中光彩焕发,正如大海中的山峰不会因此而增色。

3.33.7

आत्मवद्भिर्विगृह्य त्वं देवगन्धर्वदानवैः।
अयुक्तचारश्चपलः कथं राजा भविष्यसि ॥ ३.३३.७ ॥

你与自制的天神、乾闼婆和檀那婆争斗,又不善于驾驭间谍,轻浮的你将如何成为国王?

3.33.8

त्वं तु बालस्वभावश्च बुद्धिहीनश्च राक्षस।
ज्ञातव्यं तन्न जानीषे कथं राजा भविष्यसि ॥ ३.३३.८ ॥

你啊,罗刹,性情如孩童,缺乏智慧。应当知道的事,你却不知;你怎能成为国王?

3.33.9

येषां चाराश्च कोशश्च नयश्च जयतां वर।
अस्वाधीना नरेन्द्राणां प्राकृतैस्ते जनैः समाः ॥ ३.३३.९ ॥

胜利者中最优秀的人啊!那些间谍、财库与政略不在自己掌控之下的国王,与平凡之人无异。

3.33.10

यस्मात् पश्यन्ति दूरस्थान् सर्वानर्थान् नराधिपाः।
चारेण तस्मादुच्यन्ते राजानो दीर्घचक्षुषः ॥ ३.३३.१० ॥

因为国王通过间谍看见一切远方之事,所以国王被称为“长眼”者。

3.33.11

अयुक्तचारं मन्ये त्वां प्राकृतैः सचिवैर्युतः।
स्वजनं च जनस्थानं निहतं नावबुध्यसे ॥ ३.३३.११ ॥

我认为你的间谍运作失当,你身边只有平庸的大臣;你不知道自己的族人和人居林已被杀尽。

3.33.12

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्।
हतान्येकेन रामेण खरश्च सहदूषणः ॥ ३.३३.१२ ॥

十四千名行事凶残的罗刹,连同杜沙那,以及羯罗,都被罗摩一人杀死。

3.33.13

ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः।
धर्षितं च जनस्थानं रामेणाक्लिष्टकारिणा ॥ ३.३३.१३ ॥

众仙人获得了无惧,檀陀迦林得到了安宁;而不费力而行的罗摩袭击了人居之地。

3.33.14

त्वं तु लुब्धः प्रमत्तश्च पराधीनश्च राक्षस।
विषये स्वे समुत्पन्नं यद् भयं नावबुध्यसे ॥ ३.३३.१४ ॥

你啊罗刹,贪婪、疏忽且受制于人,所以你察觉不到已在自己国土上生起的危险。

3.33.15

तीक्ष्णमल्पप्रदातारं प्रमत्तं गर्वितं शठम्।
व्यसने सर्वभूतानि नाभिधावन्ति पार्थिवम् ॥ ३.३३.१५ ॥

在灾难中,没有任何众生会奔向一位严厉、少施与、疏忽、傲慢而狡诈的君王。

3.33.16

अतिमानिनमग्राह्यमात्मसम्भावितं नरम्।
क्रोधनं व्यसने हन्ति स्वजनोऽपि नराधिपम् ॥ ३.३३.१६ ॥

在灾难中,即便是人君,那位过度自负、难以接近、自我夸耀而易怒之人,也会被他自己的臣民杀死。

3.33.17

नानुतिष्ठति कार्याणि भयेषु न बिभेति च।
क्षिप्रं राज्याच्च्युतो दीनस्तृणैस्तुल्यो भवेदिह ॥ ३.३३.१७ ॥

在危难中不履行职责、也不畏惧的君王,很快就被逐出王国,沦为可怜之人,在此便如同草芥一般。

3.33.18

शुष्ककाष्ठैर्भवेत् कार्यं लोष्ठैरपि च पांसुभिः।
न तु स्थानात् परिभ्रष्टैः कार्यं स्याद् वसुधाधिपैः ॥ ३.३३.१८ ॥

以干枯的木柴、土块,甚至尘土,事情尚可成办;但被逐出其位的君王,却无法成就任何事。

3.33.19

उपभुक्तं यथा वासः स्रजो वा मृदिता यथा।
एवं राज्यात् परिभ्रष्टः समर्थोऽपि निरर्थकः ॥ ३.३३.१९ ॥

如同穿过的衣服或被揉碎的花环便无用处,失去王国的君王即使有能力,也变得毫无用处。

3.33.20

अप्रमत्तश्च यो राजा सर्वज्ञो विजितेन्द्रियः।
कृतज्ञो धर्मशीलश्च स राजा तिष्ठते चिरम् ॥ ३.३३.२० ॥

警觉、博知、克制诸根、感恩且秉持德行的君王,能长久地维持其统治。

3.33.21

नयनाभ्यां प्रसुप्तो वा जागर्ति नयचक्षुषा।
व्यक्तक्रोधप्रसादश्च स राजा पूज्यते जनैः ॥ ३.३३.२१ ॥

即使闭目而眠,仍以策略之眼保持警醒、怒与恩分明的君王,为百姓所尊敬。

3.33.22

त्वं तु रावण दुर्बुद्धिर्गुणैरेतैर्विवर्जितः।
यस्य तेऽविदितश्चारै रक्षसां सुमहान् वधः ॥ ३.३३.२२ ॥

罗波那啊,你心术不正,缺乏这些德性;你的密探也未察知罗刹们的大灭亡。

3.33.23

परावमन्ता विषयेषु सङ्गवान्
न देशकालप्रविभागतत्त्ववित्।
अयुक्तबुद्धिर्गुणदोषनिश्चये
विपन्नराज्यो न चिराद् विपत्स्यसे ॥ ३.३३.२३ ॥

你轻慢他人,贪恋五欲,不知处所与时机的分别之理,在辨别善恶时心志不定;失去王国之后,你不久便将灭亡。

3.33.24

समीक्ष्य बुद्ध्या क्षणदाचरेश्वरः।
धनेन दर्पेण बलेन चान्वितो
विचिन्तयामास चिरं स रावणः ॥ ३.३३.२४ ॥

罗波那,夜行者之主,富有、骄傲且强大,以智慧审视之后,久久思量。