蚁垤《罗摩衍那》 · 篇 3.34
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.34.1
ततः शूर्पणखां दृष्ट्वा ब्रुवन्तीं परुषं वचः।
अमात्यमध्ये संक्रुद्धः परिपप्रच्छ रावणः ॥ ३.३४.१ ॥
此时,看见首哩潘那伽说着粗暴的话语,在众大臣之中大怒的罗波那问道。
3.34.2
कश्च रामः कथंवीर्यः किंरूपः किंपराक्रमः।
किमर्थं दण्डकारण्यं प्रविष्टश्च सुदुस्तरम् ॥ ३.३४.२ ॥
那罗摩是谁?他的威力如何、形貌如何、勇猛如何?他为何进入极难穿越的檀陀迦森林?
3.34.3
आयुधं किं च रामस्य येन ते राक्षसा हताः।
खरश्च निहतः संख्ये दूषणस्त्रिशिरास्तथा ॥ ३.३४.३ ॥
罗摩的武器是什么,以致那些罗刹被杀?在战斗中,喀罗被杀,杜沙那与三头也是如此。
3.34.4
तत्त्वं ब्रूहि मनोज्ञाङ्गि केन त्वं च विरूपिता।
इत्युक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूर्च्छिता ॥ ३.३४.४ ॥
那么告诉我,美丽肢体的人,是谁使你毁容?罗刹王如此询问,罗刹女因愤怒而昏厥……
3.34.5
ततो रामं यथान्यायमाख्यातुमुपचक्रमे।
दीर्घबाहुर्विशालाक्षश्चीरकृष्णाजिनाम्बरः ॥ ३.३४.५ ॥
于是她依礼开始描述罗摩:长臂、大眼,身穿树皮衣与黑鹿皮。
3.34.6
कन्दर्पसमरूपश्च रामो दशरथात्मजः।
शक्रचापनिभं चापं विकृष्य कनकाङ्गदम् ॥ ३.३४.६ ॥
而罗摩,十车王之子,形貌如爱神。他拉开如因陀罗彩虹般、饰有金环的弓……
3.34.7
दीप्तान् क्षिपति नाराचान् सर्पानिव महाविषान्।
नाददानं शरान् घोरान् विमुञ्चन्तं महाबलम् ॥ ३.३४.७ ॥
他射出燃烧的那罗遮箭,如同剧毒的蛇;那取出可怕箭矢并放出的大力者,便是罗摩。
3.34.8
न कार्मुकं विकर्षन्तं रामं पश्यामि संयुगे।
हन्यमानं तु तत्सैन्यं पश्यामि शरवृष्टिभिः ॥ ३.३४.८ ॥
我没有看见罗摩在战斗中拉弓,却看见那支军队被箭雨所射倒。
3.34.9
इन्द्रेणेवोत्तमं सस्यमाहतं त्वश्मवृष्टिभिः।
रक्षसां भीमवीर्याणां सहस्राणि चतुर्दश ॥ ३.३४.९ ॥
如同因陀罗以石雨摧毁上好的庄稼,那些勇猛可怖的罗刹一万四千人正被击倒。
3.34.10
निहतानि शरैस्तीक्ष्णैस्तेनैकेन पदातिना।
अर्धाधिकमुहूर्तेन खरश्च सहदूषणः ॥ ३.३४.१० ॥
那一个步兵以锐利的箭杀死了他们;不到半个牟呼栗多的时间,哈拉与杜沙那也被杀死。
3.34.11
ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः ॥ ३.३४.११ ॥
诸仙人已被赐予无惧,檀陀迦林也已变得安宁。
3.34.12
एका कथंचिन्मुक्ताहं परिभूय महात्मना।
स्त्रीवधं शङ्कमानेन रामेण विदितात्मना ॥ ३.३४.१२ ॥
我被那位大德之人羞辱,唯独我勉强得以脱身;罗摩克己自持,畏惧杀害女人,才放过了我。
3.34.13
भ्राता चास्य महातेजा गुणतस्तुल्यविक्रमः।
अनुरक्तश्च भक्तश्च लक्ष्मणो नाम वीर्यवान् ॥ ३.३४.१३ ॥
他的兄弟是光辉的罗什曼那,在德行与勇力上与他相当,忠诚而专一,是名叫罗什曼那的强大战士。
3.34.14
अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली।
रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः ॥ ३.३४.१४ ॥
他不能忍受侮辱,不可战胜,是胜利者,勇猛、有智慧、有力;他是罗摩的右臂,永远是他的生命气息,在外行动。
3.34.15
रामस्य तु विशालाक्षी पूर्णेन्दुसदृशानना।
धर्मपत्नी प्रिया नित्यं भर्तुः प्रियहिते रता ॥ ३.३४.१५ ॥
罗摩的正室,眼睛宽大,面如满月,是他的爱妻,永远致力于丈夫的喜悦与福祉。
3.34.16
सा सुकेशी सुनासोरूः सुरूपा च यशस्विनी।
देवतेव वनस्यास्य राजते श्रीरिवापरा ॥ ३.३४.१६ ॥
她发丝优美,鼻梁秀挺,大腿修长匀称;她美丽而荣耀,在这片森林中闪耀如女神,如另一位吉祥天女。
3.34.17
तप्तकाञ्चनवर्णाभा रक्ततुङ्गनखी शुभा।
सीता नाम वरारोहा वैदेही तनुमध्यमा ॥ ३.३४.१७ ॥
光彩如熔化的金子,指甲高挺泛红,吉祥;名叫悉多,腰臀优美,是毗提诃之女,纤腰。
3.34.18
नैव देवी न गन्धर्वी न यक्षी न च किंनरी।
तथारूपा मया नारी दृष्टपूर्वा महीतले ॥ ३.३४.१८ ॥
她不是天女,不是乾达婆女,不是夜叉女,也不是紧那罗女;如此形貌的女子,我以前在大地上从未见过。
3.34.19
यस्य सीता भवेद् भार्या यं च हृष्टा परिष्वजेत्।
अभिजीवेत् स सर्वेषु लोकेष्वपि पुरंदरात् ॥ ३.३४.१९ ॥
若悉多成为他的妻子,并欢喜地拥抱他,他将在一切世界中生存,甚至胜过因陀罗。
3.34.20
सा सुशीला वपुःश्लाघ्या रूपेणाप्रतिमा भुवि।
तवानुरूपा भार्या सा त्वं च तस्याः पतिर्वरः ॥ ३.३४.२० ॥
她品性温顺,形体可赞,美貌在大地上无与伦比;她是与你相配的妻子,而你也是与她相配的优秀丈夫。
3.34.21
तां तु विस्तीर्णजघनां पीनोत्तुङ्गपयोधराम्।
भार्यार्थे तु तवानेतुमुद्यताहं वराननाम् ॥ ३.३४.२१ ॥
我已准备好为你将那位面容美丽、臀部宽阔、胸脯丰满高挺的女子带来,使她成为你的妻子。
3.34.22
विरूपितास्मि क्रूरेण लक्ष्मणेन महाभुज।
तां तु दृष्ट्वाद्य वैदेहीं पूर्णचन्द्रनिभाननाम् ॥ ३.३४.२२ ॥
啊,大臂者!我已被残忍的罗什曼那毁了容貌。如今见到那面容如满月的维德赫希——
3.34.23
मन्मथस्य शराणां च त्वं विधेयो भविष्यसि।
यदि तस्यामभिप्रायो भार्यात्वे तव जायते।
शीघ्रमुद्ध्रियतां पादो जयार्थमिह दक्षिणः ॥ ३.३४.२३ ॥
你将臣服于爱神的箭下。若你心中生起以她为妻的意愿,那就快在此抬起你的右脚,以求胜利。
3.34.24
रोचते यदि ते वाक्यं ममैतद् राक्षसेश्वर।
क्रियतां निर्विशङ्केन वचनं मम रावण ॥ ३.३४.२४ ॥
啊,罗刹之主!若我此言合你心意,那么罗波那啊,请毫不迟疑地依我之言而行。
3.34.25
विज्ञायैषामशक्तिं च क्रियतां च महाबल।
सीता तवानवद्याङ्गी भार्यात्वे राक्षसेश्वर ॥ ३.३४.२५ ॥
知其弱点之后,便行动吧,大力者。罗刹之王啊,请以肢体完美的悉多为你的妻子。
3.34.26
निशम्य रामेण शरैरजिह्मगै-
र्हताञ्जनस्थानगतान् निशाचरान्।
खरं च दृष्ट्वा निहतं च दूषणं
त्वमद्य कृत्यं प्रतिपत्तुमर्हसि ॥ ३.३४.२६ ॥
听说前往闲住之地的夜行者们被罗摩笔直飞行的箭所杀,又看见卡拉和杜沙那已被杀,你现在应当履行你的职责。