蚁垤《罗摩衍那》 · 篇 3.36
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.36.1
मारीच श्रूयतां तात वचनं मम भाषतः।
आर्तोऽस्मि मम चार्तस्य भवान् हि परमा गतिः ॥ ३.३६.१ ॥
摩利遮啊,亲爱的朋友,请听我说话。我深感痛苦,对痛苦之人而言,你就是最高的依靠。
3.36.2
जानीषे त्वं जनस्थानं भ्राता यत्र खरो मम।
दूषणश्च महाबाहुः स्वसा शूर्पणखा च मे ॥ ३.३६.२ ॥
你知道诸生之地(Janasthāna),那里有我的兄弟哈罗(Khara),大臂的杜沙那(Dūṣaṇa),还有我的妹妹苏尔帕纳卡(Śūrpaṇakhā)。
3.36.3
त्रिशिराश्च महाबाहू राक्षसः पिशिताशनः।
अन्ये च बहवः शूरा लब्धलक्षा निशाचराः ॥ ३.३६.३ ॥
大臂食肉的罗刹三头(Triśiras),以及许多其他箭无虚发的勇猛夜行者。
3.36.4
वसन्ति मन्नियोगेन अधिवासं च राक्षसाः।
बाधमाना महारण्ये मुनीन् ये धर्मचारिणः ॥ ३.३६.४ ॥
在我的命令下,罗刹们住在那里,在这大森林中骚扰奉行法道的仙人。
3.36.5
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्।
शूराणां लब्धलक्षाणां खरचित्तानुवर्तिनाम् ॥ ३.३६.५ ॥
一万四千名行事凶残、箭无虚发的勇猛罗刹,他们都听从哈罗的心意。
3.36.6
ते त्विदानीं जनस्थाने वसमाना महाबलाः।
सङ्गताः परमायत्ता रामेण सह संयुगे ॥ ३.३६.६ ॥
那些大力的罗刹如今住在诸生之地,已全力以赴,与罗摩在战场上交战。
3.36.7
नानाशस्त्रप्रहरणाः खरप्रमुखराक्षसाः।
तेन संजातरोषेण रामेण रणमूर्धनि ॥ ३.३६.७ ॥
以卡拉为首的罗刹们手持各式兵器,在战场前线与被激怒的罗摩交战。
3.36.8
अनुक्त्वा परुषं किंचिच्छरैर्व्यापारितं धनुः।
चतुर्दश सहस्राणि रक्षसामुग्रतेजसाम् ॥ ३.३६.८ ॥
他未说一句严厉的话,便拉开弓箭,十四千名威势凶猛的罗刹被杀。
3.36.9
निहतानि शरैर्दीप्तैर्मानुषेण पदातिना।
खरश्च निहतः संख्ये दूषणश्च निपातितः ॥ ३.३६.९ ॥
那位步行之人以炽热的箭矢将他们尽数杀死;在战斗中卡拉被杀,都市那也被击倒。
3.36.10
हत्वा त्रिशिरसं चापि निर्भया दण्डकाः कृताः।
पित्रा निरस्तः क्रुद्धेन सभार्यः क्षीणजीवितः ॥ ३.३६.१० ॥
又杀了三头罗刹,丹陀迦林得以无惧;他被愤怒的父亲连同妻子驱逐,寿命已尽。
3.36.11
स हन्ता तस्य सैन्यस्य रामः क्षत्रियपांसनः।
अशीलः कर्कशस्तीक्ष्णो मूर्खो लुब्धोऽजितेन्द्रियः ॥ ३.३६.११ ॥
杀害那支军队的正是罗摩——玷污刹帝利种姓者,品行恶劣、粗暴、凶猛、愚蠢、贪婪,且不能约束自己的感官。
3.36.12
त्यक्तधर्मा त्वधर्मात्मा भूतानामहिते रतः।
येन वैरं विनारण्ये सत्त्वमास्थाय केवलम् ॥ ३.३६.१२ ॥
他舍弃了法,本性非法,以伤害众生为乐;在森林中,并无仇怨,只凭自身力量便做了这一切。
3.36.13
कर्णनासापहारेण भगिनी मे विरूपिता।
अस्य भार्यां जनस्थानात् सीतां सुरसुतोपमाम् ॥ ३.३६.१३ ॥
我的妹妹被割去耳鼻而毁容。要从Janasthāna劫走此人的妻子悉多,她如同天神之女。
3.36.14
आनयिष्यामि विक्रम्य सहायस्तत्र मे भव।
त्वया ह्यहं सहायेन पार्श्वस्थेन महाबल ॥ ३.३६.१४ ॥
我将凭武力把她带来;你在那里做我的助手。大力者啊,有你站在我身旁相助,我便能成功。
3.36.15
भ्रातृभिश्च सुरान् सर्वान् नाहमत्राभिचिन्तये।
तत्सहायो भव त्वं मे समर्थो ह्यसि राक्षस ॥ ३.३६.१५ ॥
我与兄弟们在此不把诸天神放在眼里。哦,罗刹,你要做他的助手,因为你对我而言是有能力的。
3.36.16
वीर्ये युद्धे च दर्पे च न ह्यस्ति सदृशस्तव।
उपायतो महान् शूरो महामायाविशारदः ॥ ३.३६.१६ ॥
论勇力、论战斗、论骄傲,无人能与你相比。凭计谋你是伟大的英雄,精通大幻术。
3.36.17
एतदर्थमहं प्राप्तस्त्वत्समीपं निशाचर।
शृणु तत् कर्म साहाय्ये यत् कार्यं वचनान्मम ॥ ३.३६.१७ ॥
我正是为此事来到你面前。哦,夜行者,听着那件应我之言而作为助力去完成的事。
3.36.18
सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः।
आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ॥ ३.३६.१८ ॥
你变成一只金色、点缀着银斑的鹿,在那罗摩的修行处,在悉多面前游走。
3.36.19
त्वां तु निःसंशयं सीता दृष्ट्वा तु मृगरूपिणम्।
गृह्यतामिति भर्तारं लक्ष्मणं चाभिधास्यति ॥ ३.३६.१९ ॥
毫无疑问,悉多见你化作鹿形,必会对她的夫君和罗什曼那说:“快抓住它!”
3.36.20
ततस्तयोरपाये तु शून्ये सीतां यथासुखम्।
निराबाधो हरिष्यामि राहुश्चन्द्रप्रभामिव ॥ ३.३६.२० ॥
待他们二人离去,我将从空寂的修道院中从容无碍地夺走悉多,犹如罗睺夺去月光。
3.36.21
ततः पश्चात् सुखं रामे भार्याहरणकर्शिते।
विश्रब्धं प्रहरिष्यामि कृतार्थेनान्तरात्मना ॥ ३.३६.२१ ॥
之后,我将从容地、心满意足地向因妻子被劫而消瘦的罗摩放心地发起攻击。
3.36.22
तस्य रामकथां श्रुत्वा मारीचस्य महात्मनः।
शुष्कं समभवद् वक्त्रं परित्रस्तो बभूव च ॥ ३.३६.२२ ॥
大士摩利遮听闻罗摩的故事,面色枯槁,惊恐万分。
3.36.23
ओष्ठौ परिलिहन् शुष्कौ नेत्रैरनिमिषैरिव।
मृतभूत इवार्तस्तु रावणं समुदैक्षत ॥ ३.३६.२३ ॥
他舔着干裂的嘴唇,目不转睛,痛苦得如同死人一般,望着罗波那。
3.36.24
स रावणं त्रस्तविषण्णचेता
महावने रामपराक्रमज्ञः।
कृताञ्जलिस्तत्त्वमुवाच वाक्यं
हितं च तस्मै हितमात्मनश्च ॥ ३.३६.२४ ॥
他深知罗摩在大森林中的勇力,心中恐惧而沮丧,合掌向罗波那说出了真实而有益的话——对罗波那有益,对自己也有益。