蚁垤《罗摩衍那》 · 篇 3.4
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.4.1
ह्रियमाणौ तु काकुत्स्थौ दृष्ट्वा सीता रघूत्तमौ।
उच्चैः स्वरेण चुक्रोश प्रगृह्य सुमहाभुजौ ॥ ३.४.१ ॥
悉多看见两位拘睹世系的英杰、罗怙族中最优秀的人被劫走,便高高举起她那强有力的双臂,大声呼喊。
3.4.2
एष दाशरथी रामः सत्यवाञ्छीलवान् शुचिः।
रक्षसा रौद्ररूपेण ह्रियते सहलक्ष्मणः ॥ ३.४.२ ॥
这位是十车王之子罗摩,诚实、有德、纯洁,正与罗什曼那一同被一个形貌可怖的罗刹劫走。
3.4.3
मामृक्षा भक्षयिष्यन्ति शार्दूलद्वीपिनस्तथा।
मां हरोत्सृज काकुत्स्थौ नमस्ते राक्षसोत्तम ॥ ३.४.३ ॥
熊、虎、豹将会吞食我。罗刹中最优秀的人啊,把我带走吧,但请释放两位拘睹世系的英杰。向你致敬。
3.4.4
तस्यास्तद् वचनं श्रुत्वा वैदेह्या रामलक्ष्मणौ।
वेगं प्रचक्रतुर्वीरौ वधे तस्य दुरात्मनः ॥ ३.४.४ ॥
两位英雄罗摩与罗什曼那听到毗提诃的这番话,便全力向那恶徒发起攻击,要将他杀死。
3.4.5
तस्य रौद्रस्य सौमित्रिः सव्यं बाहुं बभञ्ज ह।
रामस्तु दक्षिणं बाहुं तरसा तस्य रक्षसः ॥ ३.४.५ ॥
苏弥德拉之子(罗什曼那)折断了那可怖之人的左臂,罗摩则猛力折断了这罗刹的右臂。
3.4.6
स भग्नबाहुः संविग्नः पपाताशु विमूर्च्छितः।
धरण्यां मेघसंकाशो वज्रभिन्न इवाचलः ॥ ३.४.६ ॥
双臂折断,惊惶失措,他很快便昏厥倒地,身形如云,犹如被雷电劈裂的山峰。
3.4.7
मुष्टिभिर्बाहुभिः पद्भिः सूदयन्तौ तु राक्षसम्।
उद्यम्योद्यम्य चाप्येनं स्थण्डिले निष्पिपेषतुः ॥ ३.४.७ ॥
二人用拳头、手臂和双脚击打这罗刹,一次次将他举起,把他在地上碾压。
3.4.8
स विद्धौ बहुभिर्बाणैः खड्गाभ्यां च परिक्षतः।
निष्पिष्टो बहुधा भूमौ न ममार स राक्षसः ॥ ३.४.८ ॥
他被众多箭矢射穿,又被两把剑处处刺伤,在地上被多次碾压,那罗刹却没有死。
3.4.9
तं प्रेक्ष्य रामः सुभृशमवध्यमचलोपमम्।
भयेष्वभयदः श्रीमानिदं वचनमब्रवीत् ॥ ३.४.९ ॥
罗摩见他极为坚韧、不可杀死,如同山岳,这位在恐惧中赐予无畏的光辉罗摩说出了这些话。
3.4.10
तपसा पुरुषव्याघ्र राक्षसोऽयं न शक्यते।
शस्त्रेण युधि निर्जेतुं राक्षसं निखनावहे ॥ ३.४.१० ॥
人中虎啊!凭借苦行之力,这罗刹不能在战斗中用兵器战胜;让我们挖一个坑,把这罗刹埋掉吧。
3.4.11
कुञ्जरस्येव रौद्रस्य राक्षसस्यास्य लक्ष्मण।
वनेऽस्मिन् सुमहच्छ्वभ्रं खन्यतां रौद्रवर्चसः ॥ ३.४.११ ॥
罗什曼那啊!对于这只如象般凶猛的罗刹,应在这片森林里挖一个极大的坑,因为他的光芒可怖。
3.4.12
इत्युक्त्वा लक्ष्मणं रामः प्रदरः खन्यतामिति।
तस्थौ विराधमाक्रम्य कण्ठे पादेन वीर्यवान् ॥ ३.४.१२ ॥
罗摩对罗什曼那说了这话——“挖一个坑吧”——然后这位勇猛的罗摩站定,用脚踩住了毗罗陀的喉咙。
3.4.13
तच्छ्रुत्वा राघवेणोक्तं राक्षसः प्रश्रितं वचः।
इदं प्रोवाच काकुत्स्थं विराधः पुरुषर्षभम् ॥ ३.४.१३ ॥
罗刹毗罗陀听了罗伽婆(罗摩)这谦恭的话语,便对人中之牛、迦古特斯塔说道。
3.4.14
हतोऽहं पुरुषव्याघ्र शक्रतुल्यबलेन वै।
मया तु पूर्वं त्वं मोहान्न ज्ञातः पुरुषर्षभ ॥ ३.४.१४ ॥
人中之虎啊,我被你杀死了,你的力量与因陀罗相当。先前因为迷惑,我没有认出你,人中之牛啊。
3.4.15
कौसल्या सुप्रजास्तात रामस्त्वं विदितो मया।
वैदेही च महाभागा लक्ष्मणश्च महायशाः ॥ ३.४.१५ ॥
孩子,我已知道你是罗摩,是憍萨罗之子,善良的儿子。我也认出了大福的悉多(毗提诃公主)和大名的罗什曼那。
3.4.16
अभिशापादहं घोरां प्रविष्टो राक्षसीं तनुम्।
तुम्बुरुर्नाम गन्धर्वः शप्तो वैश्रवणेन हि ॥ ३.४.१६ ॥
因为诅咒,我进入了这可怕的罗刹之身。我是名为毗努嘟卢的乾闼婆,被毗沙罗婆那所诅咒。
3.4.17
प्रसाद्यमानश्च मया सोऽब्रवीन्मां महायशाः।
यदा दाशरथी रामस्त्वां वधिष्यति संयुगे ॥ ३.४.१७ ॥
我请求宽恕时,那位大名者对我说:当十车王之子罗摩在战斗中杀死你的时候。
3.4.18
तदा प्रकृतिमापन्नो भवान् स्वर्गं गमिष्यति।
अनुपस्थीयमानो मां स क्रुद्धो व्याजहार ह ॥ ३.४.१८ ॥
那时你将恢复原本的本性,升往天界。我没有走近他,他便愤怒地对我说话。
3.4.19
तव प्रसादान्मुक्तोऽहमभिशापात् सुदारुणात् ॥ ३.४.१९ ॥
蒙您恩典,我已从这可怕的诅咒中解脱。
3.4.20
भुवनं स्वं गमिष्यामि स्वस्ति वोऽस्तु परंतप।
इतो वसति धर्मात्मा शरभङ्गः प्रतापवान् ॥ ३.४.२० ॥
我将前往自己的世界。愿您平安,焚灭敌人者啊。从此处往前,住着正直而威猛的沙罗婆伽。
3.4.21
अध्यर्धयोजने तात महर्षिः सूर्यसंनिभः।
तं क्षिप्रमभिगच्छ त्वं स ते श्रेयोऽभिधास्यति ॥ ३.४.२१ ॥
亲爱的,相距一又半由旬处有一位如太阳般的大仙人。你快去见他;他会告诉你什么对你有益。
3.4.22
अवटे चापि मां राम निक्षिप्य कुशली व्रज।
रक्षसां गतसत्त्वानामेष धर्मः सनातनः ॥ ३.४.२२ ॥
罗摩啊,也把我埋进坑里,然后平安离去吧。对于生命已逝的罗刹,这便是永恒的法则。
3.4.23
अवटे ये निधीयन्ते तेषां लोकाः सनातनाः।
एवमुक्त्वा तु काकुत्स्थं विराधः शरपीडितः ॥ ३.४.२३ ॥
被埋入坑中者,有永恒的世界。对着迦古特斯塔的罗摩如此说完之后,被箭所伤的毗罗陀——
3.4.24
बभूव स्वर्गसम्प्राप्तो न्यस्तदेहो महाबलः।
तच्छ्रुत्वा राघवो वाक्यं लक्ष्मणं व्यादिदेश ह ॥ ३.४.२४ ॥
此大力者舍弃身躯,升上天界。罗怙之子听罢此言,便吩咐了罗什曼那。
3.4.25
कुञ्जरस्येव रौद्रस्य राक्षसस्यास्य लक्ष्मण।
वनेऽस्मिन्सुमहान् श्वभ्रः खन्यतां रौद्रकर्मणः ॥ ३.४.२५ ॥
啊,罗什曼那,为这个如象般凶猛的罗刹,在这片森林里挖一个大坑,给这个行事残暴的家伙。
3.4.26
इत्युक्त्वा लक्ष्मणं रामः प्रदरः खन्यतामिति।
तस्थौ विराधमाक्रम्य कण्ठे पादेन वीर्यवान् ॥ ३.४.२६ ॥
罗摩对罗什曼那说了这话:“去挖坑。”然后这位威猛的罗摩便站着,用脚踩住毗罗陀的喉咙。
3.4.27
ततः खनित्रमादाय लक्ष्मणः श्वभ्रमुत्तमम्।
अखनत् पार्श्वतस्तस्य विराधस्य महात्मनः ॥ ३.४.२७ ॥
于是罗什曼那拿起铁锹,在那位伟大的毗罗陀身旁挖了一个极好的坑。
3.4.28
तं मुक्तकण्ठमुत्क्षिप्य शङ्कुकर्णं महास्वनम्।
विराधं प्राक्षिपच्छ्वभ्रे नदन्तं भैरवस्वनम् ॥ ३.४.२८ ॥
他们松开他的喉咙,把那个耳如木桩、声音洪亮的毗罗陀举起来,把他这个发出可怕吼声的人投入坑中。
3.4.29
तमाहवे दारुणमाशुविक्रमौ
स्थिरावुभौ संयति रामलक्ष्मणौ।
मुदान्वितौ चिक्षिपतुर्भयावहं
नदन्तमुत्क्षिप्य बलेन राक्षसम् ॥ ३.४.२९ ॥
在那场可怕的战斗中,两位以迅猛英勇、坚定沉着著称的罗摩与罗什曼那,满心欢喜,以力气将那咆哮的罗刹举起,投掷出去,令人心生恐惧。
3.4.30
अवध्यतां प्रेक्ष्य महासुरस्य तौ
शितेन शस्त्रेण तदा नरर्षभौ।
समर्थ्य चात्यर्थविशारदावुभौ
बिले विराधस्य वधं प्रचक्रतुः ॥ ३.४.३० ॥
二位人中雄牛见那大阿修罗无法被杀,便都极为娴熟,以利器在坑中实现了毗罗陀的死亡。
3.4.31
स्वयं विराधेन हि मृत्युमात्मनः
प्रसह्य रामेण यथार्थमीप्सितः।
निवेदितः काननचारिणा स्वयं
न मे वधः शस्त्रकृतो भवेदिति ॥ ३.४.३१ ॥
毗罗陀自己确实希望借罗摩之力死去。这位林中行走者亲自宣告:我不会因武器而死。
3.4.32
तदेव रामेण निशम्य भाषितं
कृता मतिस्तस्य बिलप्रवेशने।
बिलं च तेनातिबलेन रक्षसा
प्रवेश्यमानेन वनं विनादितम् ॥ ३.४.३२ ॥
他听了罗摩的这番话,便下定决心进入洞穴;当那极其强大的罗刹被带入洞穴时,整个森林回响起来。
3.4.33
प्रहृष्टरूपाविव रामलक्ष्मणौ
विराधमुर्व्यां प्रदरे निपात्य तम्।
ननन्दतुर्वीतभयौ महावने
शिलाभिरन्तर्दधतुश्च राक्षसम् ॥ ३.४.३३ ॥
罗摩与罗什曼那面露喜色,将毗罗陀推入地上的坑中;他们无所畏惧,在大森林中欢欣,并用石块掩埋了这罗刹。
3.4.34
ततस्तु तौ काञ्चनचित्रकार्मुकौ
निहत्य रक्षः परिगृह्य मैथिलीम्।
विजह्रतुस्तौ मुदितौ महावने
दिवि स्थितौ चन्द्रदिवाकराविव ॥ ३.४.३४ ॥
此后,二人手持金色彩饰之弓,杀死罗刹,带着弥提罗女,欢喜地在大森林中游乐,如同天空中的日月。