Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 3.42

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.42.1

एवमुक्त्वा तु परुषं मारीचो रावणं ततः।
गच्छावेत्यब्रवीद् दीनो भयाद् रात्रिंचरप्रभोः ॥ ३.४२.१ ॥

摩梨既说了这些严厉的话,因恐惧而沮丧,便对夜行罗刹之主罗波那说:“我们走吧。”

3.42.2

दृष्टश्चाहं पुनस्तेन शरचापासिधारिणा।
मद्वधोद्यतशस्त्रेण निहतं जीवितं च मे ॥ ३.४२.२ ॥

那手持弓、箭与剑的人又见到了我,举起兵器要杀我,我的性命就此断送。

3.42.3

नहि रामं पराक्रम्य जीवन् प्रतिनिवर्तते।
वर्तते प्रतिरूपोऽसौ यमदण्डहतस्य ते ॥ ३.४२.३ ॥

挑战罗摩的人没有活着回来的;他将成为你的翻版,被阎摩的棒杖击倒。

3.42.4

किं नु कर्तुं मया शक्यमेवं त्वयि दुरात्मनि।
एष गच्छाम्यहं तात स्वस्ति तेऽस्तु निशाचर ॥ ३.४२.४ ॥

对你这样心术不正的人,我还能做什么?亲爱的,我走了;愿你平安,夜行者。

3.42.5

प्रहृष्टस्त्वभवत् तेन वचनेन स राक्षसः।
परिष्वज्य सुसंश्लिष्टमिदं वचनमब्रवीत् ॥ ३.४२.५ ॥

罗刹因这番话大为欢喜,紧紧拥抱了他,并说了这些话。

3.42.6

एतच्छौटीर्ययुक्तं ते मच्छन्दवशवर्तिनः।
इदानीमसि मारीचः पूर्वमन्यो हि राक्षसः ॥ ३.४२.६ ॥

你这番话充满勇武;如今你是听从我意志的摩梨。从前你还是另一个罗刹。

3.42.7

आरुह्यतामयं शीघ्रं खगो रत्नविभूषितः।
मया सह रथो युक्तः पिशाचवदनैः खरैः ॥ ३.४२.७ ॥

快快登上这辆镶嵌宝石、形如飞鸟的车;我的这辆车由面目如夜叉的驴所驾。

3.42.8

प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि।
तां शून्ये प्रसभं सीतामानयिष्यामि मैथिलीम् ॥ ३.४२.८ ॥

诱骗了毗提诃之后,你便可去你想去的地方;那位弥ithila的悉多,我将强行带到一处空旷之地。

3.42.9

ततस्तथेत्युवाचैनं रावणं ताटकासुतः।
ततो रावणमारीचौ विमानमिव तं रथम् ॥ ३.४२.९ ॥

于是陀吒迦之子(摩哩旃)对罗波那说:“就这样吧。”随后罗波那与摩哩旃登上那辆车,犹如登上天车。

3.42.10

आरुह्याययतुः शीघ्रं तस्मादाश्रममण्डलात्।
तथैव तत्र पश्यन्तौ पत्तनानि वनानि च ॥ ३.४२.१० ॥

两人登车后,迅速离开那片隐修之地,一路眺望那里的城镇与森林。

3.42.11

गिरींश्च सरितः सर्वा राष्ट्राणि नगराणि च।
समेत्य दण्डकारण्यं राघवस्याश्रमं ततः ॥ ३.४२.११ ॥

越过群山、诸河、国土与城邑,抵达檀陀迦森林,来到罗怙之后(罗摩)的隐修处。

3.42.12

ददर्श सहमारीचो रावणो राक्षसाधिपः।
अवतीर्य रथात् तस्मात् ततः काञ्चनभूषणात् ॥ ३.४२.१२ ॥

罗刹之主罗波那与摩哩旃一同看到了;随后他从那辆金饰之车上下来,

3.42.13

हस्ते गृहीत्वा मारीचं रावणो वाक्यमब्रवीत्।
एतद् रामाश्रमपदं दृश्यते कदलीवृतम् ॥ ३.४२.१३ ॥

罗波那握着摩利支的手说道:这是罗摩的修行处,可见被芭蕉树环绕。

3.42.14

क्रियतां तत् सखे शीघ्रं यदर्थं वयमागताः।
स रावणवचः श्रुत्वा मारीचो राक्षसस्तदा ॥ ३.४२.१४ ॥

朋友,快去做我们来此的目的吧。”罗波那的话语被摩利支听到,那时罗刹摩利支……

3.42.15

मृगो भूत्वाऽऽश्रमद्वारि रामस्य विचचार ह।
स तु रूपं समास्थाय महदद्भुतदर्शनम् ॥ ३.४२.१५ ॥

他变成鹿,在罗摩修行处的门口游荡;他又化作巨大、令人惊异的形貌。

3.42.16

मणिप्रवरशृङ्गाग्रः सितासितमुखाकृतिः।
रक्तपद्मोत्पलमुख इन्द्रनीलोत्पलश्रवाः ॥ ३.४२.१६ ॥

他的鹿角尖端如同上好的宝石,脸形兼有白与黑,脸如红莲与青莲,耳朵如蓝宝石莲花。

3.42.17

किंचिदभ्युन्नतग्रीव इन्द्रनीलनिभोदरः।
मधूकनिभपार्श्वश्च कञ्जकिञ्जल्कसंनिभः ॥ ३.४२.१७ ॥

他的脖颈微微昂起,腹部如同蓝宝石,两胁如同蜜树花,又如莲花蕊那样闪亮。

3.42.18

वैदूर्यसंकाशखुरस्तनुजङ्घः सुसंहतः।
इन्द्रायुधसवर्णेन पुच्छेनोर्ध्वं विराजितः ॥ ३.४२.१८ ॥

他的蹄如猫眼宝石,小腿纤细,身体匀称;尾巴的颜色如因陀罗之弓,向上闪耀。

3.42.19

मनोहरस्निग्धवर्णो रत्नैर्नानाविधैर्वृतः।
क्षणेन राक्षसो जातो मृगः परमशोभनः ॥ ३.४२.१९ ॥

这罗刹容貌光泽可爱,饰以种种宝石,转瞬之间化为一头极其美丽的鹿。

3.42.20

वनं प्रज्वलयन् रम्यं रामाश्रमपदं च तत्।
मनोहरं दर्शनीयं रूपं कृत्वा स राक्षसः ॥ ३.४२.२० ॥

这罗刹照亮了森林和罗摩那可爱的修行处,化作一副迷人可观的形貌。

3.42.21

प्रलोभनार्थं वैदेह्या नानाधातुविचित्रितम्।
विचरन् गच्छते सम्यक् शाद्वलानि समन्ततः ॥ ३.४२.२१ ॥

为了引诱维德赫希(悉多),那鹿身带种种矿物色泽,斑斓绚丽,四处游走,在周围的草地上尽情吃草。

3.42.22

रौप्यैर्बिन्दुशतैश्चित्रं भूत्वा च प्रियदर्शनः।
विटपीनां किसलयान् भक्षयन् विचचार ह ॥ ३.४२.२२ ॥

身上缀满上百个银色斑点,令人赏心悦目,那鹿边走边吃树木的嫩芽。

3.42.23

कदलीगृहकं गत्वा कर्णिकारानितस्ततः।
समाश्रयन् मन्दगतिं सीतासंदर्शनं ततः ॥ ३.४२.२३ ॥

它走入芭蕉林的凉亭,时而依傍迦尼迦罗树,缓步前行,随后便出现在悉多的视野之中。

3.42.24

राजीवचित्रपृष्ठः स विरराज महामृगः।
रामाश्रमपदाभ्याशे विचचार यथासुखम् ॥ ३.४२.२४ ॥

那头大鹿背上绘着莲花纹样,光彩照人,在罗摩的修行处附近悠然漫步。

3.42.25

पुनर्गत्वा निवृत्तश्च विचचार मृगोत्तमः।
गत्वा मुहूर्तं त्वरया पुनः प्रतिनिवर्तते ॥ ३.४२.२५ ॥

这最好的鹿再次前行又折返,四处游荡。急速前行片刻后,它又转身回来。

3.42.26

विक्रीडंश्च क्वचिद् भूमौ पुनरेव निषीदति।
आश्रमद्वारमागम्य मृगयूथानि गच्छति ॥ ३.४२.२६ ॥

在地上某处嬉戏,它又坐了下来。来到修行处的门口,它走向鹿群。

3.42.27

मृगयूथैरनुगतः पुनरेव निवर्तते।
सीतादर्शनमाकांक्षन् राक्षसो मृगतां गतः ॥ ३.४२.२७ ॥

尽管鹿群跟随,它仍再次折返。渴望见到悉多,那罗刹已化作鹿形。

3.42.28

परिभ्रमति चित्राणि मण्डलानि विनिष्पतन्।
समुद्वीक्ष्य च सर्वे तं मृगा येऽन्ये वनेचराः ॥ ३.४२.२८ ॥

它在绚丽的圈子里来回走动,四处跳跃。所有的鹿和其他林中生物看见它后……

3.42.29

उपगम्य समाघ्राय विद्रवन्ति दिशो दश।
राक्षसः सोऽपि तान् वन्यान् मृगान् मृगवधे रतः ॥ ३.४२.२९ ॥

它们靠近并嗅闻它,便向十方散去。那罗刹也沉溺于杀害那些野鹿之中……

3.42.30

प्रच्छादनार्थं भावस्य न भक्षयति संस्पृशन्।
तस्मिन् नेव ततः काले वैदेही शुभलोचना ॥ ३.४२.३० ॥

为掩饰其本相,他即便触碰它们也不吃。就在那时,美目的毗提诃公主(悉多)……

3.42.31

कुसुमापचये व्यग्रा पादपानत्यवर्तत।
कर्णिकारानशोकांश्च चूतांश्च मदिरेक्षणा ॥ ३.४२.३१ ॥

她忙于采花,眼如醉意,在卡尔尼卡拉、阿输迦与芒果树之间穿行。

3.42.32

कुसुमान्यपचिन्वन्ती चचार रुचिरानना।
अनर्हा वनवासस्य सा तं रत्नमयं मृगम् ॥ ३.४२.३२ ॥

采花的那位容颜美丽者,虽不适合林中流放,却凝望着那只由宝石制成的鹿。

3.42.33

मुक्तामणिविचित्राङ्गं ददर्श परमाङ्गना।
तं वै रुचिरदन्तोष्ठं रूप्यधातुतनूरुहम् ॥ ३.४२.३३ ॥

那位至美的女子看见那只鹿,身上缀满珍珠与宝石,牙齿与嘴唇秀美,体毛如银。

3.42.34

विस्मयोत्फुल्लनयना सस्नेहं समुदैक्षत।
स च तां रामदयितां पश्यन् मायामयो मृगः ॥ ३.४२.३४ ॥

她睁大惊讶的眼睛,满怀爱意地凝望着它;而那只幻化的鹿,注视着罗摩的爱妻——

3.42.35

विचचार ततस्तत्र दीपयन्निव तद् वनम्।
अदृष्टपूर्वं दृष्ट्वा तं नानारत्नमयं मृगम्।
विस्मयं परमं सीता जगाम जनकात्मजा ॥ ३.४२.३५ ॥

于是那只鹿在那里游走,仿佛照亮了整片森林。看见这只从未见过、由众多宝石制成的鹿,遮那迦之女悉多心中充满了极大的惊奇。