ヴァールミーキのラーマーヤナ · サルガ 3.43
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.43.1
सा तं सम्प्रेक्ष्य सुश्रोणी कुसुमानि विचिन्वती।
हेमराजतवर्णाभ्यां पार्श्वाभ्यामुपशोभितम् ॥ ३.४३.१ ॥
花を摘んでいた美しい腰のシーターは、金と銀の色の脇腹で飾られたその鹿をじっと見つめた。
3.43.2
प्रहृष्टा चानवद्याङ्गी मृष्टहाटकवर्णिनी।
भर्तारमपि चक्रन्द लक्ष्मणं चैव सायुधम् ॥ ३.४३.२ ॥
喜びに満ち、欠点のない肢体で磨いた金のような色の彼女は、夫を、そして武器を持つラクシュマナをも呼んだ。
3.43.3
आहूयाहूय च पुनस्तं मृगं साधु वीक्षते।
आगच्छागच्छ शीघ्रं वै आर्यपुत्र सहानुज ॥ ३.४३.३ ॥
何度も呼びかけ、その鹿をよく見つめながら彼女は言った。「尊き夫よ、弟と共に早く来てください、来てください!」
3.43.4
तावाहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ।
वीक्षमाणौ तु तं देशं तदा ददृशतुर्मृगम् ॥ ३.४३.४ ॥
ヴァイデーヒーに呼ばれた二人の人中の獅子、ラーマとラクシュマナは、その方角を見つめ、そのとき鹿を見た。
3.43.5
शङ्कमानस्तु तं दृष्ट्वा लक्ष्मणो वाक्यमब्रवीत्।
तमेवैनमहं मन्ये मारीचं राक्षसं मृगम् ॥ ३.४३.५ ॥
それを見て疑念を抱いたラクシュマナはこう言った。「私はこの鹿こそが羅刹マーリーチャだと思う。」
3.43.6
चरन्तो मृगयां हृष्टाः पापेनोपाधिना वने।
अनेन निहता राम राजानः कामरूपिणा ॥ ३.४३.६ ॥
森で狩りを楽しんでいた王たちは、この邪悪な、思いのままに姿を変える羅刹に殺された、ラーマよ。
3.43.7
अस्य मायाविदो माया मृगरूपमिदं कृतम्।
भानुमत् पुरुषव्याघ्र गन्धर्वपुरसंनिभम् ॥ ३.४३.७ ॥
人中の虎よ、この鹿の姿は幻術師の幻術によって作られたものだ。輝き、ガンダルヴァの都のようである。
3.43.8
मृगो ह्येवंविधो रत्नविचित्रो नास्ति राघव।
जगत्यां जगतीनाथ मायैषा हि न संशयः ॥ ३.४३.८ ॥
ラーガヴァよ、宝石で彩られたこのような鹿は世にいない。大地の主よ、これはまさに幻術である、疑いない。
3.43.9
एवं ब्रुवाणं काकुत्स्थं प्रतिवार्य शुचिस्मिता।
उवाच सीता संहृष्टा छद्मना हृतचेतना ॥ ३.४३.९ ॥
このように語るカークツストハを制止して、清らかな微笑みのシーターは、欺きに心を奪われ、喜んで言った。
3.43.10
आर्यपुत्राभिरामोऽसौ मृगो हरति मे मनः।
आनयैनं महाबाहो क्रीडार्थं नो भविष्यति ॥ ३.४३.१० ॥
高貴な夫よ、この愛らしい鹿は私の心を奪います。ああ、大きな腕の方よ、これを連れてきてください。私たちの遊び相手になるでしょう。
3.43.11
इहाश्रमपदेऽस्माकं बहवः पुण्यदर्शनाः।
मृगाश्चरन्ति सहिताश्चमराः सृमरास्तथा ॥ ३.४३.११ ॥
ここ、我らの庵の地には、見て功徳のある多くの鹿が連れ立って歩き回る。ヤク鹿とスマラ鹿もまた。
3.43.12
ऋक्षाः पृषतसङ्घाश्च वानराः किन्नरास्तथा।
विहरन्ति महाबाहो रूपश्रेष्ठा महाबलाः ॥ ३.४३.१२ ॥
熊、斑鹿の群れ、猿、キンナラもまたここを歩き回る。ああ、大きな腕の方よ、彼らは姿が最も優れ、大いなる力を持つ。
3.43.13
न चान्यः सदृशो राजन् दृष्टः पूर्वं मृगो मया।
तेजसा क्षमया दीप्त्या यथायं मृगसत्तमः ॥ ३.४३.१३ ॥
王よ、これに似た鹿は以前一度も見たことがありません。輝き、忍耐、光明において、この鹿の中の最上のものはまさにそうなのです。
3.43.14
नानावर्णविचित्राङ्गो रत्नभूतो ममाग्रतः।
द्योतयन् वनमव्यग्रं शोभते शशिसंनिभः ॥ ३.४३.१४ ॥
多彩に彩られた肢体を持ち、宝石のように私の前に立つこの鹿は、静かな森を照らし、月のように輝いています。
3.43.15
अहो रूपमहो लक्ष्मीः स्वरसम्पच्च शोभना।
मृगोऽद्भुतो विचित्राङ्गो हृदयं हरतीव मे ॥ ३.४३.१५ ॥
ああ、なんと美しい姿、なんと輝き、声の豊かさもなんと素晴らしいことか!このみごとな鹿は、彩り豊かな肢体で、私の心を奪うかのようです。
3.43.16
यदि ग्रहणमभ्येति जीवन् नेव मृगस्तव।
आश्चर्यभूतं भवति विस्मयं जनयिष्यति ॥ ३.४३.१६ ॥
もしこの鹿を生きたまま捕らえることができれば、あなたにとって驚異となるでしょう。それは人々に驚きをもたらすでしょう。
3.43.17
समाप्तवनवासानां राज्यस्थानां च नः पुनः।
अन्तःपुरे विभूषार्थो मृग एष भविष्यति ॥ ३.४३.१७ ॥
森での流謫が終わり、私たちが再び王国に定住したとき、この鹿は後宮を飾るものとなるでしょう。
3.43.18
भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो।
मृगरूपमिदं दिव्यं विस्मयं जनयिष्यति ॥ ३.४३.१८ ॥
主よ、この神々しい鹿の姿は、バラタ、高貴な夫君(あなた)、私の義母たち、そして私にも驚きをもたらすでしょう。
3.43.19
जीवन्न यदि तेऽभ्येति ग्रहणं मृगसत्तमः।
अजिनं नरशार्दूल रुचिरं तु भविष्यति ॥ ३.४३.१९ ॥
人中の虎よ、この鹿の中の最良のものが生きたままあなたの手に入らなければ、その皮は美しいものとなるでしょう。
3.43.20
निहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचि।
शष्पबृस्यां विनीतायामिच्छाम्यहमुपासितुम् ॥ ३.४३.२० ॥
殺されたこの生き物の黄金の皮の上に、草で編んだ良い敷物の席に座りたいのです。
3.43.21
कामवृत्तमिदं रौद्रं स्त्रीणामसदृशं मतम्।
वपुषा त्वस्य सत्त्वस्य विस्मयो जनितो मम ॥ ३.४३.२१ ॥
このような気まぐれで荒々しい振る舞いは女性にふさわしくないとされています。しかし、この生き物の姿に私は驚きを覚えました。
3.43.22
तेन काञ्चनरोम्णा तु मणिप्रवरशृङ्गिणा।
तरुणादित्यवर्णेन नक्षत्रपथवर्चसा ॥ ३.४३.२२ ॥
金色の毛並み、宝石のようにすぐれた角、朝日の色、星の道の輝きをもつその鹿によって。
3.43.24
बभूव राघवस्यापि मनो विस्मयमागतम्।
लोभितस्तेन रूपेण सीतया च प्रचोदितः।
उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः ॥ ३.४३.२४ ॥
ラーガヴァの心もまた驚きに満たされた。その姿に心を奪われ、シーターに促されて喜んだラーガヴァは、弟ラクシュマナにこう語った。
3.43.25
पश्य लक्ष्मण वैदेह्याः स्पृहामुल्लसितामिमाम्।
रूपश्रेष्ठतया ह्येष मृगोऽद्य न भविष्यति ॥ ३.४३.२५ ॥
見よ、ラクシュマナよ、ヴァイデーヒーのこの熱烈な願いを。その姿の優れていることゆえ、この鹿は今日生き延びることはないだろう。
3.43.26
न वने नन्दनोद्देशे न चैत्ररथसंश्रये।
कुतः पृथिव्यां सौमित्रे योऽस्य कश्चित् समो मृगः ॥ ३.४३.२६ ॥
ナンダナの園にも、チャイトララタの林にも、このようなものはない。ましてや地上に、この鹿に並ぶものがどこにあろうか、サウミトリよ。
3.43.27
प्रतिलोमानुलोमाश्च रुचिरा रोमराजयः।
शोभन्ते मृगमाश्रित्य चित्राः कनकबिन्दुभिः ॥ ३.४३.२७ ॥
逆向きにも順向きにも並ぶ美しい毛並みの列が、金色の斑点に彩られて、この鹿の上で輝いている。
3.43.28
पश्यास्य जृम्भमाणस्य दीप्तामग्निशिखोपमाम्।
जिह्वां मुखान्निःसरन्तीं मेघादिव शतह्रदाम् ॥ ३.४३.२८ ॥
あくびをするとき口からほとばしる、炎のように輝く舌を見よ。雲から走る百筋の稲妻のようだ。
3.43.29
मसारगल्वर्कमुखः शङ्खमुक्तानिभोदरः।
कस्य नामानिरूप्योऽसौ न मनो लोभयेन्मृगः ॥ ३.४३.२९ ॥
顔は雲母や瑠璃や太陽のよう、腹は法螺貝や真珠のようである。この言葉にできぬ鹿に、誰の心が惹かれぬことがあろうか。
3.43.30
कस्य रूपमिदं दृष्ट्वा जाम्बूनदमयप्रभम्।
नानारत्नमयं दिव्यं न मनो विस्मयं व्रजेत् ॥ ३.४३.३० ॥
ジャンブーナダの金のように輝き、多くの宝玉からなるこの神々しい姿を見て、驚嘆しない心があろうか。
3.43.31
मांसहेतोरपि मृगान् विहारार्थं च धन्विनः।
घ्नन्ति लक्ष्मण राजानो मृगयायां महावने ॥ ३.४३.३१ ॥
肉のために、また娯楽のためにさえ、弓を持つ王たちは大森林での狩りの最中に鹿を殺す。ラクシュマナよ。
3.43.32
धनानि व्यवसायेन विचीयन्ते महावने।
धातवो विविधाश्चापि मणिरत्नसुवर्णिनः ॥ ३.४३.३२ ॥
大森林では努力によって富が集められ、宝石・珠玉・黄金に富む様々な鉱物も見出される。
3.43.33
तत् सारमखिलं नॄणां धनं निचयवर्धनम्।
मनसा चिन्तितं सर्वं यथा शुक्रस्य लक्ष्मण ॥ ३.४३.३३ ॥
人々の蓄財を増すその精髄の富、心に思うすべてが、シュクラのように、ああラクシュマナよ。
3.43.34
अर्थी येनार्थकृत्येन संव्रजत्यविचारयन्।
तमर्थमर्थशास्त्रज्ञाः प्राहुरर्थ्याः सुलक्ष्मण ॥ ३.४३.३४ ॥
富を求める者が思慮なく富の営みによって赴く、その目的を、富の学に通じた人々は「求める者」と呼ぶ、ああ善き相のラクシュマナよ。
3.43.35
एतस्य मृगरत्नस्य परार्घ्ये काञ्चनत्वचि।
उपवेक्ष्यति वैदेही मया सह सुमध्यमा ॥ ३.४३.३५ ॥
この鹿の宝石の金色の皮は無上の価値がある。その上に、細い腰のヴァイデーヒーが私と共に座るだろう。
3.43.36
न कादली न प्रियकी न प्रवेणी न चाविकी।
भवेदेतस्य सदृशी स्पर्शेऽनेनेति मे मतिः ॥ ३.४३.३६ ॥
カーダリー、プリヤキー、プラヴェーニー、アヴィキーのいずれも、この皮の触れ心地には及ばないと私は思う。
3.43.37
एष चैव मृगः श्रीमान् यश्च दिव्यो नभश्चरः।
उभावेतौ मृगौ दिव्यौ तारामृगमहीमृगौ ॥ ३.४३.३७ ॥
この輝かしい鹿と、天を行く神聖な鹿——この二頭の神聖な鹿は、星の鹿と大地の鹿である。
3.43.38
यदि वायं तथा यन्मां भवेद् वदसि लक्ष्मण।
मायैषा राक्षसस्येति कर्तव्योऽस्य वधो मया ॥ ३.४३.३८ ॥
ラクシュマナよ、もしお前の言うとおり、これが羅刹の幻術であるなら、私は彼を殺さねばならない。
3.43.39
एतेन हि नृशंसेन मारीचेनाकृतात्मना।
वने विचरता पूर्वं हिंसिता मुनिपुंगवाः ॥ ३.४३.३९ ॥
この残酷で心の汚れたマーリーチャは、以前森をさまよっていた時、最も優れた聖者たちを傷つけた。
3.43.40
उत्थाय बहवोऽनेन मृगयायां जनाधिपाः।
निहताः परमेष्वासास्तस्माद् वध्यस्त्वयं मृगः ॥ ३.४३.४० ॥
狩りの最中に立ち上がり、彼は多くの人の王たち、偉大な弓の名手を殺した。ゆえにこの鹿も殺されるべきだ。
3.43.41
पुरस्तादिह वातापिः परिभूय तपस्विनः।
उदरस्थो द्विजान् हन्ति स्वगर्भोऽश्वतरीमिव ॥ ३.४३.४१ ॥
昔ここでヴァータービは苦行者たちを打ち負かし、自分の胎児のように腹の中にとどまって再生族を殺した。雌騾馬が自らの胎で滅びるように。
3.43.42
स कदाचिच्चिराल्लोभादाससाद महामुनिम्।
अगस्त्यं तेजसा युक्तं भक्ष्यस्तस्य बभूव ह ॥ ३.४३.४२ ॥
ある時、長い年月を経て、貪欲から彼は輝きに満ちた大聖者アガスティヤに近づいた。そして彼がその食物となった。
3.43.43
समुत्थाने च तद्रूपं कर्तुकामं समीक्ष्य तम्।
उत्स्मयित्वा तु भगवान् वातापिमिदमब्रवीत् ॥ ३.४३.४३ ॥
彼が立ち上がり、あの姿をとろうとしているのを見て、尊師は微笑んでヴァータービにこう言われた。
3.43.44
त्वयाविगण्य वातापे परिभूताश्च तेजसा।
जीवलोके द्विजश्रेष्ठास्तस्मादसि जरां गतः ॥ ३.४३.४४ ॥
ああヴァーターピよ、お前はこの世で再生族の最上の者たちを軽んじ、己の威力で彼らを屈服させた。ゆえにお前は老いを迎えたのだ。
3.43.45
तद् रक्षो न भवेदेव वातापिरिव लक्ष्मण।
मद्विधं योऽतिमन्येत धर्मनित्यं जितेन्द्रियम् ॥ ३.४३.४५ ॥
ラクシュマナよ、私のように常に法に従い、感官を制した者を侮る羅刹は、ヴァーターピと同じ運命をたどるがよい。
3.43.46
भवेद्धतोऽयं वातापिरगस्त्येनेव मा गतः।
इह त्वं भव संनद्धो यन्त्रितो रक्ष मैथिलीम् ॥ ३.४३.४६ ॥
この者はアガスティヤに殺されたヴァーターピのように殺されるだろう。行くな。ここで備えを固め、自制して、マイティリーを守れ。
3.43.47
अस्यामायत्तमस्माकं यत् कृत्यं रघुनन्दन।
अहमेनं वधिष्यामि ग्रहीष्याम्यथवा मृगम् ॥ ३.४३.४७ ॥
ラグの歓び者よ、彼女に関わる我々の務めが何であれ、私はこの者を討つか、あるいはあの鹿を捕らえよう。
3.43.48
यावद् गच्छामि सौमित्रे मृगमानयितुं द्रुतम्।
पश्य लक्ष्मण वैदेह्या मृगत्वचि गतां स्पृहाम् ॥ ३.४३.४८ ॥
スミトラーの子よ、私があの鹿を連れ戻そうと急ぐ間に、ラクシュマナよ、見よ。ヴァイデーヒーに鹿皮への欲望が生じたのを。
3.43.49
त्वचा प्रधानया ह्येष मृगोऽद्य न भविष्यति।
अप्रमत्तेन ते भाव्यमाश्रमस्थेन सीतया ॥ ३.४३.४९ ॥
今日この鹿は、主にその皮のためにあるのだ。お前は怠らず、庵に住むシーターを守らねばならぬ。
3.43.50
यावत् पृषतमेकेन सायकेन निहन्म्यहम्।
हत्वैतच्चर्म चादाय शीघ्रमेष्यामि लक्ष्मण ॥ ३.४३.५० ॥
ラクシュマナよ、一本の矢で斑点の鹿を射倒し、その皮を取って速やかに戻るまで。
3.43.51
प्रदक्षिणेनातिबलेन पक्षिणा
जटायुषा बुद्धिमता च लक्ष्मण।
भवाप्रमत्तः प्रतिगृह्य मैथिलीं
प्रतिक्षणं सर्वत एव शङ्कितः ॥ ३.४३.५१ ॥
ラクシュマナよ、強大で賢明な鳥ジャターユがそこにいる。油断せず、マイティリーを守る責任を負い、常に四方に気を配れ。