Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 3.46

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.46.1

तया परुषमुक्तस्तु कुपितो राघवानुजः।
स विकांक्षन् भृशं रामं प्रतस्थे नचिरादिव ॥ ३.४६.१ ॥

被她严厉斥责的罗怙后裔之弟(罗什曼那)怒不可遏,急切地想念罗摩,不久便动身出发。

3.46.2

तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितः।
अभिचक्राम वैदेहीं परिव्राजकरूपधृक् ॥ ३.४६.२ ॥

于是十首罗波那迅速抓住时机,化作游方修行者的模样,向毗提诃公主(悉多)走去。

3.46.3

श्लक्ष्णकाषायसंवीतः शिखी छत्री उपानही।
वामे चांसेऽवसज्याथ शुभे यष्टिकमण्डलू ॥ ३.४६.३ ॥

身穿光滑的赭色衣袍,头顶束发,手持伞,足穿鞋履,左肩挂着一根精美的手杖和水瓶。

3.46.4

परिव्राजकरूपेण वैदेहीमन्ववर्तत।
तामाससादातिबलो भ्रातृभ्यां रहितां वने ॥ ३.४६.४ ॥

他化作游方修行者,跟随毗提诃公主(悉多),那位大力者在林中找到了与两位小叔分离的她。

3.46.5

रहितां सूर्यचन्द्राभ्यां संध्यामिव महत्तमः।
तामपश्यत् ततो बालां राजपुत्रीं यशस्विनीम् ॥ ३.४६.५ ॥

如同与日月分离的黄昏,那巨大的黑暗(罗波那)便看见了这位年轻而名声显赫的公主。

3.46.6

रोहिणीं शशिना हीनां ग्रहवद् भृशदारुणः।
तमुग्रं पापकर्माणं जनस्थानगता द्रुमाः ॥ ३.४६.६ ॥

如同失去月亮的罗希尼,又如凶恶的行星,那残暴作恶之人被居住在Janasthāna的树木所看见。

3.46.7

संदृश्य न प्रकम्पन्ते न प्रवाति च मारुतः।
शीघ्रस्रोताश्च तं दृष्ट्वा वीक्षन्तं रक्तलोचनम् ॥ ३.४६.७ ॥

树木见到他便不再颤动,风也不再吹拂;湍急的河流见他以赤红的双眼凝视,也(停住了)。

3.46.8

स्तिमितं गन्तुमारेभे भयाद् गोदावरी नदी।
रामस्य त्वन्तरं प्रेप्सुर्दशग्रीवस्तदन्तरे ॥ ३.४६.८ ॥

河水因恐惧而停滞不前地流淌。十首罗波那渴望罗摩不在,便在那一空隙中开始了他的行动。

3.46.9

उपतस्थे च वैदेहीं भिक्षुरूपेण रावणः।
अभव्यो भव्यरूपेण भर्तारमनुशोचतीम् ॥ ३.४६.९ ॥

罗波那化作乞食的苦行者来到毗提诃公主面前。他本是不祥之人,却化作美好的形貌,站在为丈夫悲伤的她面前。

3.46.10

अभ्यवर्तत वैदेहीं चित्रामिव शनैश्चरः।
सहसा भव्यरूपेण तृणैः कूप इवावृतः ॥ ३.४६.१० ॥

如土星(Śanaiścara)缓缓逼近角宿(Citrā)星,罗波那也逼近了毗提诃。他忽然以美好的形貌出现,犹如被草覆盖的井,隐藏了自己。

3.46.11

अतिष्ठत् प्रेक्ष्य वैदेहीं रामपत्नीं यशस्विनीम्।
तिष्ठन् सम्प्रेक्ष्य च तदा पत्नीं रामस्य रावणः ॥ ३.४६.११ ॥

罗波那见到罗摩那荣耀的妻子毗提诃,便站住了。然后,他站在那里凝视着罗摩的妻子,罗波那便停留在那里。

3.46.12

शुभां रुचिरदन्तोष्ठीं पूर्णचन्द्रनिभाननाम्।
आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम् ॥ ३.४६.१२ ॥

她美好端庄,牙齿与嘴唇秀美,面容如同满月。她坐在叶屋中,被泪水与悲痛所折磨。

3.46.13

स तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम्।
अभ्यगच्छत वैदेहीं हृष्टचेता निशाचरः ॥ ३.४६.१३ ॥

那夜行者心中欢喜,走近身穿黄丝袍、眼如莲瓣的毗提诃女(悉多)。

3.46.14

दृष्ट्वा कामशराविद्धो ब्रह्मघोषमुदीरयन्।
अब्रवीत् प्रश्रितं वाक्यं रहिते राक्षसाधिपः ॥ ३.४६.१४ ॥

罗刹王见到她,被爱欲之箭射中,一边诵念吠陀之声,一边在僻静处说出谦卑的话语。

3.46.15

तामुत्तमां त्रिलोकानां पद्महीनामिव श्रियम्।
विभ्राजमानां वपुषा रावणः प्रशशंस ह ॥ ३.४६.१५ ॥

罗波那赞美她——三界中最殊胜的女子,如同失去莲花的吉祥天女,身体光彩照人。

3.46.16

रौप्यकाञ्चनवर्णाभे पीतकौशेयवासिनि।
कमलानां शुभां मालां पद्मिनीव च बिभ्रती ॥ ३.४६.१६ ॥

你的光彩如银似金,身穿黄丝袍!佩戴着美丽的莲花花环,你宛如一株莲仙女。

3.46.17

ह्रीः श्रीः कीर्तिः शुभा लक्ष्मीरप्सरा वा शुभानने।
भूतिर्वा त्वं वरारोहे रतिर्वा स्वैरचारिणी ॥ ३.४६.१७ ॥

吉祥面容的你啊!你是羞耻女神、吉祥天女、名声,还是善吉的拉克什米,或是天女?美腰的你啊!你是福德女神,还是随意遨游的爱欲女神罗蒂?

3.46.18

समाः शिखरिणः स्निग्धाः पाण्डुरा दशनास्तव।
विशाले विमले नेत्रे रक्तान्ते कृष्णतारके ॥ ३.४६.१८ ॥

你的牙齿整齐、光滑、洁白,如同山峰。你的眼睛宽大清澈,眼角微红,瞳仁乌黑。

3.46.19

विशालं जघनं पीनमूरू करिकरोपमौ।
एतावुपचितौ वृत्तौ संहतौ सम्प्रगल्भितौ ॥ ३.४६.१९ ॥

你的宽臀丰满,大腿如象鼻一般;两者都匀称、圆润、紧实,已完全成熟。

3.46.20

पीनोन्नतमुखौ कान्तौ स्निग्धतालफलोपमौ।
मणिप्रवेकाभरणौ रुचिरौ ते पयोधरौ ॥ ३.४६.२० ॥

你的双乳丰满,顶端高挺,可爱光滑,如棕榈果一般;它们饰以精美的宝石饰物,十分迷人。

3.46.21

चारुस्मिते चारुदति चारुनेत्रे विलासिनि।
मनो हरसि मे रामे नदीकूलमिवाम्भसा ॥ ३.४६.२१ ॥

美笑、美齿、美目的女子啊,妩媚的罗摩之妻!你夺走了我的心,就像流水冲走河岸一般。

3.46.22

करान्तमितमध्यासि सुकेशे संहतस्तनि।
नैव देवी न गन्धर्वी न यक्षी न च किंनरी ॥ ३.४६.२२ ॥

腰细可一手合围的女子啊,秀发美好、双乳紧致的人!你既不是天女,也不是乾闼婆女,不是夜叉女,也不是紧那罗女。

3.46.23

नैवंरूपा मया नारी दृष्टपूर्वा महीतले।
रूपमग्र्यं च लोकेषु सौकुमार्यं वयश्च ते ॥ ३.४६.२३ ॥

我在这大地上从未见过如此形貌的女子;在诸世界中,你的容貌无与伦比,你的娇柔与青春亦是如此。

3.46.24

इह वासश्च कान्तारे चित्तमुन्माथयन्ति मे।
सा प्रतिक्राम भद्रं ते न त्वं वस्तुमिहार्हसि ॥ ३.४६.२४ ॥

你在这荒野之中的居留搅乱了我的心。所以请回去吧,愿你安好;你不应留在此地。

3.46.25

राक्षसानामयं वासो घोराणां कामरूपिणाम्।
प्रासादाग्राणि रम्याणि नगरोपवनानि च ॥ ३.४६.२५ ॥

这里是可怖的罗刹居住之地,他们能随意变化形貌。这里有高耸的宫殿塔顶和美丽的城市园林。

3.46.26

सम्पन्नानि सुगन्धीनि युक्तान्याचरितुं त्वया।
वरं माल्यं वरं गन्धं वरं वस्त्रं च शोभने ॥ ३.४६.२६ ॥

这里一切丰足而芬芳,正适合你享用。明艳的女子啊,这里有上好的花环、上好的香料和上好的衣裳。

3.46.27

भर्तारं च वरं मन्ये त्वद्युक्तमसितेक्षणे।
का त्वं भवसि रुद्राणां मरुतां वा शुचिस्मिते ॥ ३.४६.२७ ॥

黑眼睛的美人啊,我也认为与你相配的夫君是上好的。纯净微笑的女子啊,你是谁?是楼陀罗中的一位,还是摩录多中的一位?

3.46.28

वसूनां वा वरारोहे देवता प्रतिभासि मे।
नेह गच्छन्ति गन्धर्वा न देवा न च किन्नराः ॥ ३.४६.२८ ॥

或者,身材美好的女子啊,你在我看来像是婆苏神中的一位女神。这里从不来乾闼婆、天神或紧那罗。

3.46.29

राक्षसानामयं वासः कथं तु त्वमिहागता।
इह शाखामृगाः सिंहा द्वीपिव्याघ्रमृगा वृकाः ॥ ३.४६.२९ ॥

这里是罗刹的住所;你怎么会来到这里?这里有猴子、狮子、豹子、老虎、鹿和狼。

3.46.30

ऋक्षास्तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसे।
मदान्वितानां घोराणां कुञ्जराणां तरस्विनाम् ॥ ३.४६.३० ॥

这里有熊、鬣狗和鹭鸟;你为何不怕它们?这里还有充满狂怒、可怖而迅猛的大象。

3.46.31

कथमेका महारण्ये न बिभेषि वरानने।
कासि कस्य कुतश्च त्वं किं निमित्तं च दण्डकान् ॥ ३.४६.३१ ॥

美颜的女子啊,你独自一人在这大森林中,为何不害怕?你是谁,属于谁,从何而来,又为何来到檀陀迦森林?

3.46.33

एका चरसि कल्याणि घोरान् राक्षससेवितान्।
द्विजातिवेषेण हि तं दृष्ट्वा रावणमागतम्।
सर्वैरतिथिसत्कारैः पूजयामास मैथिली ॥ ३.४६.३३ ॥

吉祥的女子啊,你独自在罗刹出没的可怕森林中漫游。摩提利见到化作再生婆罗门模样而来的罗波那,便以接待客人的一切礼仪款待并礼敬了他。

3.46.34

उपानीयासनं पूर्वं पाद्येनाभिनिमन्त्र्य च।
अब्रवीत् सिद्धमित्येव तदा तं सौम्यदर्शनम् ॥ ३.४६.३४ ॥

她先搬来座位,以洗脚水邀请他,然后对那位面目和善的客人说:“已经准备好了。”

3.46.35

द्विजातिवेषेण समीक्ष्य मैथिली
समागतं पात्रकुसुम्भधारिणम्।
अशक्यमुद्द्वेष्टुमुपायदर्शना-
न्न्यमन्त्रयद् ब्राह्मणवत् तथागतम् ॥ ३.४६.३५ ॥

摩提利见他以再生婆罗门的模样而来,手持器皿,身穿红花色的衣服,又因其形迹像是在施计,难以拒之门外,便如对待婆罗门一样邀请了他。

3.46.36

इयं बृसी ब्राह्मण काममास्यता-
मिदं च पाद्यं प्रतिगृह्यतामिति।
इदं च सिद्धं वनजातमुत्तमं
त्वदर्थमव्यग्रमिहोपभुज्यताम् ॥ ३.४६.३६ ॥

婆罗门啊,这里有座位,请随意就坐。这里有洗脚水,请收下。这里还有森林里生长的上好食物,为您备好了,请安心在此享用。

3.46.37

निमन्त्र्यमाणः प्रतिपूर्णभाषिणीं
नरेन्द्रपत्नीं प्रसमीक्ष्य मैथिलीम्।
प्रसह्य तस्या हरणे दृढं मनः
समर्पयामास वधाय रावणः ॥ ३.४६.३७ ॥

罗波那看见这位以完全礼貌回应的王后摩ithili,便坚定地决意以武力劫持她,意图杀害她。

3.46.38

ततः सुवेषं मृगयागतं पतिं
प्रतीक्षमाणा सहलक्ष्मणं तदा।
निरीक्षमाणा हरितं ददर्श त-
न्महद् वनं नैव तु रामलक्ष्मणौ ॥ ३.४६.३८ ॥

那时,悉多等待着外出狩猎的俊美夫君与罗什曼那,望着那片广阔青翠的森林,却没有看见罗摩和罗什曼那。