蚁垤《罗摩衍那》 · 篇 3.48
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.48.1
एवं ब्रुवत्यां सीतायां संरब्धः परुषं वचः।
ललाटे भ्रुकुटिं कृत्वा रावणः प्रत्युवाच ह ॥ ३.४८.१ ॥
悉多如此说时,愤怒的罗波那皱起眉头,用严厉的言辞回答道。
3.48.2
भ्राता वैश्रवणस्याहं सापत्नो वरवर्णिनि।
रावणो नाम भद्रं ते दशग्रीवः प्रतापवान् ॥ ३.४८.२ ॥
美貌的女子啊,我是毗首罗婆那(俱毗罗)的同父异母兄弟。愿你平安。我名叫罗波那,十颈之王,威力强大。
3.48.3
यस्य देवाः सगन्धर्वाः पिशाचपतगोरगाः।
विद्रवन्ति सदा भीता मृत्योरिव सदा प्रजाः ॥ ३.४८.३ ॥
诸天、乾闼婆、毗舍遮、飞禽与龙蛇,皆因恐惧而常常逃避他,如同众生避开死亡。
3.48.4
येन वैश्रवणो भ्राता वैमात्राः कारणान्तरे।
द्वन्द्वमासादितः क्रोधाद् रणे विक्रम्य निर्जितः ॥ ३.४८.४ ॥
因另外的缘故,他愤怒地与我的同父异母兄毗首罗婆那(俱毗罗)交战,并以勇力在战中将其击败。
3.48.5
मद्भयार्तः परित्यज्य स्वमधिष्ठानमृद्धिमत्।
कैलासं पर्वतश्रेष्ठमध्यास्ते नरवाहनः ॥ ३.४८.५ ॥
他因惧怕我,抛弃了他那富饶的居所;人乘者(俱毗罗)如今住在最殊胜的山——冈仁波齐(凯拉萨)。
3.48.6
यस्य तत् पुष्पकं नाम विमानं कामगं शुभम्।
वीर्यादावर्जितं भद्रे येन यामि विहायसम् ॥ ३.४८.६ ॥
善良的女子啊,那辆名叫普须波迦、随意而行的殊胜天车,是我凭勇力从他那里夺得的;我借它遨游天空。
3.48.7
मम संजातरोषस्य मुखं दृष्ट्वैव मैथिलि।
विद्रवन्ति परित्रस्ताः सुराः शक्रपुरोगमाः ॥ ३.४८.७ ॥
摩ithili啊,只要看见我怒气勃发的面容,以因陀罗为首的诸神便惊恐逃散。
3.48.8
यत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितः।
तीव्रांशुः शिशिरांशुश्च भयात् सम्पद्यते दिवि ॥ ३.४८.८ ॥
我所站立之处,风也战战兢兢地吹拂;天空中,烈焰般的太阳与清凉的月亮也因恐惧而黯淡。
3.48.9
निष्कम्पपत्रास्तरवो नद्यश्च स्तिमितोदकाः।
भवन्ति यत्र तत्राहं तिष्ठामि च चरामि च ॥ ३.४८.९ ॥
无论我停留或行走之处,树叶都纹丝不动,河水也静止不流。
3.48.10
मम पारे समुद्रस्य लङ्का नाम पुरी शुभा।
सम्पूर्णा राक्षसैर्घोरैर्यथेन्द्रस्यामरावती ॥ ३.४८.१० ॥
大海彼岸有我美丽的城市名叫楞伽,充满可怖的罗刹,犹如因陀罗的阿摩罗跋提。
3.48.11
प्राकारेण परिक्षिप्ता पाण्डुरेण विराजिता।
हेमकक्ष्या पुरी रम्या वैदूर्यमयतोरणा ॥ ३.४८.११ ॥
那座城市被白色城墙环绕,光彩夺目,金色的环带与琉璃宝石的门楼使它美不胜收。
3.48.12
हस्त्यश्वरथसम्बाधा तूर्यनादविनादिता।
सर्वकामफलैर्वृक्षैः संकुलोद्यानभूषिता ॥ ३.४८.१२ ॥
城中车马象群熙熙攘攘,乐器之声回荡不绝,遍植能result一切所愿之果的树木,又有茂密的园林点缀其间。
3.48.13
तत्र त्वं वस हे सीते राजपुत्रि मया सह।
न स्मरिष्यसि नारीणां मानुषीणां मनस्विनि ॥ ३.४८.१३ ॥
你就在那里与我同住吧,悉多公主。高尚的女子啊,你将不再记得人间的女子。
3.48.14
भुञ्जाना मानुषान् भोगान् दिव्यांश्च वरवर्णिनि।
न स्मरिष्यसि रामस्य मानुषस्य गतायुषः ॥ ३.४८.१४ ॥
享受天上的欢乐吧,美丽的女子。你将不再记得人间的罗摩,那寿命已尽的凡人。
3.48.15
स्थापयित्वा प्रियं पुत्रं राज्ये दशरथो नृपः।
मन्दवीर्यस्ततो ज्येष्ठः सुतः प्रस्थापितो वनम् ॥ ३.४८.१५ ॥
国王十车王将心爱的幼子立于王位,随后因力量衰弱,将长子送往森林。
3.48.16
तेन किं भ्रष्टराज्येन रामेण गतचेतसा।
करिष्यसि विशालाक्षि तापसेन तपस्विना ॥ ३.४८.१६ ॥
失去王国、心神迷乱的罗摩,你与他能做什么呢,大眼睛的女子?你与那苦行的修士又能做什么呢?
3.48.17
रक्ष राक्षसभर्तारं कामय स्वयमागतम्।
न मन्मथशराविष्टं प्रत्याख्यातुं त्वमर्हसि ॥ ३.४८.१७ ॥
请守护罗刹之王吧;爱慕这位自愿前来的人。被爱神之箭所伤的我,你不应拒绝。
3.48.18
प्रत्याख्याय हि मां भीरु पश्चात्तापं गमिष्यसि।
चरणेनाभिहत्येव पुरूरवसमुर्वशी ॥ ३.४८.१८ ॥
胆怯的女子啊,若你拒绝我,你日后必将懊悔,正如乌尔瓦希以脚踢开补卢罗婆斯而弃之。
3.48.19
अङ्गुल्या न समो रामो मम युद्धे स मानुषः।
तव भाग्येन सम्प्राप्तं भजस्व वरवर्णिनि ॥ ३.४८.१९ ॥
在战斗中,罗摩连我的一根手指都比不上,他不过是个凡人。这是你的福分才得以降临,美丽的女子,接受吧。
3.48.20
एवमुक्ता तु वैदेही क्रुद्धा संरक्तलोचना।
अब्रवीत् परुषं वाक्यं रहिते राक्षसाधिपम् ॥ ३.४८.२० ॥
被如此说后,毗提诃公主悉多怒不可遏,双眼通红,在僻静处对罗刹王说了严厉的话。
3.48.21
कथं वैश्रवणं देवं सर्वदेवनमस्कृतम्।
भ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि ॥ ३.४८.२१ ॥
你既以被诸神礼拜的天神毗沙罗婆那为兄长,怎么还想做这样不吉祥的事?
3.48.22
अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः।
येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः ॥ ३.४८.२२ ॥
罗波那啊,你这残暴、恶念、不能克制感官的君主所统治的罗刹们,必定全都会灭亡。
3.48.23
अपहृत्य शचीं भार्यां शक्यमिन्द्रस्य जीवितुम्।
नहि रामस्य भार्यां मामानीय स्वस्तिमान् भवेत् ॥ ३.४८.२३ ॥
因陀罗劫走其妻舍质或许还能活命,但你把罗摩的妻子我带走,就不会安然无恙。
3.48.24
जीवेच्चिरं वज्रधरस्य पश्चा-
च्छचीं प्रधृष्याप्रतिरूपरूपाम्।
न मादृशीं राक्षस धर्षयित्वा
पीतामृतस्यापि तवास्ति मोक्षः ॥ ३.४८.२४ ॥
手持金刚杵的因陀罗在玷污了容貌无比的舍质之后,或许还能长久活下去;但罗刹啊,你侮辱了像我这样的女子,即便饮过甘露,也无法逃脱。