Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 3.49

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

3.49.1

सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान्।
हस्ते हस्तं समाहत्य चकार सुमहद् वपुः ॥ ३.४९.१ ॥

シーターの言葉を聞いた勇猛なダシャグリーヴァは、手と手を打ち合わせ、己の身を非常に大きくした。

3.49.2

स मैथिलीं पुनर्वाक्यं बभाषे वाक्यकोविदः।
नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ ॥ ३.४९.२ ॥

言葉に巧みな彼はマイティリーに再び言った。「狂った女よ、私の勇気と武勇をお前は聞いていないと思う。」

3.49.3

उद्वहेयं भुजाभ्यां तु मेदिनीमम्बरे स्थितः।
आपिबेयं समुद्रं च मृत्युं हन्यां रणे स्थितः ॥ ३.४९.३ ॥

空に立ち、私は両腕で大地を持ち上げ、海を飲み干し、戦場に立って死そのものをも討つことができる。

3.49.4

अर्कं तुद्यां शरैस्तीक्ष्णैर्विभिन्द्यां हि महीतलम्।
कामरूपेण उन्मत्ते पश्य मां कामरूपिणम् ॥ ३.४९.४ ॥

鋭い矢で太陽を射抜き、大地の表面を貫くこともできる。狂った女よ、望みのままに姿を変える私を見よ!

3.49.5

एवमुक्तवतस्तस्य रावणस्य शिखिप्रभे।
क्रुद्धस्य हरिपर्यन्ते रक्ते नेत्रे बभूवतुः ॥ ३.४९.५ ॥

このように語った怒れるラーヴァナの目は火炎のように輝き、縁は緑がかった赤になった。

3.49.6

सद्यः सौम्यं परित्यज्य तीक्ष्णरूपं स रावणः।
स्वं रूपं कालरूपाभं भेजे वैश्रवणानुजः ॥ ३.४९.६ ॥

たちまち穏やかな姿を捨て、ヴァイシュラヴァナの弟であるラーヴァナは、時そのもの(死)に似た本来の恐ろしい姿をとった。

3.49.7

संरक्तनयनः श्रीमांस्तप्तकाञ्चनभूषणः।
क्रोधेन महताविष्टो नीलजीमूतसंनिभः ॥ ३.४९.७ ॥

目を赤く染め、熱した黄金の飾りを身に着けた輝かしい彼は、大いなる怒りに囚われ、紺青の雨雲のようになった。

3.49.8

दशास्यो विंशतिभुजो बभूव क्षणदाचरः।
स परिव्राजकच्छद्म महाकायो विहाय तत् ॥ ३.४९.८ ॥

十の頭と二十の腕をもつ、夜に徘徊する羅刹となった。遊行の修行者の変装を捨て、その巨体は本来の姿をとった。

3.49.9

प्रतिपेदे स्वकं रूपं रावणो राक्षसाधिपः।
रक्ताम्बरधरस्तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम् ॥ ३.४९.९ ॥

羅刹の王ラーヴァナは自らの姿に戻った。赤い衣をまとって立ち、女性の宝である マイティリーを見た。

3.49.10

स तामसितकेशान्तां भास्करस्य प्रभामिव।
वसनाभरणोपेतां मैथिलीं रावणोऽब्रवीत् ॥ ३.४९.१० ॥

ラーヴァナは、太陽の光のようで、髪の先が黒く、衣と装身具で飾られたマイティリーに言った。

3.49.11

त्रिषु लोकेषु विख्यातं यदि भर्तारमिच्छसि।
मामाश्रय वरारोहे तवाहं सदृशः पतिः ॥ ३.४९.११ ॥

三界に名高い夫を望むなら、私に身を寄せよ、美しい腰の女よ。私はあなたにふさわしい夫だ。

3.49.12

मां भजस्व चिराय त्वमहं श्लाघ्यः पतिस्तव।
नैव चाहं क्वचिद् भद्रे करिष्ये तव विप्रियम् ॥ ३.४९.१२ ॥

長く私に仕えよ。私はあなたにとって称賛に値する夫だ。吉祥なる女よ、私は決してあなたの気に障ることはしない。

3.49.13

त्यज्यतां मानुषो भावो मयि भावः प्रणीयताम्।
राज्याच्च्युतमसिद्धार्थं रामं परिमितायुषम् ॥ ३.४९.१३ ॥

その人間への想いを捨て、私へと想いを向けよ。王国を失い、望みも果たせず、寿命の限られたラーマなど。

3.49.14

कैर्गुणैरनुरक्तासि मूढे पण्डितमानिनि।
यः स्त्रियो वचनाद् राज्यं विहाय ससुहृज्जनम् ॥ ३.४९.१४ ॥

どんな徳によって彼に惹かれたのか、愚かな女よ、自ら賢いと思う者よ。女の言葉のために王国と友を捨てた男に。

3.49.15

अस्मिन् व्यालानुचरिते वने वसति दुर्मतिः।
इत्युक्त्वा मैथिलीं वाक्यं प्रियार्हां प्रियवादिनीम् ॥ ३.४९.१५ ॥

猛獣が徘徊するこの森に、その愚かな男は住んでいる。

3.49.16

अभिगम्य सुदुष्टात्मा राक्षसः काममोहितः।
जग्राह रावणः सीतां बुधः खे रोहिणीमिव ॥ ३.४९.१६ ॥

邪悪な羅刹ラーヴァナは欲望に惑わされ、近づいてシーターを捕らえた。空でブダが星ローヒニーを捕らえるように。

3.49.17

वामेन सीतां पद्माक्षीं मूर्धजेषु करेण सः।
ऊर्वोस्तु दक्षिणेनैव परिजग्राह पाणिना ॥ ३.४९.१७ ॥

左手で蓮華眼のシーターの髪をつかみ、右手で彼女の腿を抱えた。

3.49.18

तं दृष्ट्वा गिरिशृङ्गाभं तीक्ष्णदंष्ट्रं महाभुजम्।
प्राद्रवन् मृत्युसंकाशं भयार्ता वनदेवताः ॥ ३.४९.१८ ॥

山の頂のようで、鋭い牙と太い腕を持ち、死神に等しい彼を見て、恐怖に苛まれた森の女神たちは逃げ去った。

3.49.19

स च मायामयो दिव्यः खरयुक्तः खरस्वनः।
प्रत्यदृश्यत हेमाङ्गो रावणस्य महारथः ॥ ३.४९.१९ ॥

そして幻影から成る神聖な、ロバに繋がれ、荒々しい音を立てる、黄金の体をしたラーヴァナの大戦車が現れた。

3.49.20

ततस्तां परुषैर्वाक्यैरभितर्ज्य महास्वनः।
अंकेनादाय वैदेहीं रथमारोपयत् तदा ॥ ३.४९.२० ॥

すると大声の彼は、荒々しい言葉で彼女を脅し、ヴァイデーヒーを膝に抱き上げ、戦車に乗せた。

3.49.21

सा गृहीतातिचुक्रोश रावणेन यशस्विनी।
रामेति सीता दुःखार्ता रामं दूरं गतं वने ॥ ३.४९.२१ ॥

ラーヴァナに捕らえられた栄光ある シーターは、悲しみに苦しみ、森の遠くへ去ったラーマを呼んで、「ラーマ!」と大声で叫んだ。

3.49.22

तामकामां स कामार्तः पन्नगेन्द्रवधूमिव।
विचेष्टमानामादाय उत्पपाताथ रावणः ॥ ३.४९.२२ ॥

嫌がって身をよじる彼女を、まるで蛇王の妻のように、欲望に苦しむラーヴァナは抱え上げ、そして空へ飛び上がった。

3.49.23

ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा।
भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथातुरा ॥ ३.४९.२३ ॥

そのとき、羅刹王によって空中を連れ去られる彼女は、気が狂ったように、心乱れ、苦しみ、激しく叫んだ。

3.49.24

हा लक्ष्मण महाबाहो गुरुचित्तप्रसादक।
ह्रियमाणां न जानीषे रक्षसा कामरूपिणा ॥ ३.४९.२४ ॥

ああ、ラクシュマナよ!大腕の人よ、年長者の心を喜ばせる人よ!私が意のままに姿を変える羅刹にさらわれていることを、あなたは知らないのですか。

3.49.25

जीवितं सुखमर्थं च धर्महेतोः परित्यजन्।
ह्रियमाणामधर्मेण मां राघव न पश्यसि ॥ ३.४९.२५ ॥

法のために命も幸福も富も捨てたラーghava(ラーマ)よ、不法によって奪われていく私を見てはくださらないのですか。

3.49.26

ननु नामाविनीतानां विनेतासि परंतप।
कथमेवंविधं पापं न त्वं शाधि हि रावणम् ॥ ३.४९.२६ ॥

敵を焼き尽くす者よ、あなたは不遜な者を懲らしめる方ではないのですか。このような罪深いラーヴァナを、なぜ罰しないのですか。

3.49.27

न तु सद्योऽविनीतस्य दृश्यते कर्मणः फलम्।
कालोऽप्यङ्गीभवत्यत्र सस्यानामिव पक्तये ॥ ३.४९.२७ ॥

しかし、不遜な者の行為の果報はすぐには現れません。作物が実るのに時を要するように、ここでも時が果報を熟させるのです。

3.49.28

त्वं कर्म कृतवानेतत् कालोपहतचेतनः।
जीवितान्तकरं घोरं रामाद् व्यसनमाप्नुहि ॥ ३.४९.२८ ॥

時に心を打ちのめされたあなたは、この行いをした。ラーマから、命を奪う恐ろしい災厄を受けることになるだろう。

3.49.29

हन्तेदानीं सकामा तु कैकेयी बान्धवैः सह।
ह्रियेयं धर्मकामस्य धर्मपत्नी यशस्विनः ॥ ३.४९.२९ ॥

ああ!今やカイケーイーは親族とともに願いがかない喜ぶことでしょう。法を愛する名高い方の正当な妻である私は、奪われていくのです。

3.49.30

आमन्त्रये जनस्थाने कर्णिकारांश्च पुष्पितान्।
क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः ॥ ३.४९.३० ॥

ジャナスターナの花咲くカルニカーラの木々よ、私は呼びかけます。どうか速やかにラーマに、ラーヴァナがシーターを奪っていると伝えてください。

3.49.31

हंससारससंघुष्टां वन्दे गोदावरीं नदीम्।
क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः ॥ ३.४९.३१ ॥

白鳥と鶴の声に満ちたゴーダーヴァリー川に礼拝します。急いでラーマに伝えてください、ラーヴァナがシーターを奪い去っていると。

3.49.32

दैवतानि च यान्यस्मिन् वने विविधपादपे।
नमस्करोम्यहं तेभ्यो भर्तुः शंसत मां हृताम् ॥ ३.४९.३२ ॥

この多様な木々のある森にいる神々すべてに礼拝します。夫に伝えてください、私は奪われたと。

3.49.33

यानि कानिचिदप्यत्र सत्त्वानि विविधानि च।
सर्वाणि शरणं यामि मृगपक्षिगणानि वै ॥ ३.४९.३३ ॥

ここにいるあらゆる様々な生き物、鹿の群れと鳥の群れ、そのすべてに私は庇護を求めます。

3.49.34

ह्रियमाणां प्रियां भर्तुः प्राणेभ्योऽपि गरीयसीम्।
विवशा ते हृता सीता रावणेनेति शंसत ॥ ३.४९.३४ ॥

夫にとって命よりも愛しい妻シーターが、無力にもラーヴァナに奪い去られたと伝えてください。

3.49.35

विदित्वा तु महाबाहुरमुत्रापि महाबलः।
आनेष्यति पराक्रम्य वैवस्वतहृतामपि ॥ ३.४९.३५ ॥

それを知れば、大腕で大力のかの方は、そこへ行き、勇気をもって彼女を連れ戻されるでしょう。ヴァイヴァスヴァタ(死神)に奪われた者でさえも。

3.49.36

सा तदा करुणा वाचो विलपन्ती सुदुःखिता।
वनस्पतिगतं गृध्रं ददर्शायतलोचना ॥ ३.४९.३६ ॥

そのとき、深く悲しみ、大きな目をしたシーターは、哀れな言葉で嘆きながら、木にとまる一羽のハゲワシを見た。

3.49.37

सा तमुद्वीक्ष्य सुश्रोणी रावणस्य वशंगता।
समाक्रन्दद् भयपरा दुःखोपहतया गिरा ॥ ३.४९.३७ ॥

美しい腰をもつ彼女は、ラーヴァナの支配のもとにありながら、彼を見上げ、恐怖に満ち、悲しみに打ちひしがれた声で大声で叫んだ。

3.49.38

जटायो पश्य मामार्य ह्रियमाणामनाथवत्।
अनेन राक्षसेन्द्रेणाकरुणं पापकर्मणा ॥ ३.४९.३८ ॥

ジャターユよ、高貴な方よ、私を見てください。この無慈悲で罪深い羅刹王に、庇護者なき者のように連れ去られているのです。

3.49.39

नैष वारयितुं शक्यस्त्वया क्रूरो निशाचरः।
सत्ववाञ्जितकाशी च सायुधश्चैव दुर्मतिः ॥ ३.४९.३९ ॥

この残忍な夜行者をお前は止めることはできない。彼は強力で、勝利を誇り、武器を持ち、邪悪な心をもつ。

3.49.40

रामाय तु यथातत्त्वं जटायो हरणं मम।
लक्ष्मणाय च तत् सर्वमाख्यातव्यमशेषतः ॥ ३.४९.४० ॥

ジャターユよ、私の拐かしの次第を、起きたとおりにラーマに伝え、すべてをラクシュマナにも余すことなく語ってください。