Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 3.51

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.51.1

इत्युक्तः क्रोधताम्राक्षस्तप्तकाञ्चनकुण्डलः।
राक्षसेन्द्रोऽभिदुद्राव पतगेन्द्रममर्षणः ॥ ३.५१.१ ॥

被这样一说,眼睛因愤怒而发红、佩戴烧红金耳环的罗刹王不能忍受,冲向鸟王。

3.51.2

स सम्प्रहारस्तुमुलस्तयोस्तस्मिन् महामृधे।
बभूव वातोद्धुतयोर्मेघयोर्गगने यथा ॥ ३.५१.२ ॥

在那场大战中,二者的交锋变得极为惨烈,如同天空中被风吹动的两朵云相互碰撞。

3.51.3

तद् बभूवाद्भुतं युद्धं गृध्रराक्षसयोस्तदा।
सपक्षयोर्माल्यवतोर्महापर्वतयोरिव ॥ ३.५१.३ ॥

那时,秃鹫与罗刹之间的战斗变得奇异非凡,仿佛两座长着翅膀的大山,如同摩利耶湾山,相互撞击。

3.51.4

ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः।
अभ्यवर्षन्महाघोरैर्गृध्रराजं महाबलम् ॥ ३.५१.४ ॥

随后,他以那罗迦箭、那罗车箭、锐利尖头箭与毗迦尔尼箭,极为可怖地向大力的鹫王倾泻箭雨。

3.51.5

स तानि शरजालानि गृध्रः पत्ररथेश्वरः।
जटायुः प्रतिजग्राह रावणास्त्राणि संयुगे ॥ ३.५१.५ ॥

那只鹫,鸟车之主迦吒优,在战斗中抵挡了那些箭网与罗婆那的武器。

3.51.6

तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः।
चकार बहुधा गात्रे व्रणान् पतगसत्तमः ॥ ३.५१.६ ॥

这位大力的最优秀之鸟,用它尖利爪子的双足,在他身上造成了多种多样的伤口。

3.51.7

अथ क्रोधाद् दशग्रीवो जग्राह दश मार्गणान्।
मृत्युदण्डनिभान् घोरान् शत्रोर्निधनकांक्षया ॥ ३.५१.७ ॥

于是,十首罗波那怒从心起,取出十支可怖的箭,如死神之杖,欲置敌人于死地。

3.51.8

स तैर्बाणैर्महावीर्यः पूर्णमुक्तैरजिह्मगैः।
बिभेद निशितैस्तीक्ष्णैर्गृध्रं घोरैः शिलीमुखैः ॥ ३.५१.८ ॥

这位大勇士以那些拉满射出、笔直飞行的利箭,以锋利、尖锐、可怖的箭头刺穿了那只秃鹫。

3.51.9

स राक्षसरथे पश्यञ्जानकीं बाष्पलोचनाम्।
अचिन्तयित्वा बाणांस्तान् राक्षसं समभिद्रवत् ॥ ३.५१.९ ॥

他看见罗刹车中泪眼盈盈的悉多,便不顾那些箭,冲向罗刹。

3.51.10

ततोऽस्य सशरं चापं मुक्तामणिविभूषितम्।
चरणाभ्यां महातेजा बभञ्ज पतगोत्तमः ॥ ३.५१.१० ॥

于是那位光辉盛大的鸟中之王,以双足折断了镶嵌珍珠宝石、搭着箭的那张弓。

3.51.11

ततोऽन्यद् धनुरादाय रावणः क्रोधमूर्च्छितः।
ववर्ष शरवर्षाणि शतशोऽथ सहस्रशः ॥ ३.५१.११ ॥

于是罗波那被怒火冲昏,另取一弓,倾泻出成百上千的箭雨。

3.51.12

शरैरावारितस्तस्य संयुगे पतगेश्वरः।
कुलायमभिसम्प्राप्तः पक्षिवच्च बभौ तदा ॥ ३.५१.१२ ॥

鸟王在战斗中被他的箭所围困,此时却像飞回巢中的鸟儿一般闪耀。

3.51.13

स तानि शरजालानि पक्षाभ्यां तु विधूय ह।
चरणाभ्यां महातेजा बभञ्जास्य महद् धनुः ॥ ३.५१.१३ ॥

大光明的它以双翼抖落那些箭网,又以双足折断了罗婆那的大弓。

3.51.14

तच्चाग्निसदृशं दीप्तं रावणस्य शरावरम्।
पक्षाभ्यां च महातेजा व्यधुनोत् पतगेश्वरः ॥ ३.५१.१४ ॥

大光明的鸟王又以双翼抖落了罗婆那那如火燃烧的箭袋。

3.51.15

काञ्चनोरश्छदान् दिव्यान् पिशाचवदनान् खरान्।
तांश्चास्य जवसम्पन्नाञ्जघान समरे बली ॥ ३.५१.१५ ॥

力大的它在战斗中击杀了罗婆那那些快速的神骏,胸甲金色,面貌如夜叉。

3.51.16

अथ त्रिवेणुसम्पन्नं कामगं पावकार्चिषम्।
मणिसोपानचित्राङ्गं बभञ्ज च महारथम् ॥ ३.५१.१६ ॥

接着,他折断了那辆大战车。它有三根辕杆,能随意而行,光焰如火,车身以宝石台阶装饰。

3.51.17

पूर्णचन्द्रप्रतीकाशं छत्रं च व्यजनैः सह।
पातयामास वेगेन ग्राहिभी राक्षसैः सह ॥ ३.५१.१७ ॥

他迅速击落了如满月般明亮的华盖与拂尘,连同持握它们的罗刹一起推倒在地。

3.51.18

सारथेश्चास्य वेगेन तुण्डेन च महच्छिरः।
पुनर्व्यपहनच्छ्रीमान् पक्षिराजो महाबलः ॥ ३.५१.१८ ॥

光辉而力大无穷的鸟王,以喙的迅猛再次斩下了他御者的大头颅。

3.51.19

स भग्नधन्वा विरथो हताश्वो हतसारथिः।
अङ्केनादाय वैदेहीं पपात भुवि रावणः ॥ ३.५१.१९ ॥

弓断、无车、马死、御者亡,罗波那怀抱毗提诃之女悉多,跌倒在地。

3.51.20

दृष्ट्वा निपतितं भूमौ रावणं भग्नवाहनम्।
साधु साध्विति भूतानि गृध्रराजमपूजयन् ॥ ३.५१.२० ॥

众生见罗波那倒在地上,车辆已毁,皆称"善哉,善哉!",并礼敬鹫王。

3.51.21

परिश्रान्तं तु तं दृष्ट्वा जरया पक्षियूथपम्।
उत्पपात पुनर्हृष्टो मैथिलीं गृह्य रावणः ॥ ३.५१.२१ ॥

见鸟王因年老而疲惫,罗波那复又欢喜,抓起摩他利,再次站起。

3.51.22

तं प्रहृष्टं निधायाङ्के रावणं जनकात्मजाम्।
गच्छन्तं खड्गशेषं च प्रणष्टहतसाधनम् ॥ ३.५१.२२ ॥

罗波那欢喜地怀抱遮那伽之女前行,只剩宝剑,兵器已失或毁坏。

3.51.23

गृध्रराजः समुत्पत्य रावणं समभिद्रवत्।
समावार्य महातेजा जटायुरिदमब्रवीत् ॥ ३.५१.२३ ॥

鹫王大光明者迦吒由起身冲向罗波那,拦住他,说道:

3.51.24

वज्रसंस्पर्शबाणस्य भार्यां रामस्य रावण।
अल्पबुद्धे हरस्येनां वधाय खलु रक्षसाम् ॥ ३.५१.२४ ॥

罗波那啊!你正劫走那箭如雷霆之矢的罗摩之妻,愚蠢的人啊!这实在是为罗刹的灭亡。

3.51.25

समित्रबन्धुः सामात्यः सबलः सपरिच्छदः।
विषपानं पिबस्येतत् पिपासित इवोदकम् ॥ ३.५१.२५ ॥

你连同朋友、亲族、大臣、军队和随从,正在饮下这毒药,就像口渴的人饮水一样。

3.51.26

अनुबन्धमजानन्तः कर्मणामविचक्षणाः।
शीघ्रमेव विनश्यन्ति यथा त्वं विनशिष्यसि ॥ ३.५१.२६ ॥

不知行为后果、缺乏辨别力的人很快就会灭亡,正如你将会灭亡。

3.51.27

बद्धस्त्वं कालपाशेन क्व गतस्तस्य मोक्ष्यसे।
वधाय बडिशं गृह्य सामिषं जलजो यथा ॥ ३.५१.२७ ॥

你被死亡的绳索缚住,又将逃往何处才能脱身?就像鱼吞下带饵的钩子,走向自己的毁灭。

3.51.28

नहि जातु दुराधर्षौ काकुत्स्थौ तव रावण।
धर्षणं चाश्रमस्यास्य क्षमिष्येते तु राघवौ ॥ ३.५१.२८ ॥

啊,罗波那,两位迦恭多之子、罗怙之裔,你永远无法战胜他们;然而他们会宽恕对这座修道院的侮辱。

3.51.29

यथा त्वया कृतं कर्म भीरुणा लोकगर्हितम्।
तस्कराचरितो मार्गो नैष वीरनिषेवितः ॥ ३.५१.२९ ॥

你所做的事,是懦夫之举,为世人所唾弃。这是盗贼之道,不是英雄所行之路。

3.51.30

युद्ध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण।
शयिष्यसे हतो भूमौ यथा भ्राता खरस्तथा ॥ ३.५१.३० ॥

啊,罗波那,你若是英雄,便来交战,稍停片刻。你将被杀倒在地上,像你的兄弟罗陀(羯罗)一样。

3.51.31

परेतकाले पुरुषो यत् कर्म प्रतिपद्यते।
विनाशायात्मनोऽधर्म्यं प्रतिपन्नोऽसि कर्म तत् ॥ ३.५१.३१ ॥

临死之时,人所做的任何行为,都是导致自身毁灭的非法之举;而你所做的正是此事。

3.51.32

पापानुबन्धो वै यस्य कर्मणः को नु तत् पुमान्।
कुर्वीत लोकाधिपतिः स्वयंभूर्भगवानपि ॥ ३.५१.३२ ॥

哪个人会去做那种使人陷入罪恶纠缠的行为?即便是世界之主、自生的世尊,也不会去做。

3.51.33

एवमुक्त्वा शुभं वाक्यं जटायुस्तस्य रक्षसः।
निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान् ॥ ३.५१.३३ ॥

说完这番吉祥的话,威猛的迦吒由便沉重地扑落在那罗刹十首王的背上。

3.51.34

तं गृहीत्वा नखैस्तीक्ष्णैर्विददार समन्ततः।
अधिरूढो गजारोहो यथा स्याद् दुष्टवारणम् ॥ ३.५१.३४ ॥

迦吒由以锐利的爪子抓住他,从四面将他撕裂,如同骑在凶猛大象上的象师。

3.51.35

विददार नखैरस्य तुण्डं पृष्ठे समर्पयन्।
केशांश्चोत्पाटयामास नखपक्षमुखायुधः ॥ ३.५१.३५ ॥

他压住对方的背,用爪子撕裂对方的脸,又拔掉他的头发;他的武器是爪、翼与喙。

3.51.36

स तथा गृध्रराजेन क्लिश्यमानो मुहुर्मुहुः।
अमर्षस्फुरितोष्ठः सन् प्राकम्पत च राक्षसः ॥ ३.५१.३६ ॥

罪恶的罗刹被秃鹫王这般一次又一次地折磨,怒气使他双唇颤抖,全身不住发抖。

3.51.37

सम्परिष्वज्य वैदेहीं वामेनाङ्केन रावणः।
तलेनाभिजघानार्तो जटायुं क्रोधमूर्च्छितः ॥ ३.५१.३७ ॥

罗波那以左臂紧紧抱住维德赫依,痛苦而又被愤怒所蒙蔽,用手掌击打了迦吒犹。

3.51.38

जटायुस्तमतिक्रम्य तुण्डेनास्य खगाधिपः।
वामबाहून् दश तदा व्यपाहरदरिंदमः ॥ ३.५१.३८ ॥

于是,制服敌人的鸟王迦吒犹扑向他,用喙扯断了罗波那左边的十只手臂。

3.51.39

संछिन्नबाहोः सद्यो वै बाहवः सहसाभवन्।
विषज्वालावलीयुक्ता वल्मीकादिव पन्नगाः ॥ ३.५१.३९ ॥

被斩断双臂的他,双臂立刻又猛然长出,环绕着成排的毒焰,犹如蛇从蚁穴中钻出。

3.51.40

ततः क्रोधाद् दशग्रीवः सीतामुत्सृज्य वीर्यवान्।
मुष्टिभ्यां चरणाभ्यां च गृध्रराजमपोथयत् ॥ ३.५१.४० ॥

于是,十首罗波那怒火中烧,放下悉多,以双拳与双脚猛击鹫王迦吒犹。

3.51.41

ततो मुहूर्तं संग्रामो बभूवातुलवीर्ययोः।
राक्षसानां च मुख्यस्य पक्षिणां प्रवरस्य च ॥ ३.५१.४१ ॥

随后,片刻之间,两位英勇无比者之间展开了一场战斗——罗刹之首与飞禽之最。

3.51.42

तस्य व्यायच्छमानस्य रामस्यार्थे स रावणः।
पक्षौ पादौ च पार्श्वौ च खड्गमुद्धृत्य सोऽच्छिनत् ॥ ३.५१.४२ ॥

为了罗摩,鹫王竭尽全力相搏,罗波那拔出剑来,斩断了他的双翼、双足和两侧。

3.51.43

स च्छिन्नपक्षः सहसा रक्षसा रौद्रकर्मणा।
निपपात महागृध्रो धरण्यामल्पजीवितः ॥ ३.५१.४३ ॥

凶残的罗刹突然砍断了他的双翼,这只大秃鹫气息奄奄,坠落在大地上。

3.51.44

तं दृष्ट्वा पतितं भूमौ क्षतजार्द्रं जटायुषम्।
अभ्यधावत वैदेही स्वबन्धुमिव दुःखिता ॥ ३.५१.४४ ॥

看见迦吒由在地上,浑身浸透鲜血,悲伤的吠德希向他奔去,仿佛奔向自己的亲人。

3.51.45

तं नीलजीमूतनिकाशकल्पं
सपाण्डुरोरस्कमुदारवीर्यम्।
ददर्श लङ्काधिपतिः पृथिव्यां
जटायुषं शान्तमिवाग्निदावम् ॥ ३.५१.४५ ॥

楞伽之主看见迦吒由躺在地上,他形如黑色雷云,胸膛苍白,威力高贵,静止如熄灭的林火。

3.51.46

ततस्तु तं पत्ररथं महीतले
निपातितं रावणवेगमर्दितम्।
पुनश्च संगृह्य शशिप्रभानना
रुरोद सीता जनकात्मजा तदा ॥ ३.५१.४६ ॥

这时,面如明月的遮那伽之女悉多再次将这位鸟王抱入怀中。他倒在地上,被罗波那的力量击垮,悉多便哭泣起来。