蚁垤《罗摩衍那》 · 篇 3.52
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.52.1
सा तु ताराधिपमुखी रावणेन निरीक्ष्य तम्।
गृध्रराजं विनिहतं विललाप सुदुःखिता ॥ ३.५२.१ ॥
月面的悉多见到被罗波那打倒的鹫王,悲痛欲绝地哀哭起来。
3.52.2
निमित्तं लक्षणं स्वप्नं शकुनिस्वरदर्शनम्।
अवश्यं सुखदुःखेषु नराणां परिदृश्यते ॥ ३.५२.२ ॥
征兆、迹象、梦境以及鸟鸣与鸟影,必定在人们的苦乐之中显现。
3.52.3
न नूनं राम जानासि महद्व्यसनमात्मनः।
धावन्ति नूनं काकुत्स्थ मदर्थं मृगपक्षिणः ॥ ३.५२.३ ॥
罗摩啊,你必定不知道自己即将到来的大难;卡库特斯特啊,这些鹿和鸟正是为了我而奔跑。
3.52.4
अयं हि कृपया राम मां त्रातुमिह संगतः।
शेते विनिहतो भूमौ ममाभाग्याद् विहंगमः ॥ ३.५२.४ ॥
罗摩啊,这只鸟出于怜悯来此保护我;因我的不幸,它被打倒,躺在地上。
3.52.5
त्राहि मामद्य काकुत्स्थ लक्ष्मणेति वराङ्गना।
सुसंत्रस्ता समाक्रन्दच्छृण्वतां तु यथान्तिके ॥ ३.५२.५ ॥
「卡库特斯特的子孙啊!罗什曼那啊!今日请救我!」那位极度惊恐的美女这样大声呼喊,使近旁的人都能听见。
3.52.6
तां क्लिष्टमाल्याभरणां विलपन्तीमनाथवत्।
अभ्यधावत वैदेहीं रावणो राक्षसाधिपः ॥ ३.५२.६ ॥
罗刹之王罗波那向维黛希冲去,她像失去依靠一般哀哭,花环与饰物凌乱不堪。
3.52.7
तां लतामिव वेष्टन्तीमालिङ्गन्तीं महाद्रुमान्।
मुञ्च मुञ्चेति बहुशः प्राप तां राक्षसाधिपः ॥ ३.५२.७ ॥
她像藤蔓缠绕大树一样攀抱着大树,罗刹之主一次又一次地喊着“放开,放开”,抓住了她。
3.52.8
क्रोशन्तीं राम रामेति रामेण रहितां वने।
जीवितान्ताय केशेषु जग्राहान्तकसंनिभः ॥ ३.५२.८ ॥
在森林中与罗摩分离的她呼喊着“罗摩,罗摩!”,如死神般的罗婆那抓住她的头发,要结束她的生命。
3.52.9
प्रधर्षितायां वैदेह्यां बभूव सचराचरम्।
जगत् सर्वममर्यादं तमसान्धेन संवृतम् ॥ ३.५२.९ ॥
当毗提诃公主遭受侮辱时,包括动物与植物在内的整个世界失去了秩序,被黑暗蒙蔽和笼罩。
3.52.10
न वाति मारुतस्तत्र निष्प्रभोऽभूद् दिवाकरः।
दृष्ट्वा सीतां परामृष्टां देवो दिव्येन चक्षुषा ॥ ३.५२.१० ॥
那里风停止了,太阳失去了光辉;神以天眼看见悉多被抓住。
3.52.11
कृतं कार्यमिति श्रीमान् व्याजहार पितामहः।
प्रहृष्टा व्यथिताश्चासन् सर्वे ते परमर्षयः ॥ ३.५२.११ ॥
光辉的祖父梵天说:“事已完成。”那些大仙人既欢喜又悲伤。
3.52.12
दृष्ट्वा सीतां परामृष्टां दण्डकारण्यवासिनः।
रावणस्य विनाशं च प्राप्तं बुद्ध्वा यदृच्छया ॥ ३.५२.१२ ॥
檀陀迦森林的居民看见悉多被抓住,又偶然得知罗婆那的毁灭已临近,于是明白了。
3.52.13
स तु तां राम रामेति रुदतीं लक्ष्मणेति च।
जगामादाय चाकाशं रावणो राक्षसेश्वरः ॥ ३.५२.१३ ॥
罗刹之主罗波那带着她飞上天空,她哭喊着“罗摩,罗摩!”和“罗什曼那!”
3.52.14
तप्ताभरणवर्णाङ्गी पीतकौशेयवासिनी।
रराज राजपुत्री तु विद्युत्सौदामनी यथा ॥ ३.५२.१४ ॥
身体如熔金饰物般金黄,身穿黄色丝衣,公主如闪电般光彩照人。
3.52.15
उद्धूतेन च वस्त्रेण तस्याः पीतेन रावणः।
अधिकं परिबभ्राज गिरिर्दीप्त इवाग्निना ॥ ३.५२.१५ ॥
她飘扬的黄色衣裳使罗波那更加耀眼,仿佛被火焰点燃的山峰。
3.52.16
तस्याः परमकल्याण्यास्ताम्राणि सुरभीणि च।
पद्मपत्राणि वैदेह्या अभ्यकीर्यन्त रावणम् ॥ ३.५२.१६ ॥
至为吉祥的毗提诃公主的铜红色芬芳莲瓣,洒落在罗波那身上。
3.52.17
तस्याः कौशेयमुद्धूतमाकाशे कनकप्रभम्।
बभौ चादित्यरागेण ताम्रमभ्रमिवातपे ॥ ३.५२.१७ ॥
她在空中飘扬的金光丝衣,如同被阳光映红的云朵,在日照中闪耀。
3.52.18
तस्यास्तद् विमलं वक्त्रमाकाशे रावणाङ्कगम्।
न रराज विना रामं विनालमिव पङ्कजम् ॥ ३.५२.१८ ॥
她那洁净的面容在空中倚靠在罗波那怀中,没有罗摩便失去光彩,犹如没有水的莲花。
3.52.19
बभूव जलदं नीलं भित्त्वा चन्द्र इवोदितः।
सुललाटं सुकेशान्तं पद्मगर्भाभमव्रणम् ॥ ३.५२.१९ ॥
它如同冲破深蓝云层升起的月亮,额头美丽,发际秀美,光彩如莲花蕊,无瑕无疵。
3.52.20
शुक्लैः सुविमलैर्दन्तैः प्रभावद्भिरलंकृतम्।
तस्याः सुनयनं वक्त्रमाकाशे रावणाङ्कगम् ॥ ३.५२.२० ॥
她那双眼睛美丽的面容,被洁白、极其纯净、闪耀光彩的牙齿所装点;在天空中,它倚在罗波那的膝上。
3.52.21
रुदितं व्यपमृष्टास्रं चन्द्रवत् प्रियदर्शनम्।
सुनासं चारुताम्रोष्ठमाकाशे हाटकप्रभम् ॥ ३.५२.२१ ॥
哭泣着,擦去了泪水,looks如月亮般令人喜爱,鼻子秀美,嘴唇红润可爱,在天空中闪耀如金。
3.52.22
राक्षसेन्द्रसमाधूतं तस्यास्तद् वदनं शुभम्।
शुशुभे न विना रामं दिवा चन्द्र इवोदितः ॥ ३.५२.२२ ॥
她那张吉祥的脸庞,被罗刹之主晃动着,没有罗摩便不闪耀,如同白昼升起的月亮。
3.52.23
सा हेमवर्णा नीलाङ्गं मैथिली राक्षसाधिपम्।
शुशुभे काञ्चनी काञ्ची नीलं गजमिवाश्रिता ॥ ३.५२.२३ ॥
那位金色的弥提利女,依偎着肢体深蓝的罗刹之主,光彩如缠绕在蓝色大象身上的金腰带。
3.52.24
सा पद्मपीता हेमाभा रावणं जनकात्मजा।
विद्युद् घनमिवाविश्य शुशुभे तप्तभूषणा ॥ ३.५२.२४ ॥
那位如莲花般黄艳、金光闪耀的遮那吉之女,与罗波那相依,闪耀如闪电进入云中,身佩经过烧炼的金饰。
3.52.25
तस्या भूषणघोषेण वैदेह्या राक्षसेश्वरः।
बभूव विमलो नीलः सघोष इव तोयदः ॥ ३.५२.२५ ॥
听到那位毗提诃公主饰物的声响,罗刹之王变得明亮而深蓝,如同雷鸣的雨云。
3.52.26
उत्तमाङ्गच्युता तस्याः पुष्पवृष्टिः समन्ततः।
सीताया ह्रियमाणायाः पपात धरणीतले ॥ ३.५२.२६ ॥
从她头上落下的花雨四面飘散,落在被劫走的悉多身上,最后坠于地面。
3.52.27
सा तु रावणवेगेन पुष्पवृष्टिः समन्ततः।
समाधूता दशग्रीवं पुनरेवाभ्यवर्तत ॥ ३.५२.२७ ॥
那花雨被罗波那的疾速四散吹开,又再次朝十首之王飘去。
3.52.28
अभ्यवर्तत पुष्पाणां धारा वैश्रवणानुजम्।
नक्षत्रमाला विमला मेरुं नगमिवोन्नतम् ॥ ३.५२.२८ ॥
花流转向毗舍罗婆那的幼弟,犹如高耸的须弥山上清朗的星辰花环。
3.52.29
चरणान्नूपुरं भ्रष्टं वैदेह्या रत्नभूषितम्।
विद्युन्मण्डलसंकाशं पपात धरणीतले ॥ ३.५२.२९ ॥
毗提诃公主脚上的宝饰脚环滑落,落在地上,闪耀如一圈闪电。
3.52.30
तरुप्रवालरक्ता सा नीलाङ्गं राक्षसेश्वरम्।
प्रशोभयत वैदेही गजं कक्ष्येव काञ्चनी ॥ ३.५२.३० ॥
毗提诃公主如树之嫩芽般殷红,装点着那青黑色身躯的罗刹之王,犹如金色的带子装饰大象。
3.52.31
तां महोल्कामिवाकाशे दीप्यमानां स्वतेजसा।
जहाराकाशमाविश्य सीतां वैश्रवणानुजः ॥ ३.५२.३१ ॥
如同天空中以自身光芒闪耀的大流星,毗沙罗婆那之弟进入天空,夺走了悉多。
3.52.32
तस्यास्तान्यग्निवर्णानि भूषणानि महीतले।
सघोषाण्यवशीर्यन्त क्षीणास्तारा इवाम्बरात् ॥ ३.५२.३२ ॥
她那火红色的首饰伴着声响落在地上,如同从天空中黯淡坠落的星辰。
3.52.33
तस्याः स्तनान्तराद् भ्रष्टो हारस्ताराधिपद्युतिः।
वैदेह्या निपतन् भाति गङ्गेव गगनच्युता ॥ ३.५२.३३ ॥
如月光般明亮的项链从毗提诃的胸前滑落,闪耀如同从天空坠落的恒河。
3.52.34
उत्पातवाताभिरता नानाद्विजगणायुताः।
मा भैरिति विधूताग्रा व्याजह्रुरिव पादपाः ॥ ३.५२.३४ ॥
在狂风中欢舞的树木,栖满众多鸟群,摇动着树梢,仿佛在说:“不要害怕。”
3.52.35
नलिन्यो ध्वस्तकमलास्त्रस्तमीनजलेचराः।
सखीमिव गतोत्साहां शोचन्तीव स्म मैथिलीम् ॥ ३.५२.३५ ॥
荷花被摧折、鱼虾惊惧的池塘,仿佛为失去精神的密提利之友而哀伤。
3.52.36
समन्तादभिसम्पत्य सिंहव्याघ्रमृगद्विजाः।
अन्वधावंस्तदा रोषात् सीताच्छायानुगामिनः ॥ ३.५२.३६ ॥
从四面八方聚集而来,狮子、老虎、鹿与鸟类愤怒地追随着悉多的影子奔去。
3.52.37
जलप्रपातास्रमुखाः शृङ्गैरुच्छ्रितबाहुभिः।
सीतायां ह्रियमाणायां विक्रोशन्तीव पर्वताः ॥ ३.५२.३७ ॥
悉多被劫持时,山岳仿佛以瀑布为泪流满面的脸,以高举的山峰为手臂,在放声悲号。
3.52.38
ह्रियमाणां तु वैदेहीं दृष्ट्वा दीनो दिवाकरः।
प्रविध्वस्तप्रभः श्रीमानासीत् पाण्डुरमण्डलः ॥ ३.५२.३८ ॥
看到被劫走的毗提诃,悲伤的太阳光芒尽失,虽仍辉煌,却成了一个苍白的圆盘。
3.52.39
नास्ति धर्मः कुतः सत्यं नार्जवं नानृशंसता।
यत्र रामस्य वैदेहीं सीतां हरति रावणः ॥ ३.५२.३९ ॥
罗波那劫走罗摩的毗提诃悉多之处,便无法法;何来真实?既无正直,也无慈悲。
3.52.40
वित्रस्तका दीनमुखा रुरुदुर्मृगपोतकाः ॥ ३.५२.४० ॥
受惊的小鹿们面容哀戚,哭泣起来。
3.52.41
उद्वीक्ष्योद्वीक्ष्य नयनैर्भयादिव विलक्षणैः।
सुप्रवेपितगात्राश्च बभूवुर्वनदेवताः ॥ ३.५२.४१ ॥
林中的神灵们仿佛因恐惧,眼神慌乱地一次次望去,四肢剧烈颤抖。
3.52.42
विक्रोशन्तीं दृढं सीतां दृष्ट्वा दुःखं तथा गताम्।
तां तु लक्ष्मण रामेति क्रोशन्तीं मधुरस्वराम् ॥ ३.५२.४२ ॥
我看见悉多悲声大作,陷入如此痛苦;她以甜美的声音呼喊:「啊,罗什曼那!啊,罗摩!」
3.52.43
अवेक्षमाणां बहुशो वैदेहीं धरणीतलम्।
स तामाकुलकेशान्तां विप्रमृष्टविशेषकाम्।
जहारात्मविनाशाय दशग्रीवो मनस्विनीम् ॥ ३.५२.४३ ॥
悉多反复望着大地,发梢散乱,额上的吉祥痣已被抹去,那位心志高洁的女子,被十首罗波那劫走,以致自身毁灭。
3.52.44
ततस्तु सा चारुदती शुचिस्मिता
विनाकृता बन्धुजनेन मैथिली।
अपश्यती राघवलक्ष्मणावुभौ
विवर्णवक्त्रा भयभारपीडिता ॥ ३.५२.४४ ॥
那位牙齿美好、笑容纯净的弥提罗之女,与亲人分离,看不见罗摩和罗什曼那二人,面色苍白,被恐惧的重负压垮。