蚁垤《罗摩衍那》 · 篇 3.56
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.56.1
सा तथोक्ता तु वैदेही निर्भया शोककर्शिता।
तृणमन्तरतः कृत्वा रावणं प्रत्यभाषत ॥ ३.५६.१ ॥
维蒂希虽被如此呵斥,却无所畏惧,因悲伤而憔悴,她在两人之间放下一根草,对罗婆那说道。
3.56.2
राजा दशरथो नाम धर्मसेतुरिवाचलः।
सत्यसंधः परिज्ञातो यस्य पुत्रः स राघवः ॥ ३.५६.२ ॥
有一位名叫十车王的国王,如法之桥般坚定不移,恪守誓言,名声远扬;那位罗ghava便是他的儿子。
3.56.3
रामो नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः।
दीर्घबाहुर्विशालाक्षो दैवतं स पतिर्मम ॥ ३.५६.३ ॥
名叫罗摩的那位正法之士,闻名于三界;长臂广目的他,是我的神明,也是我的夫君。
3.56.4
इक्ष्वाकूणां कुले जातः सिंहस्कन्धो महाद्युतिः।
लक्ष्मणेन सह भ्रात्रा यस्ते प्राणान् वधिष्यति ॥ ३.५६.४ ॥
他生于甘蔗王族,肩如狮子,光辉赫赫,将与兄弟罗什曼那一同夺走你的性命。
3.56.5
प्रत्यक्षं यद्यहं तस्य त्वया वै धर्षिता बलात्।
शयिता त्वं हतः संख्ये जनस्थाने यथा खरः ॥ ३.५६.५ ॥
若你当着他的面强行侮辱我,你现在早已在日那斯塔纳的战斗中被杀倒地,如同羯罗一般。
3.56.6
य एते राक्षसाः प्रोक्ता घोररूपा महाबलाः।
राघवे निर्विषाः सर्वे सुपर्णे पन्नगा यथा ॥ ३.५६.६ ॥
你所说的这些形貌可怖、力大无穷的罗刹,在罗ghava面前都如同群蛇在金翅鸟面前一样失去了毒性。
3.56.7
तस्य ज्याविप्रमुक्तास्ते शराः काञ्चनभूषणाः।
शरीरं विधमिष्यन्ति गङ्गाकूलमिवोर्मयः ॥ ३.५६.७ ॥
他弓弦射出的饰金箭矢,将粉碎你的身体,如同波浪冲击恒河之岸。
3.56.8
असुरैर्वा सुरैर्वा त्वं यद्यवध्योऽसि रावण।
उत्पाद्य सुमहद् वैरं जीवंस्तस्य न मोक्ष्यसे ॥ ३.५६.८ ॥
罗波那啊,即使你不可被阿修罗或天神所杀,与他结下如此大的仇怨,你也无法活着逃脱。
3.56.9
स ते जीवितशेषस्य राघवोऽन्तकरो बली।
पशोर्यूपगतस्येव जीवितं तव दुर्लभम् ॥ ३.५६.९ ॥
强大的罗怙罗摩将终结你余下的生命;如同被牵到祭柱前的牲畜,你的生命now难以保全。
3.56.10
यदि पश्येत् स रामस्त्वां रोषदीप्तेन चक्षुषा।
रक्षस्त्वमद्य निर्दग्धो यथा रुद्रेण मन्मथः ॥ ३.५६.१० ॥
若罗摩以愤怒燃烧的双眼看你,罗刹啊,你今日必将被焚毁,如同摩多罗被楼陀罗焚烧一般。
3.56.11
यश्चन्द्रं नभसो भूमौ पातयेन्नाशयेत वा।
सागरं शोषयेद् वापि स सीतां मोचयेदिह ॥ ३.५६.११ ॥
能将月亮从天上坠落于地、或毁灭它、或使大海干涸的人,才能在此解救悉多。
3.56.12
गतासुस्त्वं गतश्रीको गतसत्त्वो गतेन्द्रियः।
लङ्का वैधव्यसंयुक्ता त्वत्कृतेन भविष्यति ॥ ३.५६.१२ ॥
你将失去生命、光辉、力量与感官;而楞伽因你所为,将陷入寡居的哀境。
3.56.13
न ते पापमिदं कर्म सुखोदर्कं भविष्यति।
याहं नीता विनाभावं पतिपार्श्वात् त्वया बलात् ॥ ३.५६.१३ ॥
你这罪恶的行为不会带来好的结果,因为你强行把我从丈夫身边带向毁灭。
3.56.14
स हि देवरसंयुक्तो मम भर्ता महाद्युतिः।
निर्भयो वीर्यमाश्रित्य शून्ये वसति दण्डके ॥ ३.५६.१४ ॥
我那光辉赫赫的夫君,与他的幼弟一起,无所畏惧地依靠自己的勇力,住在荒凉的檀特迦森林中。
3.56.15
स ते वीर्यं बलं दर्पमुत्सेकं च तथाविधम्।
अपनेष्यति गात्रेभ्यः शरवर्षेण संयुगे ॥ ३.५६.१५ ॥
在战场上,他将以箭雨从你的肢体中夺去你的勇力、力量、骄傲和这般狂妄。
3.56.16
यदा विनाशो भूतानां दृश्यते कालचोदितः।
तदा कार्ये प्रमाद्यन्ति नराः कालवशं गताः ॥ ३.५६.१६ ॥
当万物的毁灭在时间的驱使下显现之时,那些落入时间掌控之中的人们便会在本分之事上懈怠。
3.56.17
मां प्रधृष्य स ते कालः प्राप्तोऽयं राक्षसाधम।
आत्मनो राक्षसानां च वधायान्तःपुरस्य च ॥ ३.५६.१७ ॥
卑劣的罗刹啊!你侮辱了我,你的末日已经降临——将毁灭你自己、罗刹们和后宫。
3.56.18
न शक्या यज्ञमध्यस्था वेदिः स्रुग्भाण्डमण्डिता।
द्विजातिमन्त्रसम्पूता चण्डालेनावमर्दितुम् ॥ ३.५६.१८ ॥
立于祭祀中央、以勺与器皿装饰、经再生者(二生族)的咒语净化的祭坛,不能被旃陀罗玷污。
3.56.19
तथाहं धर्मनित्यस्य धर्मपत्नी दृढव्रता।
त्वया स्प्रष्टुं न शक्याहं राक्षसाधम पापिना ॥ ३.५६.१९ ॥
同样,我是常守法度者的正妻,坚守誓愿,你这卑劣的罗刹、罪人,不能触碰我。
3.56.20
क्रीडन्ती राजहंसेन पद्मषण्डेषु नित्यशः।
हंसी सा तृणमध्यस्थं कथं द्रक्ष्येत मद्गुकम् ॥ ३.५६.२० ॥
常与王天鹅在莲花丛中嬉戏的雌天鹅,怎能看见坐在草丛中的麦古鸟呢?
3.56.21
इदं शरीरं निःसंज्ञं बन्ध वा घातयस्व वा।
नेदं शरीरं रक्ष्यं मे जीवितं वापि राक्षस ॥ ३.५६.२१ ॥
这身体即使使其昏迷而捆缚,或令其被杀;哦,罗刹,此身与我的生命,都不是我所能守护的。
3.56.22
न तु शक्यमपक्रोशं पृथिव्यां दातुमात्मनः।
एवमुक्त्वा तु वैदेही क्रोधात् सुपरुषं वचः ॥ ३.५६.२२ ॥
但我不能在大地上使自己蒙受耻辱。毗提诃公主如此说完,怒气冲冲地说出了极为严厉的话。
3.56.23
रावणं जानकी तत्र पुनर्नोवाच किंचन।
सीताया वचनं श्रुत्वा परुषं रोमहर्षणम् ॥ ३.५६.२३ ॥
于是贾纳基不再对罗波那说什么;听到悉多那令人毛骨悚然的严厉话语之后,
3.56.24
प्रत्युवाच ततः सीतां भयसंदर्शनं वचः।
शृणु मैथिलि मद्वाक्यं मासान् द्वादश भामिनि ॥ ३.५६.२४ ॥
于是罗波那以恐吓之语回答悉多:"听我的话,弥提利。哦,夫人,十二个月——
3.56.25
कालेनानेन नाभ्येषि यदि मां चारुहासिनि।
ततस्त्वां प्रातराशार्थं सूदाश्छेत्स्यन्ति लेशशः ॥ ३.५६.२५ ॥
笑容迷人的女子啊,若你不在此期限内来到我身边,厨师们就会把你切成碎块,用作早餐。
3.56.26
इत्युक्त्वा परुषं वाक्यं रावणः शत्रुरावणः।
राक्षसीश्च ततः क्रुद्ध इदं वचनमब्रवीत् ॥ ३.५६.२६ ॥
罗波那说完这些严厉的话后,这令敌人胆寒的人,又愤怒地对罗刹女们说了这番话。
3.56.27
शीघ्रमेव हि राक्षस्यो विरूपा घोरदर्शनाः।
दर्पमस्यापनेष्यन्तु मांसशोणितभोजनाः ॥ ३.५६.२७ ॥
那些形貌丑陋、面目可怖、以血肉为食的罗刹女,很快就会消除她的骄傲。
3.56.28
वचनादेव तास्तस्य सुघोरा घोरदर्शनाः।
कृतप्राञ्जलयो भूत्वा मैथिलीं पर्यवारयन् ॥ ३.५६.२८ ॥
听了他的话,那些极其可怖、形貌骇人的罗刹女双手合十,将弥提罗的女儿团团围住。
3.56.29
स ताः प्रोवाच राजासौ रावणो घोरदर्शनाः।
प्रचल्य चरणोत्कर्षैर्दारयन्निव मेदिनीम् ॥ ३.५६.२९ ॥
那位罗波那王对那些形貌可怖的罗刹女说话,他迈步前行,仿佛要用双脚的力量震裂大地。
3.56.30
अशोकवनिकामध्ये मैथिली नीयतामिति।
तत्रेयं रक्ष्यतां गूढं युष्माभिः परिवारिता ॥ ३.५६.३० ॥
"把弥提罗的女儿带到阿输迦园中央;你们要在那里将她团团围住,暗中看守。"
3.56.31
तत्रैनां तर्जनैर्घोरैः पुनः सान्त्वैश्च मैथिलीम्।
आनयध्वं वशं सर्वा वन्यां गजवधूमिव ॥ ३.५६.३१ ॥
在那里,以可怕的威胁、继而以温言软语,你们众人要使迈till利(悉多)顺服,如同驯服野生的母象一般。
3.56.32
अशोकवनिकां जग्मुर्मैथिलीं परिगृह्य तु ॥ ३.५६.३२ ॥
于是她们抓住迈till利(悉多),前往无忧树林。
3.56.33
सर्वकामफलैर्वृक्षैर्नानापुष्पफलैर्वृताम्।
सर्वकालमदैश्चापि द्विजैः समुपसेविताम् ॥ ३.५६.३३ ॥
此林被能结出一切所愿果实、开满各色花朵与果实的树木环绕,并且四季都有欢欣的飞鸟前来栖息。
3.56.34
सा तु शोकपरीताङ्गी मैथिली जनकात्मजा।
राक्षसीवशमापन्ना व्याघ्रीणां हरिणी यथा ॥ ३.५६.३४ ॥
迈till利(悉多),即遮那伽之女,身体被忧愁所笼罩,落入罗刹女之手,如同被母虎围困的母鹿。
3.56.35
शोकेन महता ग्रस्ता मैथिली जनकात्मजा।
न शर्म लभते भीरुः पाशबद्धा मृगी यथा ॥ ३.५६.३५ ॥
迈till利(悉多),遮那伽之女,被巨大的忧愁所攫,得不到一丝安宁,如同被套索缚住的胆怯母鹿。
3.56.36
न विन्दते तत्र तु शर्म मैथिली
विरूपनेत्राभिरतीव तर्जिता।
पतिं स्मरन्ती दयितं च देवरं
विचेतनाभूद् भयशोकपीडिता ॥ ३.५६.३६ ॥
迈till利(悉多)在那里毫无安宁;眼睛丑陋的罗刹女严厉地威胁她。她思念心爱的丈夫和小叔,为恐惧与忧愁所折磨,竟如失去知觉一般。