蚁垤《罗摩衍那》 · 篇 3.59
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.59.1
अथाश्रमादुपावृत्तमन्तरा रघुनन्दनः।
परिपप्रच्छ सौमित्रिं रामो दुःखादिदं वचः ॥ ३.५९.१ ॥
于是罗怙之乐罗摩从苦行林返回途中,怀着悲伤问赛门特利·罗什曼那这些话。
3.59.2
तमुवाच किमर्थं त्वमागतोऽपास्य मैथिलीम्।
यदा सा तव विश्वासाद् वने विरहिता मया ॥ ३.५९.२ ॥
他说:你为何抛下摩ithila而来?她是我出于对你的信任,在林中被独自留下的。
3.59.3
दृष्ट्वैवाभ्यागतं त्वां मे मैथिलीं त्यज्य लक्ष्मण।
शङ्कमानं महत् पापं यत्सत्यं व्यथितं मनः ॥ ३.५९.३ ॥
罗什曼那啊!见你来到此地,又知你抛下了我的摩ithila,我担心犯下了大罪;我的心确实十分忧烦。
3.59.4
स्फुरते नयनं सव्यं बाहुश्च हृदयं च मे।
दृष्ट्वा लक्ष्मण दूरे त्वां सीताविरहितं पथि ॥ ३.५९.४ ॥
我的左眼跳动,手臂和心也都跳动。罗什曼那啊!在路上远远看见你,没有悉多在身边。
3.59.5
एवमुक्तस्तु सौमित्रिर्लक्ष्मणः शुभलक्षणः।
भूयो दुःखसमाविष्टो दुःखितं राममब्रवीत् ॥ ३.५९.५ ॥
被如此问及后,吉相的赛门特利·罗什曼那再次被悲伤充满,对悲痛的罗摩说道。
3.59.6
न स्वयं कामकारेण तां त्यक्त्वाहमिहागतः।
प्रचोदितस्तयैवोग्रैस्त्वत्सकाशमिहागतः ॥ ३.५९.६ ॥
我并非出于自愿才抛下她来到这里;是被她严厉的话语所驱使,我才来到你的面前。
3.59.7
आर्येणेव परिक्रुष्टं लक्ष्मणेति सुविस्वरम्।
परित्राहीति यद्वाक्यं मैथिल्यास्तच्छ्रुतिं गतम् ॥ ३.५९.७ ॥
仿佛是那位高贵者的呼声,一声响亮的呼喊"罗什曼那!"传来,而弥提利的那句"救救我!"也传入了耳中。
3.59.8
सा तमार्तस्वरं श्रुत्वा तव स्नेहेन मैथिली।
गच्छ गच्छेति मामाशु रुदती भयविक्लवा ॥ ३.५९.८ ॥
听到那悲痛的呼声,弥提利因对你的深情而惊惧哭泣,急切地反复对我说:"快去,快去!"
3.59.9
प्रचोद्यमानेन मया गच्छेति बहुशस्तया।
प्रत्युक्ता मैथिली वाक्यमिदं तत् प्रत्ययान्वितम् ॥ ३.५९.९ ॥
尽管我多次催促,她仍说"去吧";弥提利便以充满信念的这些话回答了我。
3.59.10
न तत् पश्याम्यहं रक्षो यदस्य भयमावहेत्।
निर्वृता भव नास्त्येतत् केनाप्येतदुदाहृतम् ॥ ३.५९.१० ॥
我看不到任何能让他恐惧的罗刹。你安心吧——这话从未有人说过。
3.59.11
विगर्हितं च नीचं च कथमार्योऽभिधास्यति।
त्राहीति वचनं सीते यस्त्रायेत् त्रिदशानपि ॥ ३.५९.११ ॥
高贵者怎会说出如此可耻卑下的"救我"之言?悉多啊,能庇护诸天神的人,会说这样的话吗?
3.59.12
किंनिमित्तं तु केनापि भ्रातुरालम्ब्य मे स्वरम्।
विस्वरं व्याहृतं वाक्यं लक्ष्मण त्राहि मामिति ॥ ३.५९.१२ ॥
不知出于何故,有人假借兄长之声,模仿我的声音,粗厉地喊道:"罗什曼那,救我!"?
3.59.13
राक्षसेनेरितं वाक्यं त्रासात् त्राहीति शोभने।
न भवत्या व्यथा कार्या कुनारीजनसेविता ॥ ३.५९.१३ ॥
那句“救我”是罗刹出于恐惧而说的。美人啊,你不该忧伤;这是卑贱女子的做法。
3.59.14
अलं विक्लवतां गन्तुं स्वस्था भव निरुत्सुका।
न चास्ति त्रिषु लोकेषु पुमान् यो राघवं रणे ॥ ३.५९.१४ ॥
不要再绝望了;保持镇定,不要忧虑。三界之中,没有一个男子能在战场上战胜罗怙后裔。
3.59.15
जातो वा जायमानो वा संयुगे यः पराजयेत्।
अजेयो राघवो युद्धे देवैः शक्रपुरोगमैः ॥ ३.५९.१५ ॥
无论已生的还是将生的,谁也无法在战场上战胜罗怙后裔。即使是以因陀罗为首的天神,也无法在战争中战胜罗怙后裔。
3.59.16
एवमुक्ता तु वैदेही परिमोहितचेतना।
उवाचाश्रूणि मुञ्चन्ती दारुणं मामिदं वचः ॥ ३.५९.१६ ॥
听他这样说,心神迷乱的毗提诃公主流着泪,对我说了这些严厉的话。
3.59.17
भावो मयि तवात्यर्थं पाप एव निवेशितः।
विनष्टे भ्रातरि प्राप्तुं न च त्वं मामवाप्स्यसे ॥ ३.५९.१७ ॥
你对我的心思极其邪恶。待我的兄长被消灭之后,你也绝不能得到我。
3.59.18
संकेताद् भरतेन त्वं रामं समनुगच्छसि।
क्रोशन्तं हि यथात्यर्थं नैनमभ्यवपद्यसे ॥ ३.५९.१८ ॥
你受婆罗多指使,紧紧跟随罗摩。他那样大声呼喊,你却并不前去救他。
3.59.19
रिपुः प्रच्छन्नचारी त्वं मदर्थमनुगच्छसि।
राघवस्यान्तरं प्रेप्सुस्तथैनं नाभिपद्यसे ॥ ३.५९.१९ ॥
你是隐身潜行的敌人。你为了我而跟随他;虽寻找拉ghava的破绽,却始终不敢靠近他。
3.59.20
एवमुक्तस्तु वैदेह्या संरब्धो रक्तलोचनः।
क्रोधात् प्रस्फुरमाणोष्ठ आश्रमादभिनिर्गतः ॥ ३.५९.२० ॥
维代希这样说了之后,他怒火中烧,双眼通红,嘴唇因愤怒而颤抖,从修行处走了出来。
3.59.21
एवं ब्रुवाणं सौमित्रिं रामः संतापमोहितः।
अब्रवीद् दुष्कृतं सौम्य तां विना त्वमिहागतः ॥ ३.५९.२१ ॥
萨乌米特里这样说时,被忧愁迷惑的罗摩对他说:"善良的人啊,你丢下她独自来到这里,做得不对。"
3.59.22
जानन्नपि समर्थं मां रक्षसामपवारणे।
अनेन क्रोधवाक्येन मैथिल्या निर्गतो भवान् ॥ ३.५९.२२ ॥
你明知我能够抵挡罗刹,却因为迈提利这些愤怒的话语而离开了。
3.59.23
नहि ते परितुष्यामि त्यक्त्वा यदसि मैथिलीम्।
क्रुद्धायाः परुषं श्रुत्वा स्त्रिया यत् त्वमिहागतः ॥ ३.५९.२३ ॥
你抛下迈提利,我对你并不满意。你听了一个愤怒女子的刻薄话,便来到这里。
3.59.24
सर्वथा त्वपनीतं ते सीतया यत् प्रचोदितः।
क्रोधस्य वशमागम्य नाकरोः शासनं मम ॥ ३.५९.२४ ॥
你在各方面都做错了,被悉多所驱使;你受愤怒所支配,没有遵从我的命令。
3.59.25
असौ हि राक्षसः शेते शरेणाभिहतो मया।
मृगरूपेण येनाहमाश्रमादपवाहितः ॥ ३.५९.२५ ॥
那个化作鹿形把我从净修林引开的罗刹,已被我的箭射中倒地。
3.59.26
विकृष्य चापं परिधाय सायकं
सलीलबाणेन च ताडितो मया।
मार्गीं तनुं त्यज्य च विक्लवस्वरो
बभूव केयूरधरः स राक्षसः ॥ ३.५९.२६ ॥
我拉满弓、搭上箭,以轻巧射出的一箭射中了他。罗刹舍弃鹿身,戴着臂钏,声音变得凄惨颤抖。
3.59.27
शराहतेनैव तदार्तया गिरा
स्वरं ममालम्ब्य सुदूरसुश्रवम्।
उदाहृतं तद् वचनं सुदारुणं
त्वमागतो येन विहाय मैथिलीम् ॥ ३.५९.२७ ॥
他被箭射中,以痛苦的声音模仿我的嗓音,把那些极其残忍的话喊得很远;你因此离开了弥提利来到这里。