蚁垤《罗摩衍那》 · 篇 3.7
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.7.1
रामस्तु सहितो भ्रात्रा सीतया च परंतपः।
सुतीक्ष्णस्याश्रमपदं जगाम सह तैर्द्विजैः ॥ ३.७.१ ॥
灭敌者罗摩与兄弟及悉多一同,随那些再生者前往苏提克什那的修行处。
3.7.2
स गत्वा दूरमध्वानं नदीस्तीर्त्वा बहूदकाः।
ददर्श विमलं शैलं महामेरुमिवोन्नतम् ॥ ३.७.२ ॥
他走了远路,渡过水流丰沛的河川,看见一座如大须弥山般高耸、洁净的山。
3.7.3
ततस्तदिक्ष्वाकुवरौ सततं विविधैर्द्रुमैः।
काननं तौ विविशतुः सीतया सह राघवौ ॥ ३.७.३ ॥
于是,伊刹婆迦族中最优秀的两位罗怙后裔,与悉多一同,进入了那片常有各种树木的森林。
3.7.4
प्रविष्टस्तु वनं घोरं बहुपुष्पफलद्रुमम्।
ददर्शाश्रममेकान्ते चीरमालापरिष्कृतम् ॥ ३.७.४ ॥
他进入那片布满众多开花结果之树的可怖森林,在僻静处看见一座以树皮衣的花环装饰的修行处。
3.7.5
तत्र तापसमासीनं मलपङ्कजधारिणम्।
रामः सुतीक्ष्णं विधिवत् तपोधनमभाषत ॥ ३.७.५ ॥
罗摩依礼仪,向坐在那里、头戴发髻并持莲花的苦行富者苏提克什那开口说话。
3.7.6
रामोऽहमस्मि भगवन् भवन्तं द्रष्टुमागतः।
तन्माभिवद धर्मज्ञ महर्षे सत्यविक्रम ॥ ३.७.६ ॥
尊者,我是罗摩,前来拜见您。因此,知法者、大仙、真勇者,请为我通报。
3.7.7
स निरीक्ष्य ततो धीरो रामं धर्मभृतां वरम्।
समाश्लिष्य च बाहुभ्यामिदं वचनमब्रवीत् ॥ ३.७.७ ॥
那位沉稳的仙人看着法之持守者中最优秀的罗摩,用双臂拥抱他,并说了这些话。
3.7.8
स्वागतं ते रघुश्रेष्ठ राम सत्यभृतां वर।
आश्रमोऽयं त्वयाऽऽक्रान्तः सनाथ इव साम्प्रतम् ॥ ३.७.८ ॥
欢迎你,罗怙族中最优秀者罗摩,持守真理者中最优秀的人。你如今使这座隐居处仿佛有了依靠。
3.7.9
प्रतीक्षमाणस्त्वामेव नारोहेऽहं महायशः।
देवलोकमितो वीर देहं त्यक्त्वा महीतले ॥ ३.७.९ ॥
啊,大名远扬者,啊,英雄,我只是在等待你;否则,我不会在这大地上舍弃身体后从此处升往天界。
3.7.10
चित्रकूटमुपादाय राज्यभ्रष्टोऽसि मे श्रुतः।
इहोपयातः काकुत्स्थ देवराजः शतक्रतुः ॥ ३.७.१० ॥
啊,迦古斯特之后裔,我听说你在奇特拉古特山中寻求庇护后已失去了王位。天神之王、百祭之主因陀罗已经来到这里。
3.7.11
उपागम्य च मे देवो महादेवः सुरेश्वरः।
सर्वाल्ँ लोकाञ्जितानाह मम पुण्येन कर्मणा ॥ ३.७.११ ॥
天神之主摩诃提婆走近我,说我以功德之业征服了一切世界。
3.7.12
तेषु देवर्षिजुष्टेषु जितेषु तपसा मया।
मत्प्रसादात् सभार्यस्त्वं विहरस्व सलक्ष्मणः ॥ ३.७.१२ ॥
那些被天神仙人所游历的世界,我已凭苦行征服。凭我的恩典,愿你与妻子及罗什曼那在那里快乐游憩。
3.7.13
तमुग्रतपसं दीप्तं महर्षिं सत्यवादिनम्।
प्रत्युवाचात्मवान् रामो ब्रह्माणमिव वासवः ॥ ३.७.१३ ॥
对那位苦行严苛、光辉照人、言语真实的大仙,自制的罗摩回答道,如同因陀罗对梵天说话。
3.7.14
अहमेवाहरिष्यामि स्वयं लोकान् महामुने।
आवासं त्वहमिच्छामि प्रदिष्टमिह कानने ॥ ३.७.१४ ॥
大仙啊,我自己将带来诸界;但在这森林中,我只愿有一个指定给我的住所。
3.7.15
भवान् सर्वत्र कुशलः सर्वभूतहिते रतः।
आख्यातं शरभङ्गेन गौतमेन महात्मना ॥ ३.७.१५ ॥
您无处不善巧,专心于一切众生的福利;此事是由大德瞿昙之子舍罗婆伽所宣说的。
3.7.16
एवमुक्तस्तु रामेण महर्षिर्लोकविश्रुतः।
अब्रवीन्मधुरं वाक्यं हर्षेण महता युतः ॥ ३.७.१६ ॥
罗摩如此说后,名闻三界的大仙充满大喜,说出了甜美的话语。
3.7.17
अयमेवाश्रमो राम गुणवान् रम्यतामिति।
ऋषिसंघानुचरितः सदा मूलफलैर्युतः ॥ ३.७.१७ ॥
罗摩啊,这座修行处本身殊胜,你可以在此欢喜。它总有群群圣者往来,并且盛产根茎与果实。
3.7.18
इममाश्रममागम्य मृगसंघा महीयसः।
अहत्वा प्रतिगच्छन्ति लोभयित्वाकुतोभयाः ॥ ३.७.१८ ॥
大群的鹿来到这座修行处后,未被杀害便返回,四面都无所畏惧,被此处的魅力所吸引。
3.7.19
नान्यो दोषो भवेदत्र मृगेभ्योऽन्यत्र विद्धि वै।
तच्छ्रुत्वा वचनं तस्य महर्षेर्लक्ष्मणाग्रजः ॥ ३.७.१९ ॥
此处除鹿群之外不会有别的过错,你应确知此事。听了那位大仙的话,罗摩——罗什曼那的兄长——
3.7.20
उवाच वचनं धीरो विगृह्य सशरं धनुः।
तानहं सुमहाभाग मृगसंघान् समागतान् ॥ ३.७.२० ॥
那位坚毅的罗摩持弓搭箭,说道:“啊,大福之人,这些聚集而来的鹿群,
3.7.21
हन्यां निशितधारेण शरेणानतपर्वणा।
भवांस्तत्राभिषज्येत किं स्यात् कृच्छ्रतरं ततः ॥ ३.७.२१ ॥
"……用锋利、带弯节的箭将它们射杀吗?那样你便会陷入其中,还有什么比这更令人烦恼的呢?"
3.7.22
एतस्मिन्नाश्रमे वासं चिरं तु न समर्थये।
तमेवमुक्त्वोपरमं रामः संध्यामुपागमत् ॥ ३.७.२२ ॥
“我不愿在这座修行处久留。”罗摩对他这样说罢便停止了谈话,去做黄昏的礼拜。
3.7.23
अन्वास्य पश्चिमां संध्यां तत्र वासमकल्पयत् ।
सुतीक्ष्णस्याश्रमे रम्ये सीतया लक्ष्मणेन च ॥ ३.७.२३ ॥
完成黄昏的礼拜后,他便在那里安顿下来,在苏提克什那美丽的修行处,与悉多和罗什曼那同住。
3.7.24
ततः शुभं तापसयोग्यमन्नं
स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम्।
ताभ्यां सुसत्कृत्य ददौ महात्मा
संध्यानिवृत्तौ रजनीं समीक्ष्य ॥ ३.७.२४ ॥
于是伟大的苏提克什那在黄昏礼拜结束、夜幕降临时,亲自厚待那两位人中之杰,并奉上适合苦行者的吉祥食物。