蚁垤《罗摩衍那》 · 篇 3.70
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.70.1
तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ।
बाहुपाशपरिक्षिप्तौ कबन्धो वाक्यमब्रवीत् ॥ ३.७०.१ ॥
卡班陀看见兄弟二人罗摩与罗什曼那站在那里,被他的臂膀之索缚住,便说了这番话。
3.70.2
तिष्ठतः किं नु मां दृष्ट्वा क्षुधार्तं क्षत्रियर्षभौ।
आहारार्थं तु संदिष्टौ दैवेन हतचेतनौ ॥ ३.७०.२ ॥
诸位刹帝利中的雄牛啊!看见我饥饿困苦,你们二人为何还站着不动?被命运驱使前来寻找食物的你们,似乎已丧失了心智。
3.70.3
तच्छ्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा।
उवाचार्तिसमापन्नो विक्रमे कृतनिश्चयः ॥ ३.७०.३ ॥
罗什曼那听到这番合时而有益的话,虽然痛苦,却在勇力上下定决心,于是说道。
3.70.4
त्वां च मां च पुरा तूर्णमादत्ते राक्षसाधमः।
तस्मादसिभ्यामस्याशु बाहू छिन्दावहे गुरू ॥ ३.७०.४ ॥
这个最卑劣的罗刹很快就会抓住你我。所以我们二人应当用剑迅速斩断他那沉重的手臂。
3.70.5
भीषणोऽयं महाकायो राक्षसा भुजविक्रमः।
लोकं ह्यतिजितं कृत्वा ह्यावां हन्तुमिहेच्छति ॥ ३.७०.५ ॥
这个可怖的罗刹,身躯庞大,臂力强盛,已征服了世界,如今在此想要杀死我们二人。
3.70.6
निश्चेष्टानां वधो राजन् कुत्सितो जगतीपतेः।
क्रतुमध्योपनीतानां पशूनामिव राघव ॥ ३.७०.६ ॥
国王啊,杀害毫无反抗之力的人是可耻的,罗怙之后啊,就像在祭祀中间被牵来的牲畜被杀一样。
3.70.7
एतत् संजल्पितं श्रुत्वा तयोः क्रुद्धस्तु राक्षसः।
विदार्यास्यं ततो रौद्रं तौ भक्षयितुमारभत् ॥ ३.७०.७ ॥
罗刹听到二人的谈话,怒不可遏,张开可怖的大口,便开始吞食他们。
3.70.8
ततस्तौ देशकालज्ञौ खड्गाभ्यामेव राघवौ।
अच्छिन्दन्तां सुसंहृष्टौ बाहू तस्यांसदेशतः ॥ ३.७०.८ ॥
于是,两位知晓时机与地点的罗怙子孙极为欢喜,便用他们的剑从他的肩部斩断了他的两臂。
3.70.9
दक्षिणो दक्षिणं बाहुमसक्तमसिना ततः।
चिच्छेद रामो वेगेन सव्यं वीरस्तु लक्ष्मणः ॥ ३.७०.९ ॥
右边的罗摩以无阻的剑迅速斩断了他的右臂,英雄罗什曼那则斩断了左臂。
3.70.10
स पपात महाबाहुश्छिन्नबाहुर्महास्वनः।
खं च गां च दिशश्चैव नादयञ्जलदो यथा ॥ ३.७०.१० ॥
这位大臂者双臂被斩断,发出巨大的吼声倒下,如云雷般震响天空、大地与四方。
3.70.11
स निकृत्तौ भुजौ दृष्ट्वा शोणितौघपरिप्लुतः।
दीनः पप्रच्छ तौ वीरौ कौ युवामिति दानवः ॥ ३.७०.११ ॥
他看见自己双臂被斩断,浑身浸在血流之中,这悲惨的檀那伐便问那两位英雄:“你们二位是谁?”
3.70.12
शशंस तस्य काकुस्त्थं कबन्धस्य महाबलः ॥ ३.७०.१२ ॥
这位大力者向他说明了迦古特斯塔之后(罗摩)的身份。
3.70.13
अयमिक्ष्वाकुदायादो रामो नाम जनैः श्रुतः।
तस्यैवावरजं विद्धि भ्रातरं मां च लक्ष्मणम् ॥ ३.७०.१३ ॥
此人是伊刹婆迦族的继承者,名叫罗摩,为众人所知。你要知道,我是他的幼弟罗什曼那。
3.70.14
मात्रा प्रतिहते राज्ये रामः प्रव्राजितो वनम्।
मया सह चरत्येष भार्यया च महद् वनम् ॥ ३.७०.१४ ॥
母亲阻挠他继承王位,罗摩因此被流放到森林中。如今他与我以及他的妻子,在这片广阔的森林中漫游。
3.70.15
अस्य देवप्रभावस्य वसतो विजने वने।
रक्षसापहृता भार्या यामिच्छन्ताविहागतौ ॥ ३.७०.१५ ॥
这位具有神力的人居住在荒僻的森林中时,他的妻子被罗刹掳走;我们正是为寻找她而来到此地。
3.70.16
त्वं तु को वा किमर्थं वा कबन्धसदृशो वने।
आस्येनोरसि दीप्तेन भग्नजङ्घो विचेष्टसे ॥ ३.७०.१६ ॥
你究竟是谁?为何在这森林中像羯班陀一样挣扎,口中与胸前烈火燃烧,双腿已断?
3.70.17
एवमुक्तः कबन्धस्तु लक्ष्मणेनोत्तरं वचः।
उवाच वचनं प्रीतस्तदिन्द्रवचनं स्मरन् ॥ ३.७०.१७ ॥
罗什曼那如此询问,羯班陀欣喜地想起因陀罗的话语,便作了回答。
3.70.18
स्वागतं वां नरव्याघ्रौ दिष्ट्या पश्यामि वामहम्।
दिष्ट्या चेमौ निकृत्तौ मे युवाभ्यां बाहुबन्धनौ ॥ ३.७०.१८ ॥
欢迎你们二位,人中猛虎!幸运的是我得以见到你们二人,也幸运的是你们二人斩断了我手臂上的这些束缚。
3.70.19
विरूपं यच्च मे रूपं प्राप्तं ह्यविनयाद् यथा।
तन्मे शृणु नरव्याघ्र तत्त्वतः शंसतस्तव ॥ ३.७०.१९ ॥
人中之虎啊,请听我据实讲述,我因无礼而得此丑陋之形的缘由。