ヴァールミーキのラーマーヤナ · サルガ 3.72
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.72.1
एवमुक्तौ तु तौ वीरौ कबन्धेन नरेश्वरौ।
गिरिप्रदरमासाद्य पावकं विससर्जतुः ॥ ३.७२.१ ॥
カバンダにそう言われると、その二人の英雄の王は山の裂け目に至り、火を放った。
3.72.2
लक्ष्मणस्तु महोल्काभिर्ज्वलिताभिः समन्ततः।
चितामादीपयामास सा प्रजज्वाल सर्वतः ॥ ३.७२.२ ॥
ラクシュマナは燃える大きな松明で四方から薪を点け、火は至るところで燃え上がった。
3.72.3
तच्छरीरं कबन्धस्य घृतपिण्डोपमं महत्।
मेदसा पच्यमानस्य मन्दं दहत पावकः ॥ ३.७२.३ ॥
カバンダの大きな体は、大きな酥油の塊のように自分の脂で煮られ、火によって徐々に焼かれた。
3.72.4
सविधूय चितामाशु विधूमोऽग्निरिवोत्थितः।
अरजे वाससी बिभ्रन्माल्यं दिव्यं महाबलः ॥ ३.७२.४ ॥
薪をさっと振り払い、煙のない火のように、その大力の者は立ち上がった。汚れなき衣をまとい、神々しい花環を身につけて。
3.72.5
ततश्चिताया वेगेन भास्वरो विरजाम्बरः।
उत्पपाताशु संहृष्टः सर्वप्रत्यङ्गभूषणः ॥ ३.७२.५ ॥
そして火葬の薪から勢いよく、輝き、清らかな衣をまとい、喜びに満ち、全身を飾りで飾られた彼は、すばやく空へ昇った。
3.72.6
विमाने भास्वरे तिष्ठन् हंसयुक्ते यशस्करे।
प्रभया च महातेजा दिशो दश विराजयन् ॥ ३.७२.६ ॥
白鳥に引かれた輝かしく名声をもたらす空飛ぶ車に立ち、大いなる輝きの者は、その光で十方を照らしていた。
3.72.7
सोऽन्तरिक्षगतो वाक्यं कबन्धो राममब्रवीत्।
शृणु राघव तत्त्वेन यथा सीतामवाप्स्यसि ॥ ३.७२.७ ॥
空中にいたカバンダはラーマに言った。「ラーガヴァよ、シーターをどのように得るか、真実を聞け。」
3.72.8
राम षड् युक्तयो लोके याभिः सर्वं विमृश्यते।
परिमृष्टो दशान्तेन दशाभागेन सेव्यते ॥ ३.७२.८ ॥
ラーマよ、世には六つの方策があり、それによって万事が熟考される。よく熟考されたことは、十の終わりと十の分によって遂行される。
3.72.9
दशाभागगतो हीनस्त्वं हि राम सलक्ष्मणः।
यत्कृते व्यसनं प्राप्तं त्वया दारप्रधर्षणम् ॥ ३.७२.९ ॥
ラーマよ、あなたとラクシュマナは運命の分け前に陥り衰えてしまった。その為に、あなたの妻が辱められるという災いがあなたに降りかかったのだ。
3.72.10
तदवश्यं त्वया कार्यः स सुहृत् सुहृदां वर।
अकृत्वा नहि ते सिद्धिमहं पश्यामि चिन्तयन् ॥ ३.७२.१० ॥
だからあなたは必ずそれを行うべきだ。友の中で最も優れた、その友スグリーヴァと。考えてみると、そうしなければあなたに成功はないと私は見る。
3.72.11
श्रूयतां राम वक्ष्यामि सुग्रीवो नाम वानरः।
भ्रात्रा निरस्तः क्रुद्धेन वालिना शक्रसूनुना ॥ ३.७२.११ ॥
ラーマよ、聞け。スグリーヴァという名の猿について話そう。インドラの子ヴァーリンは怒って兄弟である彼を追放したのだ。
3.72.12
ऋष्यमूके गिरिवरे पम्पापर्यन्तशोभिते।
निवसत्यात्मवान् वीरश्चतुर्भिः सह वानरैः ॥ ३.७२.१२ ॥
最も優れた山リシュヤムーカに、パンパー湖の岸まで輝くその山に、自制心ある英雄は四匹の猿とともに住んでいる。
3.72.13
वानरेन्द्रो महावीर्यस्तेजोवानमितप्रभः।
सत्यसंधो विनीतश्च धृतिमान् मतिमान् महान् ॥ ३.७२.१३ ॥
猿の王は大いなる勇気を持ち、輝かしく、計り知れない光輝を放っていた。誓いに忠実で、謙虚、堅固、賢明にして偉大であった。
3.72.14
दक्षः प्रगल्भो द्युतिमान् महाबलपराक्रमः।
भ्रात्रा विवासितो वीर राज्यहेतोर्महात्मना ॥ ३.७२.१४ ॥
彼は有能で大胆、輝かしく、大いなる力と武勇を備えていた。勇士よ、王国のために、高潔な兄によって追放されたのだ。
3.72.15
स ते सहायो मित्रं च सीतायाः परिमार्गणे।
भविष्यति हि ते राम मा च शोके मनः कृथाः ॥ ३.७२.१५ ॥
シーターを探す旅で、彼はあなたの助けとなり友となるでしょう。ラーマよ、心を悲しみに沈めてはならない。
3.72.16
भवितव्यं हि तच्चापि न तच्छक्यमिहान्यथा।
कर्तुमिक्ष्वाकुशार्दूल कालो हि दुरतिक्रमः ॥ ३.७२.१६ ॥
それは必ず起こるべきことであり、ここでは別のようにすることはできない。イクシュヴァークの虎よ、時は越えがたいものだ。
3.72.17
गच्छ शीघ्रमितो वीर सुग्रीवं तं महाबलम्।
वयस्यं तं कुरु क्षिप्रमितो गत्वाद्य राघव ॥ ३.७२.१७ ॥
勇士よ、ここから速やかに出発し、あの大力のスグリーヴァを直ちに友とせよ。ラーガヴァよ、今日ここから行くのだ。
3.72.18
अद्रोहाय समागम्य दीप्यमाने विभावसौ।
न च ते सोऽवमन्तव्यः सुग्रीवो वानराधिपः ॥ ३.७२.१८ ॥
背信しないために、燃え盛る火の前で会い、あなたは猿の王スグリーヴァを軽んじてはならない。
3.72.19
कृतज्ञः कामरूपी च सहायार्थी च वीर्यवान्।
शक्तौ ह्यद्य युवां कर्तुं कार्यं तस्य चिकीर्षितम् ॥ ३.७२.१९ ॥
彼は恩義を忘れず、意のままに姿を変えることができ、味方を求め、勇猛である。今日、あなた方二人こそ彼の望む事を成し遂げられる。
3.72.20
कृतार्थो वाकृतार्थो वा तव कृत्यं करिष्यति।
स ऋक्षरजसः पुत्रः पम्पामटति शङ्कितः ॥ ३.७२.२० ॥
彼自身の目的が達せられていようといまいと、彼はあなた方の事を成すであろう。そのリクシャラジャスの子は、恐れながらパンパー湖の周りをさまよっている。
3.72.21
भास्करस्यौरसः पुत्रो वालिना कृतकिल्बिषः।
संनिधायायुधं क्षिप्रमृष्यमूकालयं कपिम् ॥ ३.७२.२१ ॥
太陽の真の息子で、ヴァーリンに不当な仕打ちを受けた者は、武器を携えてすぐに、リシュヤムーカに住むあの猿のもとへ行くがよい。
3.72.22
कुरु राघव सत्येन वयस्यं वनचारिणम्।
स हि स्थानानि कात्स्न्र्येन सर्वाणि कपिकुञ्जरः ॥ ३.७२.२२ ॥
ラガヴァよ、真実をもって、あの森をさすらう友を受け入れてください。あの猿の中の象は、すべての場所を余すところなく知っています。
3.72.23
नरमांसाशिनां लोके नैपुण्यादधिगच्छति।
न तस्याविदितं लोके किंचिदस्ति हि राघव ॥ ३.७२.२३ ॥
世にあって、人肉を食らう羅刹たちのことさえ、彼は巧みに知り得る。ラガヴァよ、この世で彼に知られぬものは何もない。
3.72.24
यावत् सूर्यः प्रतपति सहस्रांशुः परंतप।
स नदीर्विपुलान् शैलान् गिरिदुर्गाणि कन्दरान् ॥ ३.७२.२४ ॥
敵を焼き尽くす者よ、千の光線を持つ太陽が輝く限り、彼は河、広大な山々、山の砦、洞窟を探し続けるでしょう。
3.72.25
अन्विष्य वानरैः सार्धं पत्नीं तेऽधिगमिष्यति।
वानरांश्च महाकायान् प्रेषयिष्यति राघव ॥ ३.७२.२५ ॥
ラーガヴァよ!猿たちとともに探して、彼はきっとお前の妻を見つけ、大きな体の猿たちを遣わすだろう。
3.72.26
दिशो विचेतुं तां सीतां त्वद्वियोगेन शोचतीम्।
अन्वेष्यति वरारोहां मैथिलीं रावणालये ॥ ३.७२.२६ ॥
お前との別れに嘆くシーターを、あらゆる方角に探すため、ラーヴァナの館で、その美しい腰の弥提羅の姫を探し求めるだろう。
3.72.27
स मेरुशृङ्गाग्रगतामनिन्दितां
प्रविश्य पातालतलेऽपि वाश्रिताम्।
प्लवङ्गमानामृषभस्तव प्रियां
निहत्य रक्षांसि पुनः प्रदास्यति ॥ ३.७२.२७ ॥
メール山の頂にいようと、冥界の底に身を寄せていようと、その罪なきお前の愛しき人のもとへ彼は入り、羅刹どもを殺して、再びお前に返すであろう。