ヴァールミーキのラーマーヤナ · サルガ 3.75
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.75.1
दिवं तु तस्यां यातायां शबर्यां स्वेन तेजसा।
लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः ॥ ३.७५.१ ॥
シャバリーが自らの威光によって天へ去ったのち、ラーガヴァはその兄弟ラクシュマナと共に思いをめぐらした。
3.75.2
चिन्तयित्वा तु धर्मात्मा प्रभावं तं महात्मनाम्।
हितकारिणमेकाग्रं लक्ष्मणं राघवोऽब्रवीत् ॥ ३.७५.२ ॥
偉大な魂の持つその力を思い巡らしたのち、正しき者ラーガヴァは、善き心で一心に仕える弟ラクシュマナに語った。
3.75.3
दृष्टो मयाऽऽश्रमः सौम्य बह्वाश्चर्यः कृतात्मनाम्।
विश्वस्तमृगशार्दूलो नानाविहगसेवितः ॥ ३.७५.३ ॥
優しき者よ、わたしは自己を制した者たちの庵を見た。それは実に驚くべきもので、虎や鹿が安らかに暮らし、さまざまな鳥が集まっている。
3.75.4
सप्तानां च समुद्राणां तेषां तीर्थेषु लक्ष्मण।
उपस्पृष्टं च विधिवत् पितरश्चापि तर्पिताः ॥ ३.७५.४ ॥
ラクシュマナよ、その七つの大海の聖なる渡し場で、わたしは規定どおり清めの水を口に含み、祖霊たちも供物によって満たされた。
3.75.5
प्रणष्टमशुभं यन्नः कल्याणं समुपस्थितम्।
तेन त्वेतत् प्रहृष्टं मे मनो लक्ष्मण सम्प्रति ॥ ३.७५.५ ॥
わたしたちの不吉なものは滅び去り、吉祥が近づいた。だからラクシュマナよ、今わたしの心は喜びに満ちている。
3.75.6
हृदये मे नरव्याघ्र शुभमाविर्भविष्यति।
तदागच्छ गमिष्यावः पम्पां तां प्रियदर्शनाम् ॥ ३.७५.६ ॥
人中の虎よ、わたしの心に吉兆が現れるだろう。さあ来なさい、あの見目麗しいパンパーへ行こう。
3.75.7
ऋष्यमूको गिरिर्यत्र नातिदूरे प्रकाशते।
यस्मिन् वसति धर्मात्मा सुग्रीवोंऽशुमतः सुतः ॥ ३.७५.७ ॥
遠くないところにリシュヤムーカ山が輝いて見える。そこには義の心をもつアンシュマットの子スグリーヴァが住んでいる。
3.75.8
नित्यं वालिभयात् त्रस्तश्चतुर्भिः सह वानरैः।
अहं त्वरे च तं द्रष्टुं सुग्रीवं वानरर्षभम् ॥ ३.७५.८ ॥
ヴァーリンへの恐れに常におびえ、彼は四匹の猿とともに暮らしている。猿の中の雄牛であるスグリーヴァに会いたくて、私は急いでいる。
3.75.10
तदधीनं हि मे कार्यं सीतायाः परिमार्गणम्।
गच्छावस्त्वरितं तत्र ममापि त्वरते मनः।
आश्रमात्तु ततस्तस्मान्निष्क्रम्य स विशाम्पतिः ॥ ३.७५.१० ॥
私の任務はシーターの捜索にかかっている。急いでそこへ行こう。私の心もそこへ急いでいる。そうして、あの庵を出て、その人の主は
3.75.11
आजगाम ततः पम्पां लक्ष्मणेन सह प्रभुः।
समीक्षमाणः पुष्पाढ्यं सर्वतो विपुलद्रुमम् ॥ ३.७५.११ ॥
そこで主は、ラクシュマナとともにパンパー湖に至り、花々に満ち大木の茂る周囲を見渡した。
3.75.12
कोयष्टिभिश्चार्जुनकैः शतपत्रैश्च कीरकैः।
एतैश्चान्यैश्च बहुभिर्नादितं तद् वनं महत् ॥ ३.७५.१२ ॥
その広大な森は、コーヤシュティ、アルジュナカ、シャタパトラ、キーラカの鳥々、そしてそのほかの多くの鳥の声に満ちていた。
3.75.13
स रामो विविधान् वृक्षान् सरांसि विविधानि च।
पश्यन् कामाभिसंतप्तो जगाम परमं ह्रदम् ॥ ३.७५.१३ ॥
ラーマは、さまざまな木々やさまざまな湖を眺めながら、愛欲に苦しめられて、かの最も美しい湖へと進んでいった。
3.75.14
स तामासाद्य वै रामो दूरात् पानीयवाहिनीम्।
मतङ्गसरसं नाम ह्रदं समवगाहत ॥ ३.७५.१४ ॥
ラーマは遠くからその水の流れに至り、マタンガ湖と呼ばれる池に深く身を浸した。
3.75.15
तत्र जग्मतुरव्यग्रौ राघवौ हि समाहितौ।
स तु शोकसमाविष्टो रामो दशरथात्मजः ॥ ३.७५.१५ ॥
そこへ二人のラガヴァは落ち着き、心を集中して向かったが、ダシャラタの子ラーマは悲しみに満たされていた。
3.75.16
विवेश नलिनीं रम्यां पंकजैश्च समावृताम्।
तिलकाशोकपुंनागबकुलोद्दालकाशिनीम् ॥ ३.७५.१६ ॥
彼は蓮に覆われ、ティラカ、アショーカ、プンナーガ、バクラ、ウッダーラカの木々が茂る、その美しい蓮池に入った。
3.75.17
रम्योपवनसम्बाधां पद्मसम्पीडितोदकाम्।
स्फटिकोपमतोयां तां श्लक्ष्णवालुकसंतताम् ॥ ३.७५.१७ ॥
その池は美しい園林に囲まれ、蓮に満ちた水は水晶のように澄み、滑らかな砂が敷かれていた。
3.75.18
मत्स्यकच्छपसम्बाधां तीरस्थद्रुमशोभिताम्।
सखीभिरिव संयुक्तां लताभिरनुवेष्टिताम् ॥ ३.७५.१८ ॥
魚と亀に満ち、岸辺の木々に飾られ、まるで連れ立った女友達のように蔓草が絡みついていた。
3.75.19
किंनरोरगगन्धर्वयक्षराक्षससेविताम्।
नानाद्रुमलताकीर्णां शीतवारिनिधिं शुभाम् ॥ ३.७५.१९ ॥
キンナラ、蛇族、ガンダルヴァ、ヤクシャ、ラークシャサが訪れ、多くの木と蔓草に覆われ、冷たい水の宝庫である、その吉祥な湖であった。
3.75.20
पद्मसौगन्धिकैस्ताम्रां शुक्लां कुमुदमण्डलैः।
नीलां कुवलयोद्घाटैर्बहुवर्णां कुथामिव ॥ ३.७५.२० ॥
蓮と薫り高い花々に赤く、白い睡蓮の群れに白く、開いた青い蓮に濃い青く、多彩な色で、広げられた絨毯のようであった。
3.75.21
अरविन्दोत्पलवतीं पद्मसौगन्धिकायुताम्।
पुष्पिताम्रवणोपेतां बर्हिणोद्घुष्टनादिताम् ॥ ३.७५.२१ ॥
アラヴィンダとウトパラの蓮に満ち、パドマとサウガンディカの花を伴い、花咲くマンゴーの林に飾られ、孔雀の鳴き声が響いていた。
3.75.22
स तां दृष्ट्वा ततः पम्पां रामः सौमित्रिणा सह।
विललाप च तेजस्वी रामो दशरथात्मजः ॥ ३.७५.२२ ॥
そしてパンパー湖を見て、ダシャラタの輝かしい子ラーマは、サウミトリ(ラクシュマナ)とともに嘆いた。
3.75.23
तिलकैर्बीजपूरैश्च वटैः शुक्लद्रुमैस्तथा।
पुष्पितैः करवीरैश्च पुंनागैश्च सुपुष्पितैः ॥ ३.७५.२३ ॥
ティラカ、ザクロ、バニヤン、白い花の木々、そして花咲くキョウチクトウやプンナーガの木で飾られていた。
3.75.24
मालतीकुन्दगुल्मैश्च भण्डीरैर्निचुलैस्तथा।
अशोकैः सप्तपर्णैश्च कतकैरतिमुक्तकैः ॥ ३.७५.२४ ॥
ジャスミン、クンダ、低木の花々に満ち、バンディーラ、ニチュラ、アショーカ、サプタパルナ、カタカ、アティムクタカの木々があった。
3.75.25
अन्यैश्च विविधैर्वृक्षैः प्रमदामिव शोभिताम्।
अस्यास्तीरे तु पूर्वोक्तः पर्वतो धातुमण्डितः ॥ ३.७५.२५ ॥
ほかの多様な木々に飾られ、湖は女性のように輝いていた。その岸には、先に述べた山が鉱物の彩りで飾られてそびえていた。
3.75.26
ऋष्यमूक इति ख्यातश्चित्रपुष्पितपादपः।
हरिर्ऋक्षरजोनाम्नः पुत्रस्तस्य महात्मनः ॥ ३.७५.२६ ॥
リシュヤムーカと呼ばれるその山は、色鮮やかに花咲く木々に満ちている。偉大な魂の持ち主リクシャラジャスの子、ハリのものである。
3.75.27
अध्यास्ते तु महावीर्यः सुग्रीव इति विश्रुतः।
सुग्रीवमभिगच्छ त्वं वानरेन्द्रं नरर्षभ ॥ ३.७५.२७ ॥
そこには大いなる勇力で名高い、猿の王スグリーヴァが住んでいる。人中の雄よ、猿の王スグリーヴァのもとへ行け。
3.75.28
इत्युवाच पुनर्वाक्यं लक्ष्मणं सत्यविक्रमः।
कथं मया विना सीतां शक्यं लक्ष्मण जीवितुम् ॥ ३.७५.२८ ॥
真の勇者ラーマは再びラクシュマナに言った。「ラクシュマナよ、私なしに、シーターなしにどうして生きていられようか。」
3.75.29
इत्येवमुक्त्वा मदनाभिपीडितः
स लक्ष्मणं वाक्यमनन्यचेतनः।
विवेश पम्पां नलिनीमनोरमां
तमुत्तमं शोकमुदीरयाणः ॥ ३.७५.२९ ॥
このように語ると、欲望に苦しめられた彼は、ひたすらシーターにのみ心を向け、大いなる悲嘆を表し、ラクシュマナにこれらの言葉を述べ、蓮の池に美しいパンパー湖へと入っていった。
3.75.30
क्रमेण गत्वा प्रविलोकयन् वनं
ददर्श पम्पां शुभदर्शकाननाम्।
अनेकनानाविधपक्षिसंकुलां
विवेश रामः सह लक्ष्मणेन ॥ ३.७५.३० ॥
一歩一歩進みながら森を見渡し、美しい景色の森に囲まれ、様々な種類の鳥たちに満ちたパンパーを見た。ラーマはラクシュマナとともにそこへ入った。