Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 3.8

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

3.8.1

रामस्तु सहसौमित्रिः सुतीक्ष्णेनाभिपूजितः।
परिणाम्य निशां तत्र प्रभाते प्रत्यबुध्यत ॥ ३.८.१ ॥

スタイクシュナに厚くもてなされたラーマは、サウミトリとともにそこで夜を過ごし、夜明けに目覚めた。

3.8.2

उत्थाय च यथाकालं राघवः सह सीतया।
उपस्पृश्य सुशीतेन तोयेनोत्पलगन्धिना ॥ ३.८.२ ॥

ラーガヴァは時刻どおりに起き、シーターとともに蓮の香りのする冷たい水で口を清めた。

3.8.3

अथ तेऽग्निं सुरांश्चैव वैदेही रामलक्ष्मणौ।
काल्यं विधिवदभ्यर्च्य तपस्विशरणे वने ॥ ३.८.३ ॥

それからヴァイデーヒー、ラーマ、ラクシュマナは、苦行者の庇護所であるその森で、夜明けに規定どおりアグニと神々を礼拝した。

3.8.4

उदयन्तं दिनकरं दृष्ट्वा विगतकल्मषाः।
सुतीक्ष्णमभिगम्येदं श्लक्ष्णं वचनमब्रुवन् ॥ ३.८.४ ॥

昇る太陽を見て、罪穢れを離れた彼らは、スタイクシュナのもとに近づき、この穏やかな言葉を述べた。

3.8.5

सुखोषिताः स्म भगवंस्त्वया पूज्येन पूजिताः।
आपृच्छामः प्रयास्यामो मुनयस्त्वरयन्ति नः ॥ ३.८.५ ॥

尊き方よ、尊敬すべきあなたによって、私たちはよく休まされ、もてなされました。今、いとまを請い、出発します。聖仙たちが私たちを急かしているのです。

3.8.6

त्वरामहे वयं द्रष्टुं कृत्स्नमाश्रममण्डलम्।
ऋषीणां पुण्यशीलानां दण्डकारण्यवासिनाम् ॥ ३.८.६ ॥

ダンダカの森に住む徳高き聖仙たちの、すべての庵の環を見に、私たちは急いでいます。

3.8.7

अभ्यनुज्ञातुमिच्छामः सहैभिर्मुनिपुंगवैः।
धर्मनित्यैस्तपोदान्तैर्विशिखैरिव पावकैः ॥ ३.८.७ ॥

法に常に専念し、苦行で自制し、矢や火のように輝くこれら最良の聖者たちに、私たちは別れを告げたいと思います。

3.8.8

अविषह्यातपो यावत् सूर्यो नातिविराजते।
अमार्गेणागतां लक्ष्मीं प्राप्येवान्वयवर्जितः ॥ ३.८.८ ॥

太陽の耐えがたい熱がまだ激しく輝かぬうちに出発しましょう。不正な道で来た富を得て、家系を失う者のように。

3.8.9

तावदिच्छामहे गन्तुमित्युक्त्वा चरणौ मुनेः।
ववन्दे सहसौमित्रिः सीतया सह राघवः ॥ ३.८.९ ॥

「今こそ出発したく存じます」と言って、ラーガヴァはサウミトリ、シーターと共に聖者の足に礼拝した。

3.8.10

तौ संस्पृशन्तौ चरणावुत्थाप्य मुनिपुंगवः।
गाढमाश्लिष्य सस्नेहमिदं वचनमब्रवीत् ॥ ३.८.१० ॥

二人が彼の足に触れると、最良の聖者は二人を起こし、強く抱擁し、愛情をこめてこの言葉を語った。

3.8.11

अरिष्टं गच्छ पन्थानं राम सौमित्रिणा सह।
सीतया चानया सार्धं छाययेवानुवृत्तया ॥ ३.८.११ ॥

ラーマよ、サウミトリと共に無事に道を行け。影のように付き従うこのシーターとも共に行け。

3.8.12

पश्याश्रमपदं रम्यं दण्डकारण्यवासिनाम्।
एषां तपस्विनां वीर तपसा भावितात्मनाम् ॥ ३.८.१२ ॥

勇士よ、ダンダカの森に住むこれら苦行者たちの美しい庵を見よ。苦行によって彼らの魂は浄められている。

3.8.13

सुप्राज्यफलमूलानि पुष्पितानि वनानि च।
प्रशस्तमृगयूथानि शान्तपक्षिगणानि च ॥ ३.८.१३ ॥

果実と根茎が豊かで花が咲き誇る森があり、優れた鹿の群れと静かな鳥の群れがいる。

3.8.14

फुल्लपङ्कजखण्डानि प्रसन्नसलिलानि च।
कारण्डवविकीर्णानि तटाकानि सरांसि च ॥ ३.८.१४ ॥

澄んだ水をたたえ、開いた蓮の群れがある池や湖があり、カーラṇḍava鴨が点在している。

3.8.15

द्रक्ष्यसे दृष्टिरम्याणि गिरिप्रस्रवणानि च।
रमणीयान्यरण्यानि मयूराभिरुतानि च ॥ ३.८.१५ ॥

目を楽しませる山の泉と、孔雀の鳴き声が響く美しい森を見るだろう。

3.8.16

गम्यतां वत्स सौमित्रे भवानपि च गच्छतु।
आगन्तव्यं च ते दृष्ट्वा पुनरेवाश्रमं प्रति ॥ ३.८.१६ ॥

行きなさい、愛しいサウミトリよ、彼も行きなさい。見終わったら、また庵へ戻ってくるように。

3.8.17

एवमुक्तस्तथेत्युक्त्वा काकुत्स्थः सहलक्ष्मणः।
प्रदक्षिणं मुनिं कृत्वा प्रस्थातुमुपचक्रमे ॥ ३.८.१७ ॥

そう言われたカークトゥストラの末裔ラーマは「そのようにしよう」と答え、ラクシュマナとともに聖者を右回りに巡ってから出発しようとした。

3.8.18

ततः शुभतरे तूणी धनुषी चायतेक्षणा।
ददौ सीता तयोर्भ्रात्रोः खड्गौ च विमलौ ततः ॥ ३.८.१८ ॥

それから長い眼のシーターは、その二人の兄弟に、このうえなく吉祥な二つの矢筒と二張の弓を与え、続いて二振りの清らかな剣を与えた。

3.8.19

आबध्य च शुभे तूणी चापे चादाय सस्वने।
निष्क्रान्तावाश्रमाद् गन्तुमुभौ तौ रामलक्ष्मणौ ॥ ३.८.१९ ॥

美しい二つの矢筒を結び、弓を取って弦を鳴らし、ラーマとラクシュマナの二人は隠者の庵を出て行った。

3.8.20

शीघ्रं तौ रूपसम्पन्नावनुज्ञातौ महर्षिणा।
प्रस्थितौ धृतचापासी सीतया सह राघवौ ॥ ३.८.२० ॥

偉大な聖仙の許しを得て、姿の美しい二人のラーghava(ラーマとラクシュマナ)は、弓と剣を手に、すぐにシーターと共に出発した。