Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 4.10

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.10.1

ततः क्रोधसमाविष्टं संरब्धं तमुपागतम्।
अहं प्रसादयांचक्रे भ्रातरं हितकाम्यया ॥ ४.१०.१ ॥

那时,他怒气填膺、愤然走近,我出于对他的善意,设法安抚了那位兄长。

4.10.2

दिष्ट्यासि कुशली प्राप्तो निहतश्च त्वया रिपुः।
अनाथस्य हि मे नाथस्त्वमेकोऽनाथनन्दन ॥ ४.१०.२ ॥

幸运的是,你平安归来,并且亲手杀死了敌人。对于我这个无依无靠的人,你独自就是我的庇护者,啊,无依者的欢喜。

4.10.3

इदं बहुशलाकं ते पूर्णचन्द्रमिवोदितम्।
छत्रं सवालव्यजनं प्रतीच्छस्व मया धृतम् ॥ ४.१०.३ ॥

这把有许多伞骨的伞,如满月升起,连同我所持的牦牛尾拂尘,请你接受。

4.10.4

आर्तस्तत्र बिलद्वारि स्थितः संवत्सरं नृप।
दृष्ट्वा च शोणितं द्वारि बिलाच्चापि समुत्थितम् ॥ ४.१०.४ ॥

国王啊,我悲痛地在洞口站立了整整一年;看见洞口甚至从洞中涌出的鲜血——

4.10.5

शोकसंविग्नहृदयो भृशं व्याकुलितेन्द्रियः।
अपिधाय बिलद्वारं शैलशृङ्गेण तत् तदा ॥ ४.१०.५ ॥

我心中因悲痛而震动,感官极为慌乱,于是用一座山峰将那洞口封住——

4.10.6

तस्माद् देशादपाक्रम्य किष्किन्धां प्राविशं पुनः।
विषादात्त्विह मां दृष्ट्वा पौरैर्मन्त्रिभिरेव च ॥ ४.१०.६ ॥

我离开那个地方,重新进入了基什根达;看到我在这里悲伤的样子,城中的百姓和大臣们也——

4.10.7

अभिषिक्तो न कामेन तन्मे क्षन्तुं त्वमर्हसि।
त्वमेव राजा मानार्हः सदा चाहं यथा पुरा ॥ ४.१०.७ ॥

我并非出于贪欲而被立为王;你应当原谅我。你才是值得尊敬的国王,而我将永远如从前一样。

4.10.8

राजभावे नियोगोऽयं मम त्वद्विरहात् कृतः।
सामात्यपौरनगरं स्थितं निहतकण्टकम् ॥ ४.१०.८ ॥

我因与你分离而受命执掌王位。与大臣和百姓一起,此城得以守护,荆棘已被除尽。

4.10.9

न्यासभूतमिदं राज्यं तव निर्यातयाम्यहम्।
मा च रोषं कृथाः सौम्य मम शत्रुनिषूदन ॥ ४.१०.९ ॥

这王国是托付给我的寄存之物;我将它归还于你。温和的人啊,灭敌者,请不要对我发怒。

4.10.10

याचे त्वां शिरसा राजन् मया बद्धोऽयमञ्जलिः।
बलादस्मिन् समागम्य मन्त्रिभिः पुरवासिभिः ॥ ४.१०.१० ॥

国王啊,我低头恳求你;这双合十的手是我的。大臣和城中百姓,在此强行聚集,立我为王。

4.10.11

राजभावे नियुक्तोऽहं शून्यदेशजिगीषया।
स्निग्धमेवं ब्रुवाणं मां स विनिर्भर्त्स्य वानरः ॥ ४.१०.११ ॥

我因想征服空无之地而被任命为王。我如此温和地说话时,那只猴子斥责了我。

4.10.12

धिक्त्वामिति च मामुक्त्वा बहु तत्तदुवाच ह।
प्रकृतीश्च समानीय मन्त्रिणश्चैव सम्मतान् ॥ ४.१०.१२ ॥

他说“你真可耻!”,对我说了许多话。随后,召集百姓和受尊敬的大臣,他又说道。

4.10.13

मामाह सुहृदां मध्ये वाक्यं परमगर्हितम्।
विदितं वो मया रात्रौ मायावी स महासुरः ॥ ४.१०.१३ ॥

他在朋友们面前对我说了极其可耻的话。你们已知道,那位夜间的幻术大阿修罗之事,正如我所说。

4.10.14

मां समाह्वयत क्रुद्धो युद्धाकांक्षी तदा पुरा।
तस्य तद् भाषितं श्रुत्वा निःसृतोऽहं नृपालयात् ॥ ४.१०.१४ ॥

他愤怒而渴望战斗,从前便已向我挑战。我听了他的那些话,便从王宫中走了出来。

4.10.15

अनुयातश्च मां तूर्णमयं भ्राता सुदारुणः।
स तु दृष्ट्वैव मां रात्रौ सद्वितीयं महाबलः ॥ ४.१०.१५ ॥

这位极其凶猛的兄弟迅速地追赶我。而那位大力者在夜里一见到我,便与一名同伴……

4.10.16

प्राद्रवद् भयसंत्रस्तो वीक्ष्यावां समुपागतौ।
अभिद्रुतस्तु वेगेन विवेश स महाबिलम् ॥ ४.१०.१६ ॥

他看见我们二人走近,吓得惊慌逃跑。被急速追赶的他进入了那座大山洞。

4.10.17

तं प्रविष्टं विदित्वा तु सुघोरं सुमहद्बिलम्।
अयमुक्तोऽथ मे भ्राता मया तु क्रूरदर्शनः ॥ ४.१०.१७ ॥

得知他已进入那座极其可怖的巨大山洞,我便对这位面目凶恶的兄弟说道。

4.10.18

अहत्वा नास्ति मे शक्तिः प्रतिगन्तुमितः पुरीम्।
बिलद्वारि प्रतीक्ष त्वं यावदेनं निहन्म्यहम् ॥ ४.१०.१८ ॥

不杀他,我没有力量从此处返回城中。你在洞口等候,直到我杀了他。

4.10.19

स्थितोऽयमिति मत्वाहं प्रविष्टस्तु दुरासदम्।
तं मे मार्गयतस्तत्र गतः संवत्सरस्तदा ॥ ४.१०.१९ ॥

我以为他就站在这里,便进入了那难以到达的洞穴。在那里寻找他时,一年过去了。

4.10.20

स तु दृष्टो मया शत्रुरनिर्वेदाद् भयावहः।
निहतश्च मया सद्यः स सर्वैः सह बन्धुभिः ॥ ४.१०.२० ॥

然而我毫不疲倦地看见了那可怖的敌人,立即连同他所有的亲属将他杀死。

4.10.21

तस्यास्यात्तु प्रवृत्तेन रुधिरौघेण तद्बिलम्।
पूर्णमासीद् दुराक्रामं स्तनतस्तस्य भूतले ॥ ४.१०.२१ ॥

从他口中涌出的血流充满了那洞穴,使它难以穿越,而他在地上咆哮着。

4.10.22

सूदयित्वा तु तं शत्रुं विक्रान्तं तमहं सुखम्।
निष्क्रामं नैव पश्यामि बिलस्य पिहितं मुखम् ॥ ४.१०.२२ ॥

杀死那勇猛的敌人之后,我仍看不到轻松走出的路;洞口已被封住。

4.10.23

विक्रोशमानस्य तु मे सुग्रीवेति पुनः पुनः।
यतः प्रतिवचो नास्ति ततोऽहं भृशदुःखितः ॥ ४.१०.२३ ॥

我一遍又一遍地呼喊「须羯哩婆!」却得不到回应,因此我深感悲痛。

4.10.24

पादप्रहारैस्तु मया बहुभिः परिपातितम्।
ततोऽहं तेन निष्क्रम्य पथा पुरमुपागतः ॥ ४.१०.२४ ॥

于是我用脚多次踢击,将(洞口)踢倒;然后从那条路走出,回到了城中。

4.10.25

तत्रानेनास्मि संरुद्धो राज्यं मृगयताऽऽत्मनः।
सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृसौहृदम् ॥ ४.१०.२५ ॥

他在那里把我囚禁,为自己谋求王国。残忍的须羯里婆忘记了兄弟之情,才这样做。

4.10.26

एवमुक्त्वा तु मां तत्र वस्त्रेणैकेन वानरः।
तदा निर्वासयामास वाली विगतसाध्वसः ॥ ४.१०.२६ ॥

他说完这话,那猴子便只用一块布把我赶了出去。跋利毫无畏惧。

4.10.27

तेनाहमपविद्धश्च हृतदारश्च राघव।
तद्भयाच्च महीं सर्वां क्रान्तवान् सवनार्णवाम् ॥ ४.१०.२७ ॥

他驱逐了我,又夺走了我的妻子,罗怙婆啊。出于对他的畏惧,我漂泊于整个大地与海洋之间。

4.10.28

ऋष्यमूकं गिरिवरं भार्याहरणदुःखितः।
प्रविष्टोऽस्मि दुराधर्षं वालिनः कारणान्तरे ॥ ४.१०.२८ ॥

因妻子被劫而悲痛,我进入了殊胜的山岳——须那牟迦山,那里是跋利无法靠近的,因另一原因。

4.10.29

एतत्ते सर्वमाख्यातं वैरानुकथनं महत्।
अनागसा मया प्राप्तं व्यसनं पश्य राघव ॥ ४.१०.२९ ॥

这一切我都已告诉您,这是那段深重的仇怨始末。我本无辜,却遭此灾祸;请看,罗怙婆啊。

4.10.30

वालिनश्च भयात् तस्य सर्वलोकभयापह।
कर्तुमर्हसि मे वीर प्रसादं तस्य निग्रहात् ॥ ४.१०.३० ॥

请从跋利及其威胁中救我;消除一切世界恐惧的英雄啊,请您以降伏他来赐我恩惠。

4.10.31

एवमुक्तः स तेजस्वी धर्मज्ञो धर्मसंहितम्।
वचनं वक्तुमारेभे सुग्रीवं प्रहसन्निव ॥ ४.१०.३१ ॥

被如此称呼后,光辉的、通晓法(dharma)的罗摩微笑着开始对须羯哩婆说出合乎法则的话。

4.10.32

अमोघाः सूर्यसंकाशा निशिता मे शरा इमे।
तस्मिन् वालिनि दुर्वृत्ते पतिष्यन्ति रुषान्विताः ॥ ४.१०.३२ ॥

我这些如太阳般闪耀、锋利而百发百中的箭矢,怀着愤怒,将落在那作恶的婆利身上。

4.10.33

यावत् तं नहि पश्येयं तव भार्यापहारिणम्।
तावत् स जीवेत् पापात्मा वाली चारित्रदूषकः ॥ ४.१०.३३ ॥

只要我还没有见到那劫走你妻子的人,那罪恶的、败坏品行的婆利就可以活着。

4.10.34

आत्मानुमानात् पश्यामि मग्नस्त्वं शोकसागरे।
त्वामहं तारयिष्यामि बाढं प्राप्स्यसि पुष्कलम् ॥ ४.१०.३४ ॥

从我自己的经历我看出,你沉溺于忧愁的海洋之中。我将救你出来,你必定会获得丰厚的回报。

4.10.35

तस्य तद् वचनं श्रुत्वा हर्षपौरुषवर्धनम्।
सुग्रीवः परमप्रीतः सुमहद्वाक्यमब्रवीत् ॥ ४.१०.३५ ॥

须羯哩婆听了他那增长喜悦与勇气的话,极为欢喜,于是说出了这番重要的话。