Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 4.13

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.13.1

ऋष्यमूकात् स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः।
जगाम सह सुग्रीवो वालिविक्रमपालिताम् ॥ ४.१३.१ ॥

正直的罗什曼那之兄(罗摩)与须羯哩婆一同从仙人山出发,前往由婆梨的勇力守护的金刚城。

4.13.2

समुद्यम्य महच्चापं रामः काञ्चनभूषितम्।
शरांश्चादित्यसंकाशान् गृहीत्वा रणसाधकान् ॥ ४.१३.२ ॥

罗摩举起他那镶金的大弓,取了光如太阳、能在战场上取胜的箭。

4.13.3

अग्रतस्तु ययौ तस्य राघवस्य महात्मनः।
सुग्रीवः संहतग्रीवो लक्ष्मणश्च महाबलः ॥ ४.१३.३ ॥

在那位大德的罗ghava之前行走的是颈项粗壮的须羯哩婆,还有大力的罗什曼那。

4.13.4

पृष्ठतो हनुमान् वीरो नलो नीलश्च वीर्यवान्।
तारश्चैव महातेजा हरियूथपयूथपः ॥ ४.१३.४ ॥

后面有英雄哈努曼、那罗、勇武的尼罗,以及大光辉的多罗——猴群统领中的统领。

4.13.5

ते वीक्षमाणा वृक्षांश्च पुष्पभारावलम्बिनः।
प्रसन्नाम्बुवहाश्चैव सरितः सागरंगमाः ॥ ४.१३.५ ॥

他们一路观看那些因花朵重压而低垂的树木,以及携带清澈河水奔向大海的河流。

4.13.6

कन्दराणि च शैलांश्च निर्दराणि गुहास्तथा।
शिखराणि च मुख्यानि दरीश्च प्रियदर्शनाः ॥ ४.१३.६ ॥

山洞与群山、深谷与洞穴、主要的峰顶,以及令人悦目的幽谷。

4.13.7

वैदूर्यविमलैस्तोयैः पद्मैश्चाकोशकुड्मलैः।
शोभितान् सजलान् मार्गे तटाकांश्चावलोकयन् ॥ ४.१३.७ ॥

沿途观望那些水波清澈如琉璃、开着莲花与含苞莲蕾的水池。

4.13.8

कारण्डैः सारसैर्हंसैर्वञ्जुलैर्जलकुक्कुटैः।
चक्रवाकैस्तथा चान्यैः शकुनैः प्रतिनादितान् ॥ ४.१३.८ ॥

回荡着笈陀鸭、鹤、天鹅、王遮罗鸟、水鸡、遮迦罗婆鸭及其他鸟类的鸣叫之声。

4.13.9

मृदुशष्पाङ्कुराहारान्निर्भयान् वनगोचरान्।
चरतः सर्वतः पश्यन् स्थलीषु हरिणान् स्थितान् ॥ ४.१३.९ ॥

四处观望那些以柔嫩草芽为食、无所畏惧、在林中游走、正在吃草并立于平地上的鹿群。

4.13.10

तटाकवैरिणश्चापि शुक्लदन्तविभूषितान्।
घोरानेकचरान् वन्यान् द्विरदान् कूलघातिनः ॥ ४.१३.१० ॥

还有那些摧毁湖岸、与池塘为敌、以白牙装饰、凶猛、独行的野象。

4.13.11

मत्तान् गिरितटोत्कृष्टान् पर्वतानिव जङ्गमान्।
वानरान् द्विरदप्रख्यान् महीरेणुसमुक्षितान् ॥ ४.१३.११ ॥

那些狂躁、立于山坡之上、如同行走之山、形似大象、身披尘土的猴子。

4.13.12

वने वनचरांश्चान्यान् खेचरांश्च विहंगमान्।
पश्यन्तस्त्वरिता जग्मुः सुग्रीववशवर्तिनः ॥ ४.१३.१२ ॥

他们观望林中的其他栖居者和空中飞翔的鸟类,服从须羯哩婆之命的众人急速前行。

4.13.13

तेषां तु गच्छतां तत्र त्वरितं रघुनन्दनः।
द्रुमषण्डवनं दृष्ट्वा रामः सुग्रीवमब्रवीत् ॥ ४.१३.१३ ॥

当他们快速前行时,罗怙之子的喜悦者罗摩看见树林,便对须羯哩婆说道。

4.13.14

एष मेघ इवाकाशे वृक्षषण्डः प्रकाशते।
मेघसंघातविपुलः पर्यन्तकदलीवृतः ॥ ४.१३.१४ ॥

看那树林在天空中闪耀,如同一片云,广大如云团,边缘环绕着芭蕉树。

4.13.15

किमेतज्ज्ञातुमिच्छामि सखे कौतूहलं मम।
कौतूहलापनयनं कर्तुमिच्छाम्यहं त्वया ॥ ४.१३.१५ ॥

朋友,我想知道这是什么,希望你能消除我的好奇。

4.13.16

तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः।
गच्छन् नेवाचचक्षेऽथ सुग्रीवस्तन्महद् वनम् ॥ ४.१३.१६ ॥

听了伟大的罗伽婆的这番话,须羯哩婆一边行走,一边讲述了那片大森林。

4.13.17

एतद् राघव विस्तीर्णमाश्रमं श्रमनाशनम्।
उद्यानवनसम्पन्नं स्वादुमूलफलोदकम् ॥ ४.१३.१७ ॥

罗伽婆啊,这片广阔的净修林能消除疲劳,园林与树丛丰饶,有甘甜的根茎、果实与清水。

4.13.18

अत्र सप्तजना नाम मुनयः संशितव्रताः।
सप्तैवासन्नधःशीर्षा नियतं जलशायिनः ॥ ४.१३.१८ ॥

这里有名叫七人的苦行仙人,持守严格誓愿;七人都头朝下,常年睡在水中。

4.13.19

सप्तरात्रे कृताहारा वायुनाचलवासिनः।
दिवं वर्षशतैर्याताः सप्तभिः सकलेवराः ॥ ४.१३.१९ ॥

他们每七夜进食一次,以风为生,居住在山中,历经七百年后,保全身体升往天界。

4.13.20

तेषामेतत्प्रभावेण द्रुमप्राकारसंवृतम्।
आश्रमं सुदुराधर्षमपि सेन्द्रैः सुरासुरैः ॥ ४.१३.२० ॥

凭借他们的威力,这座被树木围墙环绕的净修林,即便是因陀罗率领的天神与阿修罗也难以攻破。

4.13.21

पक्षिणो वर्जयन्त्येतत् तथान्ये वनचारिणः।
विशन्ति मोहाद् येऽप्यत्र न निवर्तन्ति ते पुनः ॥ ४.१३.२१ ॥

飞鸟避开此地,林中其他游荡的生灵也是如此;凡因迷惑而进入此地的人,再也不会返回。

4.13.22

विभूषणरवाश्चात्र श्रूयन्ते सकलाक्षराः।
तूर्यगीतस्वनश्चापि गन्धो दिव्यश्च राघव ॥ ४.१३.२२ ॥

此处可闻装饰的鸣响与字句清晰的歌声,还有乐器与歌唱之声;啊,罗怙之子,还有神妙的香气。

4.13.23

त्रेताग्नयोऽपि दीप्यन्ते धूमो ह्येष प्रदृश्यते।
वेष्टयन्निव वृक्षाग्रान् कपोताङ्गारुणो घनः ॥ ४.१३.२३ ॥

三圣火也在燃烧;你看,这浓烟仿佛缠绕着树梢,浓密而红如鸽子的余烬。

4.13.24

एते वृक्षाः प्रकाशन्ते धूमसंसक्तमस्तकाः।
मेघजालप्रतिच्छन्ना वैडूर्यगिरयो यथा ॥ ४.१३.२४ ॥

这些树木顶端缠绕着烟雾,闪耀光辉,如同被云网遮蔽的琉璃山。

4.13.25

कुरु प्रणामं धर्मात्मंस्तेषामुद्दिश्य राघव।
लक्ष्मणेन सह भ्रात्रा प्रयतः संहताञ्जलिः ॥ ४.१३.२५ ॥

正直之心的罗怙后裔啊,与兄弟罗什曼那一同,恭敬合掌,向他们致礼。

4.13.26

प्रणमन्ति हि ये तेषामृषीणां भावितात्मनाम्।
न तेषामशुभं किंचिच्छरीरे राम विद्यते ॥ ४.१३.२६ ॥

凡向心灵清净的仙人致礼者,罗摩啊,其身中再无任何不祥。

4.13.27

ततो रामः सह भ्रात्रा लक्ष्मणेन कृताञ्जलिः।
समुद्दिश्य महात्मानस्तानृषीनभ्यवादयत् ॥ ४.१३.२७ ॥

于是罗摩与兄弟罗什曼那合掌,向那些大德仙人致敬问候。

4.13.28

अभिवाद्य च धर्मात्मा रामो भ्राता च लक्ष्मणः।
सुग्रीवो वानराश्चैव जम्मुः संहृष्टमानसाः ॥ ४.१३.२८ ॥

行礼之后,正直的罗摩、兄弟罗什曼那、须羯哩婆与诸猴,怀着欢喜的心离去了。

4.13.29

ते गत्वा दूरमध्वानं तस्मात् सप्तजनाश्रमात्।
ददृशुस्तां दुराधर्षां किष्किन्धां वालिपालिताम् ॥ ४.१३.२९ ॥

他们离开七仙人的静修林,走了很远的路,看见了难以攻克、由婆林守护的吉吉因陀。

4.13.30

ततस्तु रामानुजरामवानराः
प्रगृह्य शस्त्राण्युदितोग्रतेजसः।
पुरीं सुरेशात्मजवीर्यपालितां
वधाय शत्रोः पुनरागतास्त्विह ॥ ४.१३.३० ॥

于是罗摩、其幼弟罗什曼那与诸猴,执起兵器,光芒凌厉,再次来到此地,欲诛杀敌人,那城池正由天主之子的勇力守护。