Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 4.14

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

4.14.1

सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम्।
वृक्षैरात्मानमावृत्य व्यतिष्ठन् गहने वने ॥ ४.१४.१ ॥

彼らは速やかにヴァーリンの都キシュキンダーへ行き、木々に身を隠して深い森の中に立った。

4.14.2

विसार्य सर्वतो दृष्टिं कानने काननप्रियः।
सुग्रीवो विपुलग्रीवः क्रोधमाहारयद् भृशम् ॥ ४.१४.२ ॥

森を愛する、首の広いスグリーヴァは四方に視線を走らせ、激しい怒りを募らせた。

4.14.3

ततस्तु निनदं घोरं कृत्वा युद्धाय चाह्वयत्।
परिवारैः परिवृतो नादैर्भिन्दन्निवाम्बरम् ॥ ४.१४.३ ॥

そして恐ろしい咆哮を上げ、戦いを挑んだ。従者に囲まれ、その叫びは空を切り裂くかのようであった。

4.14.4

गर्जन्निव महामेघो वायुवेगपुरःसरः।
अथ बालार्कसदृशो दृप्तसिंहगतिस्ततः ॥ ४.१४.४ ॥

風の速さに先導された大雲のように吼え、やがて昇る太陽のように、誇り高い獅子の歩みで進み出た。

4.14.5

दृष्ट्वा रामं क्रियादक्षं सुग्रीवो वाक्यमब्रवीत्।
हरिवागुरया व्याप्तां तप्तकाञ्चनतोरणाम् ॥ ४.१४.५ ॥

行動に長けたラーマを見て、スグリーヴァはこれらの言葉を述べた。

4.14.6

प्राप्ताः स्म ध्वजयन्त्राढ्यां किष्किन्धां वालिनः पुरीम्।
प्रतिज्ञा या कृता वीर त्वया वालिवधे पुरा ॥ ४.१४.६ ॥

勇士よ、我々は旗と仕掛けに満ちたヴァーリンの都キシュキンダーに着いた。ヴァーリンを殺すことについて、あなたが以前立てた誓いはこれである。

4.14.7

सफलां कुरु तां क्षिप्रं लतां काल इवागतः।
एवमुक्तस्तु धर्मात्मा सुग्रीवेण स राघवः ॥ ४.१४.७ ॥

「時が来た蔓を実らせるように、速やかにそれを果たせ。」スグリーヴァにこう言われて、法の心を持つそのラーガヴァは(答えた)。

4.14.8

तमेवोवाच वचनं सुग्रीवं शत्रुसूदनः।
कृताभिज्ञानचिह्नस्त्वमनया गजसाह्वया ॥ ४.१४.८ ॥

敵を滅ぼす者はスグリーヴァにこの言葉を言った。「この『ガジャサーヴャ』という蔓によって、お前は識別の印として定められた。

4.14.9

लक्ष्मणेन समुत्पाट्य एषा कण्ठे कृता तव।
शोभसेऽप्यधिकं वीर लतया कण्ठसक्तया ॥ ४.१४.९ ॥

ラクシュマナはこれを引き抜いて、お前の首にかけた。勇士よ、首に絡みついたこの蔓によって、お前はいっそう輝いている。

4.14.10

विपरीत इवाकाशे सूर्यो नक्षत्रमालया।
अद्य वालिसमुत्थं ते भयं वैरं च वानर ॥ ४.१४.१० ॥

空に星の花輪をまとった太陽が場違いに見えるように、お前は(映る)。猿よ、今日、ヴァーリンから生じたお前の恐れと敵意は終わるだろう。

4.14.11

एकेनाहं प्रमोक्ष्यामि बाणमोक्षेण संयुगे।
मम दर्शय सुग्रीव वैरिणं भ्रातृरूपिणम् ॥ ४.१४.११ ॥

戦いで私は一本の矢を放って、それを終わらせよう。スグリーヴァよ、兄の姿をとったあの敵を私に示せ。

4.14.12

वाली विनिहतो यावद्वने पांसुषु चेष्टते।
यदि दृष्टिपथं प्राप्तो जीवन् स विनिवर्तते ॥ ४.१४.१२ ॥

ヴァーリンは殺されても、森の塵の中でのたうち回っているかぎり、もし視界に入れば、生きて戻ってくるだろう。

4.14.13

ततो दोषेण मागच्छेत् सद्यो गर्हेच्च मां भवान्।
प्रत्यक्षं सप्त ते साला मया बाणेन दारिताः ॥ ४.१४.१३ ॥

ならば彼は咎のゆえに来るがよい。あなたはすぐに私を責めてもよい。あなたの目の前で、私は矢でそれら七本のサーラ樹を射抜いたのだ。

4.14.14

तेनावेहि बलेनाद्य वालिनं निहतं रणे।
अनृतं नोक्तपूर्वं मे चिरं कृच्छ्रेऽपि तिष्ठता ॥ ४.१४.१४ ॥

その同じ力によって、今日ヴァーリンは戦場で討たれたと知れ。長く苦難の中にあっても、私は以前一度も偽りを語ったことはない。

4.14.15

धर्मलोभपरीतेन न च वक्ष्ये कथंचन।
सफलां च करिष्यामि प्रतिज्ञां जहि संभ्रमम् ॥ ४.१४.१५ ॥

法への渇望に捉われた私は、決して(偽りを)語らない。私の誓いを成就させよう。動揺を捨てよ。

4.14.16

प्रसूतं कलमक्षेत्रं वर्षेणेव शतक्रतुः।
तदाह्वाननिमित्तं च वालिनो हेममालिनः ॥ ४.१४.१६ ॥

シャタクラトゥ(インドラ)が雨で カラマ稲の田を育てるように、金の花輪をまとうヴァーリへの挑戦のため、彼はそれを行った。

4.14.17

सुग्रीव कुरु तं शब्दं निष्पतेद् येन वानरः।
जितकाशी जयश्लाघी त्वया चाधर्षितः पुरात् ॥ ४.१४.१७ ॥

スグリーヴァよ、あの音を立てよ。それによってあの猿が出てくるように。自らを勝者と思い勝利を誇る者、そして汝が城から侮辱したあの者が。

4.14.18

निष्पतिष्यत्यसङ्गेन वाली स प्रियसंयुगः।
रिपूणां धर्षितं श्रुत्वा मर्षयन्ति न संयुगे ॥ ४.१४.१८ ॥

戦いを好むあのヴァーリは、ためらうことなく出てくるだろう。敵からの侮辱を聞けば、戦士たちは戦いにおいてそれを耐え忍ばないのだから。

4.14.19

जानन्तस्तु स्वकं वीर्यं स्त्रीसमक्षं विशेषतः।
स तु रामवचः श्रुत्वा सुग्रीवो हेमपिङ्गलः ॥ ४.१४.१९ ॥

自らの勇気を知る者として、特に女性たちの前で、黄金色のスグリーヴァは、ラーマの言葉を聞いて(怒りに燃えた)。

4.14.20

ननर्द क्रूरनादेन विनिर्भिन्दन्निवाम्बरम्।
तत्र शब्देन वित्रस्ता गावो यान्ति हतप्रभाः ॥ ४.१४.२० ॥

恐ろしい咆哮で、天空を引き裂くかのように吠えた。その音に怯えた牛たちは、輝きを失って逃げ去った。

4.14.21

राजदोषपरामृष्टाः कुलस्त्रिय इवाकुलाः।
द्रवन्ति च मृगाः शीघ्रं भग्ना इव रणे हयाः।
पतन्ति च खगा भूमौ क्षीणपुण्या इव ग्रहाः ॥ ४.१४.२१ ॥

王の過失に苦しむ良家の婦人のように怯えて、鹿は素早く逃げ、戦場で打ち砕かれた馬のように駆けた。功徳の尽きた星々のように、鳥たちは地に落ちた。

4.14.22

ततः स जीमूतकृतप्रणादो
नादं ह्यमुञ्चत् त्वरया प्रतीतः।
सूर्यात्मजः शौर्यविवृद्धतेजाः
सरित्पतिर्वाऽनिलचञ्चलोर्मिः ॥ ४.१४.२२ ॥

そこで、雷雲のような咆哮をもつ太陽の子は、勇気によって輝きを増し、喜んで素早く咆哮を放った。風に揺れる波を持つ河の主(大海)のように。