ヴァールミーキのラーマーヤナ · サルガ 4.20
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.20.1
रामचापविसृष्टेन शरेणान्तकरेण तम्।
दृष्ट्वा विनिहतं भूमौ तारा ताराधिपानना ॥ ४.२०.१ ॥
ラーマの弓から放たれた死を呼ぶ矢に打たれ大地に倒れたのを見た、月のような顔のターラーは、
4.20.2
सा समासाद्य भर्तारं पर्यष्वजत भामिनी।
इषुणाभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम् ॥ ४.२०.२ ॥
その美しい女性は夫のもとに近づき抱きしめた。矢に射られた象のようなヴァーリンを見て、
4.20.3
वानरं पर्वतेन्द्राभं शोकसंतप्तमानसा।
तारा तरुमिवोन्मूलं पर्यदेवयतातुरा ॥ ४.२०.३ ॥
山のような猿王のために、悲しみに心を苛まれたターラーは、根こそぎ倒された木のように苦しみ嘆いた。
4.20.4
रणे दारुणविक्रान्त प्रवीर प्लवतां वर।
किमिदानीं पुरोभागामद्य त्वं नाभिभाषसे ॥ ४.२०.४ ॥
戦場で恐るべき勇猛を示す者よ、英雄の中の英雄、跳躍する者の中の最上の者よ!今こうして私の前にいるのに、なぜ今日は私に語りかけないのか。
4.20.5
उत्तिष्ठ हरिशार्दूल भजस्व शयनोत्तमम्।
नैवंविधाः शेरते हि भूमौ नृपतिसत्तमाः ॥ ४.२०.५ ॥
立ちなさい、猿の中の虎よ。最上の寝台に身を横たえなさい。このような最高の王たちが地に横たわることはない。
4.20.6
अतीव खलु ते कान्ता वसुधा वसुधाधिप।
गतासुरपि तां गात्रैर्मां विहाय निषेवसे ॥ ४.२०.६ ॥
大地の主よ、まことにこの大地はあなたにとって大切なものなのですね。命は去ったのに、その身体で彼女を抱き、私を捨てて、あなたは彼女に寄り添っている。
4.20.7
व्यक्तमद्य त्वया वीर धर्मतः सम्प्रवर्तता।
किष्किन्धेव पुरी रम्या स्वर्गमार्गे विनिर्मिता ॥ ४.२०.७ ॥
勇士よ、今ようやく明らかです。あなたは法に従って統治し、キシュキンダーを天界への道に築かれた美しい都のようにされたのです。
4.20.8
यान्यस्माभिस्त्वया सार्धं वनेषु मधुगन्धिषु।
विहृतानि त्वया काले तेषामुपरमः कृतः ॥ ४.२०.८ ॥
蜜の香る森で私たちがあなたと共に楽しんだ日々を、時が来ると、あなたはすべて終わらせてしまった。
4.20.9
निरानन्दा निराशाहं निमग्ना शोकसागरे।
त्वयि पञ्चत्वमापन्ने महायूथपयूथपे ॥ ४.२०.९ ॥
偉大な群れの長の長よ!あなたが五大へと帰してから、私は喜びも希望もなく、悲しみの海に沈んでいる。
4.20.10
हृदयं सुस्थितं मह्यं दृष्ट्वा निपतितं भुवि।
यन्न शोकाभिसंतप्तं स्फुटतेऽद्य सहस्रधा ॥ ४.२०.१० ॥
あなたが地に倒れているのを見ても、悲しみに焼かれた私の心は今日、千々に砕けなかった。それこそが不思議です。
4.20.11
सुग्रीवस्य त्वया भार्या हृता स च विवासितः।
यत् तत् तस्य त्वया व्युष्टिः प्राप्तेयं प्लवगाधिप ॥ ४.२०.११ ॥
猿の王よ!あなたはスグリーヴァの妻を奪い、彼を追放しました。その報いが今あなたに及んだのです。
4.20.12
निःश्रेयसपरा मोहात् त्वया चाहं विगर्हिता।
यैषाब्रुवं हितं वाक्यं वानरेन्द्र हितैषिणी ॥ ४.२०.१२ ॥
猿の王よ!私はあなたの最高の幸福を願い、あなたのために有益な言葉を述べました。それなのにあなたは迷いから私を責めたのです。
4.20.13
रूपयौवनदृप्तानां दक्षिणानां च मानद।
नूनमप्सरसामार्य चित्तानि प्रमथिष्यसि ॥ ४.२०.१३ ॥
名誉を与える人よ、美貌と若さに誇る巧みなアプサラスたちの心を、あなたはきっとかき乱すことでしょう。
4.20.14
कालो निःसंशयो नूनं जीवितान्तकरस्तव।
बलाद् येनावपन्नोऽसि सुग्रीवस्यावशो वशम् ॥ ४.२०.१४ ॥
疑いなく、あなたの命を終わらせる時が来たのです。あなたは力ずくで、無力となってスグリーヴァの支配下に陥ったのですから。
4.20.15
अस्थाने वालिनं हत्वा युध्यमानं परेण च।
न संतप्यति काकुत्स्थः कृत्वा कर्मसुगर्हितम् ॥ ४.२०.१५ ॥
敵と戦っていたヴァーリンを理由もなく殺しても、カークツトゥスタ(ラーマ)は悔いることがない。この行為は極めて非難されるべきものなのに。
4.20.16
वैधव्यं शोकसंतापं कृपणाकृपणा सती।
अदुःखोपचिता पूर्वं वर्तयिष्याम्यनाथवत् ॥ ४.२०.१६ ॥
寡婦となった悲しみと苦悩のなかで、かつて苦しみを知らなかった貞淑な妻である私は、哀れに、庇護者のない者のように生きることになるでしょう。
4.20.17
लालितश्चाङ्गदो वीरः सुकुमारः सुखोचितः।
वत्स्यते कामवस्थां मे पितृव्ये क्रोधमूर्च्छिते ॥ ४.२०.१७ ॥
甘やかされ、繊細で安楽に慣れた勇士アンガダは、怒りに我を失った父方の叔父のもとで、従属の身として暮らすことになるでしょう。
4.20.18
कुरुष्व पितरं पुत्र सुदृष्टं धर्मवत्सलम्।
दुर्लभं दर्शनं तस्य तव वत्स भविष्यति ॥ ४.२०.१८ ॥
息子よ、法を愛し、姿の美しい父上をよく見ておきなさい。愛しい子よ、これからはその姿を拝むことは稀になるでしょう。
4.20.19
समाश्वासय पुत्रं त्वं संदेशं संदिशस्व मे।
मूर्ध्न्नि चैनं समाघ्राय प्रवासं प्रस्थितो ह्यसि ॥ ४.२०.१९ ॥
息子を慰め、私に伝言を告げなさい。彼の頭に口づけをして、あなたは旅に出ようとしている。
4.20.20
रामेण हि महत् कर्म कृतं त्वामभिनिघ्नता।
आनृण्यं तु गतं तस्य सुग्रीवस्य प्रतिश्रवे ॥ ४.२०.२० ॥
ラーマはあなたを討って大いなる功績を成し遂げた。スグリーヴァは約束の負い目から解放された。
4.20.21
सकामो भव सुग्रीव रुमां त्वं प्रतिपत्स्यसे।
भुङ्क्ष्व राज्यमनुद्विग्नः शस्तो भ्राता रिपुस्तव ॥ ४.२०.२१ ॥
スグリーヴァよ、願いは叶った。ルマーを取り戻すだろう。お前の敵である兄は殺された。憂いなく王国を享受せよ。
4.20.22
किं मामेवं प्रलपतीं प्रियां त्वं नाभिभाषसे।
इमाः पश्य वरा बाह्व्यो भार्यास्ते वानरेश्वर ॥ ४.२०.२२ ॥
愛しい私がこのように嘆いているのに、なぜ語りかけてくれないのか。見よ、あなたの優れた腕のようなこれらの妻たちを、猿王よ。
4.20.23
तस्या विलपितं श्रुत्वा वानर्यः सर्वतश्च ताः।
परिगृह्याङ्गदं दीना दुःखार्ताः प्रतिचुक्रुशुः ॥ ४.२०.२३ ॥
彼女の嘆きを聞いて、四方の雌猿たちはアンガダを抱きかかえ、悲しみに苦しみ、哀れにも泣き叫んだ。
4.20.24
किमङ्गदं साङ्गदवीरबाहो
विहाय यातोऽसि चिरं प्रवासम्।
न युक्तमेवं गुणसंनिकृष्टं
विहाय पुत्रं प्रियचारुवेषम् ॥ ४.२०.२४ ॥
アンガダよ、腕輪をつけた勇士よ、なぜそんな長い旅に出てしまったのか。徳に恵まれ、愛らしく美しい姿の息子をこうして捨てて行くのは相応しくない。
4.20.25
यद्यप्रियं किंचिदसम्प्रधार्य
कृतं मया स्यात् तव दीर्घबाहो।
क्षमस्व मे तद्धरिवंशनाथ
व्रजामि मूर्ध्ना तव वीर पादौ ॥ ४.२०.२५ ॥
長い腕を持つお方よ、考えもなく私があなたにとって不快なことをしてしまったのなら、猿族の主よ、どうか私を赦してください。勇士よ、頭を垂れてあなたの足元に伏します。
4.20.26
तथा तु तारा करुणं रुदन्ती
भर्तुः समीपे सह वानरीभिः।
व्यवस्यत प्रायमनिन्द्यवर्णा
उपोपवेष्टुं भुवि यत्र वाली ॥ ४.२०.२६ ॥
そのとき、哀れに泣き叫ぶ、非の打ちどころのない容貌のターラーは、猿の女たちと共に、夫のそば、ヴァーリンが地に横たわる場所に座ろうと決意した。