ヴァールミーキのラーマーヤナ · サルガ 4.21
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.21.1
ततो निपतितां तारां च्युतां तारामिवाम्बरात्।
शनैराश्वासयामास हनुमान् हरियूथपः ॥ ४.२१.१ ॥
そのとき猿の群れの主ハヌマーンは、空から落ちた星のように地に伏したターラーを、静かに慰めた。
4.21.2
गुणदोषकृतं जन्तुः स्वकर्म फलहेतुकम्।
अव्यग्रस्तदवाप्नोति सर्वं प्रेत्य शुभाशुभम् ॥ ४.२१.२ ॥
生きとし生けるものは、自らの善悪から生じ果をもたらす業によって、死後に善悪すべてを動じることなく受け取る。
4.21.3
शोच्या शोचसि कं शोच्यं दीनं दीनानुकम्पसे।
कश्च कस्यानुशोच्योऽस्ति देहेऽस्मिन् बुद्बुदोपमे ॥ ४.२१.३ ॥
ああ、嘆かれるべき人よ、誰のために嘆くのか。哀れな者を憐れんでいる。だが泡のようなこの身体において、誰が誰のために嘆かれるべきなのか。
4.21.4
अङ्गदस्तु कुमारोऽयं द्रष्टव्यो जीवपुत्रया।
आयत्यां च विधेयानि समर्थान्यस्य चिन्तय ॥ ४.२१.४ ॥
この王子アンガダは、生きた息子を持つ母親に見守られるべきだ。将来、彼のために為すべき有力なことを考えよ。
4.21.5
जानास्यनियतामेवं भूतानामागतिं गतिम्।
तस्माच्छुभं हि कर्तव्यं पण्डिते नेह लौकिकम् ॥ ४.२१.५ ॥
あなたは、生きものの来ることと去ることがこのように定まらないことを知っている。ゆえに賢い人よ、ここでは世俗のことではなく、善いことをなすべきである。
4.21.6
यस्मिन् हरिसहस्राणि शतानि नियुतानि च।
वर्तयन्ति कृताशानि सोऽयं दिष्टान्तमागतः ॥ ४.२१.६ ॥
数千、数百、そして数万の猿がその庇護に望みを託して生きていた彼が、今や運命の定めた終わりに至ったのである。
4.21.7
यदयं न्यायदृष्टार्थः सामदानक्षमापरः।
गतो धर्मजितां भूमिं नैनं शोचितुमर्हसि ॥ ४.२१.७ ॥
正義によって目的を果たし、和解・布施・忍耐に長けた彼は、法によって得られた世界へ去った。あなたは彼のために嘆くべきではない。
4.21.8
सर्वे च हरिशार्दूलाः पुत्रश्चायं तवाङ्गदः।
हर्यृक्षपतिराज्यं च त्वत्सनाथमनिन्दिते ॥ ४.२१.८ ॥
汚れなき女よ、ここには猿の虎たちすべてと、あなたの息子アンガダがいる。猿と熊の王国は今やあなたの庇護のもとにある。
4.21.9
ताविमौ शोकसंतप्तौ शनैः प्रेरय भामिनि।
त्वया परिगृहीतोऽयमङ्गदः शास्तु मेदिनीम् ॥ ४.२१.९ ॥
ああ婦人よ、悲しみに苦しむこの二人を静かに導け。あなたが受け入れたアンガダが大地を治めますように。
4.21.10
संततिश्च यथा दृष्टा कृत्यं यच्चापि साम्प्रतम्।
राज्ञस्तत् क्रियतां सर्वमेष कालस्य निश्चयः ॥ ४.२१.१० ॥
系譜に見られるように、今なすべきことはすべて王のために行われるべきだ。これが時の決定である。
4.21.11
संस्कार्यो हरिराजस्तु अङ्गदश्चाभिषिच्यताम्।
सिंहासनगतं पुत्रं पश्यन्ती शान्तिमेष्यसि ॥ ४.२१.११ ॥
猿の王の葬儀を営み、アンガダを即位させよ。王座に座る息子を見て、あなたは安らぎを得るだろう。
4.21.12
सा तस्य वचनं श्रुत्वा भर्तृव्यसनपीडिता।
अब्रवीदुत्तरं तारा हनूमन्तमवस्थितम् ॥ ४.२१.१२ ॥
彼の言葉を聞いて、夫の不幸に苦しむタラは、そこに立つハヌマーンに答えた。
4.21.13
अङ्गदप्रतिरूपाणां पुत्राणामेकतः शतम्।
हतस्याप्यस्य वीरस्य गात्रसंश्लेषणं वरम् ॥ ४.२१.१३ ॥
アンガダに似た百人の息子が一方にいたとしても、この討たれた英雄の身体を抱くことこそが勝っている。
4.21.14
न चाहं हरिराज्यस्य प्रभवाम्यङ्गदस्य वा।
पितृव्यस्तस्य सुग्रीवः सर्वकार्येष्वनन्तरः ॥ ४.२१.१४ ॥
私は猿の王国にも、アンガダにも権限を持ちません。彼の叔父スグリーヴァこそ、あらゆる事柄で次の立場にあります。
4.21.15
नह्येषा बुद्धिरास्थेया हनूमन्नङ्गदं प्रति।
पिता हि बन्धुः पुत्रस्य न माता हरिसत्तम ॥ ४.२१.१५ ॥
ハヌマーンよ、アンガダについてこの考えを取るべきではない。猿の中の最良者よ、息子にとって真の血縁者は父であり、母ではない。
4.21.16
नहि मम हरिराजसंश्रयात्
क्षमतरमस्ति परत्र चेह वा।
अभिमुखहतवीरसेवितं
शयनमिदं मम सेवितुं क्षमम् ॥ ४.२१.१६ ॥
私にとって、この世でもあの世でも、猿の王に頼ること以上にふさわしいものはない。敵に向かって倒れた英雄たちが横たわるこの床こそ、私が横たわるにふさわしい。