蚁垤《罗摩衍那》 · 篇 4.26
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.26.1
ततः शोकाभिसंतप्तं सुग्रीवं क्लिन्नवाससम्।
शाखामृगमहामात्राः परिवार्योपतस्थिरे ॥ ४.२६.१ ॥
于是猴族的大臣们围住悲痛煎熬、衣衫湿透的须羯里婆,前来侍立在他身旁。
4.26.2
अभिगम्य महाबाहुं राममक्लिष्टकारिणम्।
स्थिताः प्राञ्जलयः सर्वे पितामहमिवर्षयः ॥ ४.२६.२ ॥
众人走近大臂的罗摩——他不费力便能成事——合掌站立,好像诸仙在祖父梵天面前侍立一样。
4.26.3
ततः काञ्चनशैलाभस्तरुणार्कनिभाननः।
अब्रवीत् प्राञ्जलिर्वाक्यं हनूमान् मारुतात्मजः ॥ ४.२६.३ ॥
此时,风神之子哈努曼光芒如金山,面容如初升的朝阳,合掌说出了这些话。
4.26.4
भवत्प्रसादात् काकुत्स्थ पितृपैतामहं महत्।
वानराणां सुदंष्ट्राणां सम्पन्नबलशालिनाम् ॥ ४.२६.४ ॥
蒙您恩典,啊,迦古特斯塔,猴族的伟大祖传王国——那些獠牙锋利、力量充沛的猴族——已经重新获得。
4.26.5
महात्मनां सुदुष्प्रापं प्राप्तं राज्यमिदं प्रभो।
भवता समनुज्ञातः प्रविश्य नगरं शुभम् ॥ ४.२६.५ ॥
主上,这王国即便对于大德之人也极难获得,如今已经得到。请您在允许下,进入这吉祥的城池。
4.26.6
संविधास्यति कार्याणि सर्वाणि ससुहृद्गणः।
स्नातोऽयं विविधैर्गन्धैरौषधैश्च यथाविधि ॥ ४.२६.६ ॥
须羯里婆将与朋友们一同安排所有事务;他已按规矩用各种香料与草药沐浴。
4.26.7
अर्चयिष्यति माल्यैश्च रत्नैश्च त्वां विशेषतः।
इमां गिरिगुहां रम्यामभिगन्तुं त्वमर्हसि ॥ ४.२६.७ ॥
他将以花环和珠宝特别地款待你;你应当进入这座可爱的山洞。
4.26.8
कुरुष्व स्वामिसम्बन्धं वानरान् सम्प्रहर्षय।
एवमुक्तो हनुमता राघवः परवीरहा ॥ ४.२६.८ ॥
与主君结成盟约,使诸猴欢喜。罗摩——敌方英雄的杀者——听了哈奴曼这样说,
4.26.9
प्रत्युवाच हनूमन्तं बुद्धिमान् वाक्यकोविदः।
चतुर्दश समाः सौम्य ग्रामं वा यदि वा पुरम् ॥ ४.२६.९ ॥
罗摩智慧且善于言辞,回答哈奴曼道:"善良的朋友,十四年间我不进入村落,也不进入城市,
4.26.10
न प्रवेक्ष्यामि हनुमन् पितुर्निर्देशपालकः।
सुसमृद्धां गुहां दिव्यां सुग्रीवो वानरर्षभः ॥ ४.२६.१० ॥
哈奴曼啊,我是遵守父命之人,不会进入。猴中之牛苏羯哩婆,请进入这座富饶的神圣山洞吧。
4.26.11
प्रविष्टो विधिवद् वीरः क्षिप्रं राज्येऽभिषिच्यताम्।
एवमुक्त्वा हनूमन्तं रामः सुग्रीवमब्रवीत् ॥ ४.२६.११ ॥
愿那位英雄依规入洞,并迅速在国中受灌顶。
4.26.12
वृत्तज्ञो वृत्तसम्पन्नमुदारबलविक्रमम्।
इममप्यङ्गदं वीरं यौवराज्येऽभिषेचय ॥ ४.२६.१२ ॥
也请为这位英雄安伽陀灌顶,立为太子。他深知礼法,品行端正,力量与勇气都十分高贵。
4.26.13
ज्येष्ठस्य हि सुतो ज्येष्ठः सदृशो विक्रमेण च।
अङ्गदोऽयमदीनात्मा यौवराज्यस्य भाजनम् ॥ ४.२६.१३ ॥
长者之子方为长者,其勇武亦与之相当。此安伽陀心志坚定,堪受太子之位。
4.26.14
पूर्वोऽयं वार्षिको मासः श्रावणः सलिलागमः।
प्रवृत्ताः सौम्य चत्वारो मासा वार्षिक संज्ञिताः ॥ ४.२६.१४ ॥
此为雨季之首月室罗伐那,水流已至。善者啊,名为雨季的四个月已经开始了。
4.26.15
नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम्।
अस्मिन् वत्स्याम्यहं सौम्य पर्वते सहलक्ष्मणः ॥ ४.२६.१५ ॥
此非用兵之时,你可入那吉祥的城市。善者啊,我将与罗什曼那一同居于此山。
4.26.16
इयं गिरिगुहा रम्या विशाला युक्तमारुता।
प्रभूतसलिला सौम्य प्रभूतकमलोत्पला ॥ ४.२६.१६ ॥
此山洞幽美宽广,风气适宜。善者啊,此处水源丰沛,莲花与青莲繁盛。
4.26.17
कार्तिके समनुप्राप्ते त्वं रावणवधे यत।
एष नः समयः सौम्य प्रविश त्वं स्वमालयम् ॥ ४.२६.१७ ॥
待迦尔提迦月来临,你当努力诛杀罗波那。善者啊,这正是我们约定的时候;如今你且回到自己的住所。
4.26.19
अभिषिञ्चस्व राज्ये च सुहृदः सम्प्रहर्षय।
प्रविवेश पुरीं रम्यां किष्किन्धां वालिपालिताम्।
तं वानरसहस्राणि प्रविष्टं वानरेश्वरम् ॥ ४.२६.१९ ॥
当于王国受灌顶,使朋友欢喜。(须羯哩婆)进入了为婆利所护的美丽的罕钦陀城。那猴王入城时,成千上万的猴子也随之入城。
4.26.20
अभिवार्य प्रविष्टानि सर्वतः प्लवगेश्वरम्।
ततः प्रकृतयः सर्वा दृष्ट्वा हरिगणेश्वरम् ॥ ४.२६.२० ॥
众猴从四面包围并进入,围住了猴王。随后所有臣民看见了群猴之主。
4.26.21
प्रणम्य मूर्ध्ना पतिता वसुधायं समाहिताः।
सुग्रीवः प्रकृतीः सर्वाः सम्भाष्योत्थाप्य वीर्यवान् ॥ ४.२६.२१ ॥
众臣民低头伏地,皆神情专注。勇猛的须羯里婆与所有臣民交谈后,将他们扶起。
4.26.22
भ्रातुरन्तःपुरं सौम्यं प्रविवेश महाबलः।
प्रविष्टं भीमविक्रान्तं सुग्रीवं वानरर्षभम् ॥ ४.२६.२२ ॥
大力者进入哥哥美好的内宫;当勇猛可怖的猴中雄牛须羯里婆进入时。
4.26.23
अभ्यषिञ्चन्त सुहृदः सहस्राक्षमिवामराः।
तस्य पाण्डुरमाजह्रुश्छत्रं हेमपरिष्कृतम् ॥ ४.२६.२३ ॥
如同诸天为因陀罗灌顶,朋友们为他灌顶。为他取来了饰以黄金的白色华盖。
4.26.24
शुक्ले च वालव्यजने हेमदण्डे यशस्करे।
तथा रत्नानि सर्वाणि सर्वबीजौषधानि च ॥ ४.२६.२४ ॥
两把饰有金柄、能带来荣耀的白色牦牛尾拂尘;还有一切珠宝,以及一切种子与草药。
4.26.25
सक्षीराणां च वृक्षाणां प्ररोहान् कुसुमानि च।
शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम् ॥ ४.२६.२५ ॥
乳汁之树的嫩芽与花朵,白色衣服,以及白色的香膏。
4.26.26
सुगन्धीनि च माल्यानि स्थलजान्यम्बुजानि च।
चन्दनानि च दिव्यानि गन्धांश्च विविधान् बहून् ॥ ४.२६.२६ ॥
芬芳的花环,生长于陆地的莲花,天界的檀香,以及种种繁多的香料。
4.26.27
अक्षतं जातरूपं च प्रियङ्गुं मधुसर्पिषी।
दधि चर्म च वैयाघ्रं परार्घ्यौ चाप्युपानहौ ॥ ४.२६.२७ ॥
完整的谷粒、黄金、普里扬古、蜂蜜与酥油、凝乳、一张兽皮、一张虎皮,以及两双最珍贵的鞋履。
4.26.28
समालम्भनमादाय गोरोचनमनःशिलाम्।
आजग्मुस्तत्र मुदिता वराः कन्याश्च षोडश ॥ ४.२६.२८ ॥
她们带着涂抹之物、牛黄与雄黄,欢欣地来到那里,共十六位出众的少女。
4.26.29
ततस्ते वानरश्रेष्ठमभिषेक्तुं यथाविधि।
रत्नैर्वस्त्रैश्च भक्ष्यैश्च तोषयित्वा द्विजर्षभान् ॥ ४.२६.२९ ॥
随后,为依仪轨为猴王之首灌顶,他们以珠宝、衣物和食物使卓越的再生者(婆罗门)欢喜。
4.26.30
ततः कुशपरिस्तीर्णं समिद्धं जातवेदसम्।
मन्त्रपूतेन हविषा हुत्वा मन्त्रविदो जनाः ॥ ४.२६.३० ॥
随后,在铺着吉祥草、燃烧着的火中,通晓咒语的人们以经咒净化的供品进行献祭。
4.26.31
ततो हेमप्रतिष्ठाने वरास्तरणसंवृते।
प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते ॥ ४.२६.३१ ॥
随后,在覆以上好褥垫的金座上,于装饰着五彩花环的美丽宫殿顶上。
4.26.32
प्राङ्मुखं विधिवन्मन्त्रैः स्थापयित्वा वरासने।
नदीनदेभ्यः संहृत्य तीर्थेभ्यश्च समन्ततः ॥ ४.२६.३२ ॥
面向东方,依照规矩以咒语将他安置于尊贵的座位上,从四面八方收集河流、溪水与圣渡口的水。
4.26.33
आहृत्य च समुद्रेभ्यः सर्वेभ्यो वानरर्षभाः।
अपः कनककुम्भेषु निधाय विमलं जलम् ॥ ४.२६.३३ ॥
从所有海洋取来水,猴群中的雄牛们将清净之水盛入金瓶。
4.26.34
शुभैर्ऋषभशृङ्गैश्च कलशैश्चैव काञ्चनैः।
शास्त्रदृष्टेन विधिना महर्षिविहितेन च ॥ ४.२६.३४ ॥
以吉祥的器皿(顶端形如牛角)与金瓶,依照经典所规定、大仙所颁定的仪轨。
4.26.35
गजो गवाक्षो गवयः शरभो गन्धमादनः।
मैन्दश्च द्विविदश्चैव हनूमाञ्जाम्बवांस्तथा ॥ ४.२६.३५ ॥
迦阇、迦婆迦沙、迦婆耶、沙罗婆、乾陀摩陀那、摩因陀、双毗陀,以及哈努曼与遮婆梵。
4.26.36
अभ्यषिञ्चत सुग्रीवं प्रसन्नेन सुगन्धिना।
सलिलेन सहस्राक्षं वसवो वासवं यथा ॥ ४.२६.३६ ॥
他们以清澈芬芳的水为须羯里婆灌顶,如诸婆苏为千眼的婆娑婆(因陀罗)灌顶一样。
4.26.37
अभिषिक्ते तु सुग्रीवे सर्वे वानरपुङ्गवाः।
प्रचुक्रुशुर्महात्मानो हृष्टाः शतसहस्रशः ॥ ४.२६.३७ ॥
须羯里婆灌顶之后,诸位猴中雄杰、心胸广大者欢喜地齐声欢呼,人数达数十万之众。
4.26.38
रामस्य तु वचः कुर्वन् सुग्रीवो वानरेश्वरः।
अङ्गदं सम्परिष्वज्य यौवराज्येऽभ्यषेचयत् ॥ ४.२६.३८ ॥
猴王须羯罗遵从罗摩之言,紧紧拥抱安伽陀,并立他为太子。
4.26.39
अङ्गदे चाभिषिक्ते तु सानुक्रोशाः प्लवंगमाः।
साधु साध्विति सुग्रीवं महात्मानो ह्यपूजयन् ॥ ४.२६.३९ ॥
安伽陀受封之时,有慈悲的诸位猴子高尚者赞叹道:“善哉!善哉!”,以此尊敬须羯罗。
4.26.40
रामं चैव महात्मानं लक्ष्मणं च पुनः पुनः।
प्रीताश्च तुष्टुवुः सर्वे तादृशे तत्र वर्तिनि ॥ ४.२६.४० ॥
在那里,众人在如此情景中欢喜不已,一再赞美高尚的罗摩与罗什曼那。
4.26.41
हृष्टपुष्टजनाकीर्णा पताकाध्वजशोभिता।
बभूव नगरी रम्या किष्किन्धा गिरिगह्वरे ॥ ४.२६.४१ ॥
山洞中的美丽城市金刚窟,充满了欢喜而丰足的民众,并以旗帜和幢幡装饰得庄严美丽。
4.26.42
निवेद्य रामाय तदा महात्मने
महाभिषेकं कपिवाहिनीपतिः।
रुमां च भार्यामुपलभ्य वीर्यवा-
नवाप राज्यं त्रिदशाधिपो यथा ॥ ४.२६.४२ ॥
于是,猴军之主向高尚的罗摩报告了大灌顶之事,并重得妻子罗摩,这位勇猛者获得王位,正如三十三天之主因陀罗一般。