ヴァールミーキのラーマーヤナ · サルガ 4.30
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.30.1
गृहं प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः।
वर्षरात्रे स्थितो रामः कामशोकाभिपीडितः ॥ ४.३०.१ ॥
スグリーヴァが家に入り、空が雲から解放されたとき、ラーマは雨季の夜に、欲望と悲しみに苦しめられて立っていた。
4.30.2
पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम्।
शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम् ॥ ४.३०.२ ॥
淡く白んだ空と曇りなき月輪を見て、月光を塗られたような秋の夜を見て。
4.30.3
कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम्।
दृष्ट्वा कालमतीतं च मुमोह परमातुरः ॥ ४.३०.३ ॥
スグリーヴァが欲望に身を任せ、ジャナカの娘が失われ、時が過ぎたのを見て、ひどく苦悩したラーマは気を失った。
4.30.4
स तु संज्ञामुपागम्य मुहूर्तान्मतिमान् नृपः।
मनःस्थामपि वैदेहीं चिन्तयामास राघवः ॥ ४.३०.४ ॥
しかし賢明なラーガヴァは、しばらくして意識を取り戻し、心に宿るヴァイデーヒーのことを思い始めた。
4.30.5
दृष्ट्वा च विमलं व्योम गतविद्युद्बलाहकम्।
सारसारावसंघुष्टं विललापार्तया गिरा ॥ ४.३०.५ ॥
空が澄み、稲妻も雲も消え、鶴の声が響くのを見て、ラーマは苦しみに満ちた声で嘆いた。
4.30.6
आसीनः पर्वतस्याग्रे हेमधातुविभूषिते।
शारदं गगनं दृष्ट्वा जगाम मनसा प्रियाम् ॥ ४.३०.६ ॥
黄金の鉱物で飾られた山頂に座し、秋の空を見て、ラーマは心で愛しい人のもとへ去った。
4.30.7
सारसारावसंनादैः सारसारावनादिनी।
याऽऽश्रमे रमते बाला साद्य मे रमते कथम् ॥ ४.३०.७ ॥
サーラサ鶴の声のように響く言葉を話し、庵で楽しく過ごしていたあの少女は、今私なしにどうして楽しめるだろうか。
4.30.8
पुष्पितांश्चासनान् दृष्ट्वा काञ्चनानिव निर्मलान्।
कथं सा रमते बाला पश्यन्ती मामपश्यती ॥ ४.३०.८ ॥
花咲き、黄金のように清らかな座席を見ても、私の姿を見ないあの少女はどうして楽しめるだろうか。
4.30.9
या पुरा कलहंसानां कलेन कलभाषिणी।
बुध्यते चारुसर्वाङ्गी साद्य मे रमते कथम् ॥ ४.३०.९ ॥
かつては美しい白鳥の声のように甘く話し、全身が美しかったあの人は、今私なしにどうして楽しめるだろうか。
4.30.10
निःस्वनं चक्रवाकानां निशम्य सहचारिणाम्।
पुण्डरीकविशालाक्षी कथमेषा भविष्यति ॥ ४.३०.१० ॥
連れ添う赤鴨(チャクラヴァーカ)の鳴き声を聞いて、蓮のように大きな目のこの人はどうなっているだろうか。
4.30.11
सरांसि सरितो वापीः काननानि वनानि च।
तां विना मृगशावाक्षीं चरन्नाद्य सुखं लभे ॥ ४.३०.११ ॥
湖、川、池、森、林——鹿の子のような目をしたあの人がいなくて、さまよう私は今日、少しの幸せも得られない。
4.30.12
अपि तां मद्वियोगाच्च सौकुमार्याच्च भामिनीम्।
सुदूरं पीडयेत् कामः शरद्गुणनिरन्तरः ॥ ४.३०.१२ ॥
私との別れと彼女のか弱さのゆえに、秋の性質とともに絶えず募る欲望が、あの麗しい女性を大いに苦しめているに違いない。
4.30.13
एवमादि नरश्रेष्ठो विललाप नृपात्मजः।
विहंग इव सारङ्गः सलिलं त्रिदशेश्वरात् ॥ ४.३०.१३ ॥
このように人中の最良者である王子は嘆き続けた。神々の主に水を乞う鳥のように。
4.30.14
ततश्चञ्चूर्य रम्येषु फलार्थी गिरिसानुषु।
ददर्श पर्युपावृत्तो लक्ष्मीवाँल्लक्ष्मणोऽग्रजम् ॥ ४.३०.१४ ॥
そのとき、美しい山の斜面で果実を探して戻ってきた吉祥なるラクシュマナは、兄を見た。
4.30.15
स चिन्तया दुस्सहया परीतं
विसंज्ञमेकं विजने मनस्वी।
भ्रातुर्विषादात् त्वरितोऽतिदीनः
समीक्ष्य सौमित्रिरुवाच दीनम् ॥ ४.३०.१५ ॥
耐えがたい憂いに囚われ、人里離れた所で独り意識を失ったようになっている気高い兄を見て、スミトラーの子ラクシュマナは急いで悲しみながら語りかけた。
4.30.16
किमार्य कामस्य वशंगतेन
किमात्मपौरुष्यपराभवेन ।
अयं ह्रिया संह्रियते समाधिः
किमत्र योगेन निवर्तते न ॥ ४.३०.१६ ॥
高貴なお方よ!なぜ欲望の支配下に落ちたのか?なぜ自らの男らしさの敗北によって?この三昧は羞恥によって奪われている。なぜここで修行によって戻らないのか?
4.30.17
क्रियाभियोगं मनसः प्रसादं
समाधियोगानुगतं च कालम्।
सहायसामर्थ्यमदीनसत्त्वः
स्वकर्महेतुं च कुरुष्व तात ॥ ४.३०.१७ ॥
親愛なる者よ!心の清明のために行為に専念せよ。三昧のヨーガにふさわしい時を守れ。味方の力を得よ。怯まぬ心で、自らの義務の因となれ。
4.30.18
न जानकी मानववंशनाथ
त्वया सनाथा सुलभा परेण।
न चाग्निचूडां ज्वलितामुपेत्य
न दह्यते वीर वरार्ह कश्चित् ॥ ४.३०.१८ ॥
人の一族の主よ!ジャーナキーはあなたに守られている。他の者にたやすく得られるものではない。燃え盛る炎の頂に近づいて焼かれぬ者はいない。英雄よ、最上の者にふさわしい方よ!
4.30.19
सलक्षणं लक्ष्मणमप्रधृष्यं
स्वभावजं वाक्यमुवाच रामः।
हितं च पथ्यं च नयप्रसक्तं
ससामधर्मार्थसमाहितं च ॥ ४.३०.१९ ॥
ラーマは、吉相を具え、打ち破りがたいラクシュマナに、自らの本性から生じた言葉を語った。それは有益で適切、正しい策略に心を向け、和睦・法・利益に調和したものであった。
4.30.20
निस्संशयं कार्यमवेक्षितव्यं
क्रियाविशेषोऽप्यनुवर्तितव्यः।
न तु प्रवृद्धस्य दुरासदस्य
कुमार वीर्यस्य फलं च चिन्त्यम् ॥ ४.३०.२० ॥
疑いなく、事は吟味されねばならず、行動の特定の道にも従わねばならない。だが王子よ、すでに大いに増大し、近づき難い敵の勢力がもたらす結果もまた考えねばならない。
4.30.21
अथ पद्मपलाशाक्षीं मैथिलीमनुचिन्तयन्।
उवाच लक्ष्मणं रामो मुखेन परिशुष्यता ॥ ४.३०.२१ ॥
そのとき、蓮の花びらのような目をしたマイティリー(シーター)を思いながら、ラーマは乾いた顔でラクシュマナに語った。
4.30.22
तर्पयित्वा सहस्राक्षः सलिलेन वसुंधराम्।
निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः ॥ ४.३०.२२ ॥
千眼のインドラは水で大地を潤し、作物を実らせ、己の務めを成し遂げて、確固として立っている。
4.30.23
दीर्घगम्भीरनिर्घोषाः शैलद्रुमपुरोगमाः।
विसृज्य सलिलं मेघाः परिशान्ता नृपात्मज ॥ ४.३०.२३ ॥
王子よ、長く深く轟き、山や木々の前を行く雲は、水を降らせ、今や静まったのだ。
4.30.24
नीलोत्पलदलश्यामाः श्यामीकृत्वा दिशो दश।
विमदा इव मातङ्गाः शान्तवेगाः पयोधराः ॥ ४.३०.२४ ॥
青い睡蓮の花びらのように暗く、十方を暗くし、発情の去った象のように、勢いの静まった水を運ぶ雲。
4.30.25
जलगर्भा महावेगाः कुटजार्जुनगन्धिनः।
चरित्वा विरताः सौम्य वृष्टिवाताः समुद्यताः ॥ ४.३०.२५ ॥
水を孕み、大いなる勢いを持ち、クタジャとアルジュナの花の香りを帯びた雨風は、巡り歩いて止み、ああ温和な者よ、再び立ち上がった。
4.30.26
घनानां वारणानां च मयूराणां च लक्ष्मण।
नादः प्रस्रवणानां च प्रशान्तः सहसानघ ॥ ४.३०.२६ ॥
ラクシュマナよ、汚れなき者よ、雲、象、孔雀、滝の響きが突然静まった。
4.30.27
अभिवृष्टा महामेघैर्निर्मलाश्चित्रसानवः।
अनुलिप्ता इवाभान्ति गिरयश्चन्द्ररश्मिभिः ॥ ४.३०.२७ ॥
大いなる雲に濡れ、清らかで、色とりどりの峰を持つ山々は、月光に塗られたかのように輝く。
4.30.28
शाखासु सप्तच्छदपादपानां
प्रभासु तारार्कनिशाकराणाम्।
लीलासु चैवोत्तमवारणानां
श्रियं विभज्याद्य शरत्प्रवृत्ता ॥ ४.३०.२८ ॥
サプタチャダ樹の枝、星と太陽と月の光、そして高貴な象の戯れに美しさを分け与えて、今日秋が始まった。
4.30.29
सम्प्रत्यनेकाश्रयचित्रशोभा
लक्ष्मीः शरत्कालगुणोपपन्ना।
सूर्याग्रहस्तप्रतिबोधितेषु
पद्माकरेष्वभ्यधिकं विभाति ॥ ४.३०.२९ ॥
今や秋の威光は、多様な姿と不思議な美を備え、太陽の最初の光に目覚めた蓮の池にいっそう輝いている。
4.30.30
सप्तच्छदानां कुसुमोपगन्धी
षट्पादवृन्दैरनुगीयमानः।
मत्तद्विपानां पवनानुसारी
दर्पं विनेष्यन्नधिकं विभाति ॥ ४.३०.३० ॥
サプタチャダの花の香りに満ち、蜂の群れに歌われ、風に従い、猛る象の驕りを払おうとするかのように、いっそう輝いている。
4.30.31
अभ्यागतैश्चारुविशालपक्षैः
स्मरप्रियैः पद्मरजोऽवकीर्णैः।
महानदीनां पुलिनोपयातैः
क्रीडन्ति हंसाः सह चक्रवाकैः ॥ ४.३०.३१ ॥
美しく広い翼を持つ、愛らしく、蓮の花粉に覆われた、戻ってきた白鳥たちが大河の砂州に来て、チャクラヴァーカと共に戯れている。
4.30.32
मदप्रगल्भेषु च वारणेषु
गवां समूहेषु च दर्पितेषु।
प्रसन्नतोयासु च निम्नगासु
विभाति लक्ष्मीर्बहुधा विभक्ता ॥ ४.३०.३२ ॥
発情して猛る象たちの中に、誇り高い牛の群れの中に、清らかな水の低地を流れる川々の中に、ラクシュミーは多様に分かれて輝いている。
4.30.33
नभः समीक्ष्याम्बुधरैर्विमुक्तं
विमुक्तबर्हाभरणा वनेषु।
प्रियास्वरक्ता विनिवृत्तशोभा
गतोत्सवा ध्यानपरा मयूराः ॥ ४.३०.३३ ॥
雲が去った空を見て、森の孔雀たちは尾羽の飾りを捨て、愛する雌にも執着せず、美しさは衰え、祭りも終わり、瞑想に沈んでいる。
4.30.34
मनोज्ञगन्धैः प्रियकैरनल्पैः
पुष्पातिभारावनताग्रशाखैः।
सुवर्णगौरैर्नयनाभिरामै-
रुद्योतितानीव वनान्तराणि ॥ ४.३०.३४ ॥
芳しい香りを放ち、豊かに咲き、花の重みで梢が垂れ、黄金色に輝き、目にも快いプリヤカ樹によって、森の奥が照らされたかのようである。
4.30.35
प्रियान्वितानां नलिनीप्रियाणां
वने प्रियाणां कुसुमोद्गतानाम्।
मदोत्कटानां मदलालसानां
गजोत्तमानां गतयोऽद्य मन्दाः ॥ ४.३०.३५ ॥
愛しい雌を伴い、蓮池を愛し、森で慕われ、花から生まれたとされ、発情に猛り、欲に渇く最上の象たちの歩みは、今や緩やかである。
4.30.36
व्यक्तं नभः शस्त्रविधौतवर्णं
कृशप्रवाहानि नदीजलानि।
कह्लारशीताः पवनाः प्रवान्ति
तमो विमुक्ताश्च दिशः प्रकाशाः ॥ ४.३०.३६ ॥
武器を磨いて輝かせたように空は澄み渡っている。川の水は細い流れとなって流れる。蓮のように涼しい風が吹き、闇を脱した方角が明るく輝いている。
4.30.37
सूर्यातपक्रामणनष्टपङ्का
भूमिश्चिरोद्घाटितसान्द्ररेणुः।
अन्योन्यवैरेण समायुताना-
मुद्योगकालोऽद्य नराधिपानाम् ॥ ४.३०.३७ ॥
太陽の熱で泥は乾き消え、大地には長いあいだ濃い塵が舞っている。相互の敵意で集まった王たちにとって、今こそ戦いの努力の時である。
4.30.38
शरद्गुणाप्यायितरूपशोभाः
प्रहर्षिताः पांसुसमुत्थिताङ्गाः।
मदोत्कटाः सम्प्रति युद्धलुब्धा
वृषा गवां मध्यगता नदन्ति ॥ ४.३०.३८ ॥
秋の徳に育まれた姿と輝きをもち、喜び、塵の中に身を起こし、発情して猛り、今まさに戦いを求める雄牛たちが、雌牛の群れの中で吠えている。
4.30.39
समन्मथा तीव्रतरानुरागा
कुलान्विता मन्दगतिः करेणुः।
मदान्वितं सम्परिवार्य यान्तं
वनेषु भर्तारमनुप्रयाति ॥ ४.३०.३९ ॥
欲情に満ち、愛情はいよいよ激しく、群れを伴い、歩みはゆったりとした雌象が、発情して進む夫を取り囲み、森の中を彼について行く。
4.30.40
त्यक्त्वा वराण्यात्मविभूषितानि
बर्हाणि तीरोपगता नदीनाम्।
निर्भर्त्स्यमाना इव सारसौघैः
प्रयान्ति दीना विमना मयूराः ॥ ४.३०.४० ॥
川岸に来た孔雀は、自らを飾る見事な尾羽を捨て、鶴の群れに叱られているかのように、哀れに心沈んで去って行く。
4.30.41
वित्रास्य कारण्डवचक्रवाकान्
महारवैर्भिन्नकटा गजेन्द्राः।
सरस्सुबद्धाम्बुजभूषणेषु
विक्षोभ्य विक्षोभ्य जलं पिबन्ति ॥ ४.३०.४१ ॥
大きな咆哮でカーランダヴァ鴨とチャクラヴァーカ鳥を脅かし、発情の液で頬を濡らした象の王たちは、蓮に飾られた湖で水を何度もかき乱して飲む。
4.30.42
व्यपेतपङ्कासु सवालुकासु
प्रसन्नतोयासु सगोकुलासु।
ससारसारावविनादितासु
नदीषु हंसा निपतन्ति हृष्टाः ॥ ४.३०.४२ ॥
泥が消え、砂の岸辺があり、水は澄み、牛の群れを伴い、サーラサ鶴の声が響く川々に、喜んだ白鳥たちが降り立つ。
4.30.43
नदीघनप्रस्रवणोदकाना-
मतिप्रवृद्धानिलबर्हिणानाम्।
प्लवंगमानां च गतोत्सवानां
ध्रुवं रवाः सम्प्रति सम्प्रणष्टाः ॥ ४.३०.४३ ॥
川の音、濃い雲、泉の水、強風に舞う孔雀、そして祭りの終わった猿たちの声——それらの響きは、今やきっと消え去ってしまった。
4.30.44
अनेकवर्णाः सुविनष्टकाया
नवोदितेष्वम्बुधरेषु नष्टाः।
क्षुधार्दिता घोरविषा बिलेभ्य-
श्चिरोषिता विप्रसरन्ति सर्पाः ॥ ४.३०.४४ ॥
多彩で身体が大いに痩せ衰え、新たに湧いた雲に隠れていた蛇たちは、飢えに苦しみ猛毒を持ち、長く穴に住んでいたが、今は穴から這い出している。
4.30.45
चञ्चच्चन्द्रकरस्पर्शहर्षोन्मीलिततारका।
अहो रागवती संध्या जहाति स्वयमम्बरम् ॥ ४.३०.४५ ॥
輝く月光の触れる喜びに星々は開き、ああ!愛に染まった夕暮れが自ら空を去っていく。
4.30.46
रात्रिः शशाङ्कोदितसौम्यवक्त्रा
तारागणोन्मीलितचारुनेत्रा।
ज्योत्स्नांशुकप्रावरणा विभाति
नारीव शुक्लांशुकसंवृताङ्गी ॥ ४.३०.४६ ॥
月が昇って穏やかな顔となった夜は、星々の群れに開かれた美しい瞳を持ち、月光の衣をまとい、白い衣に身を包んだ女性のように輝いている。
4.30.47
विपक्वशालिप्रसवानि भुक्त्वा
प्रहर्षिता सारसचारुपङ्क्तिः ।
नभः समाक्रामति शीघ्रवेगा
वातावधूता ग्रथितेव माला ॥ ४.३०.४७ ॥
熟れた稲の実を食べて喜んだ美しい鶴の列は、風に揺られて編まれた花輪のように、速い速さで空を横切っていく。
4.30.48
सुप्तैकहंसं कुमुदैरुपेतं
महाह्रदस्थं सलिलं विभाति।
घनैर्विमुक्तं निशि पूर्णचन्द्रं
तारागणाकीर्णमिवान्तरिक्षम् ॥ ४.३०.४८ ॥
一羽の眠る白鳥と睡蓮に満ちた大きな池の水は、雲のない夜に満月と星々の群れで輝く空のように輝いている。
4.30.49
प्रकीर्णहंसाकुलमेखलानां
प्रबुद्धपद्मोत्पलमालिनीनाम्।
वाप्युत्तमानामधिकाद्य लक्ष्मी-
र्वराङ्गनानामिव भूषितानाम् ॥ ४.३०.४९ ॥
白鳥に乱された腰帯を散らし、開いた蓮と睡蓮の花輪を纏った見事な池の輝きは、着飾った美しい女性の美しさのようで、以前にもまして輝いている。
4.30.50
वेणुस्वरव्यञ्जिततूर्यमिश्रः
प्रत्यूषकालेऽनिलसम्प्रवृत्तः।
सम्मूर्छितो गर्गरगोवृषाणा-
मन्योन्यमापूरयतीव शब्दः ॥ ४.३०.५० ॥
夜明けに風に運ばれた音は、笛の音で表された楽器の響きと混じり合い、ガルガラの太鼓や牛・牡牛の鳴き声と溶け合って、互いを満たしているかのようである。
4.30.51
नवैर्नदीनां कुसुमप्रहासै-
र्व्याधूयमानैर्मृदुमारुतेन।
धौतामलक्षौमपटप्रकाशैः
कूलानि काशैरुपशोभितानि ॥ ४.३०.५१ ॥
川岸は、そよ風に揺れ、洗い清めた白絹のように輝くカーシャ草で飾られ、川が新しい花で微笑んでいるかのようである。
4.30.52
वनप्रचण्डा मधुपानशौण्डाः
प्रियान्विताः षट्चरणाः प्रहृष्टाः।
वनेषु मत्ताः पवनानुयात्रां
कुर्वन्ति पद्मासनरेणुगौराः ॥ ४.३०.५२ ॥
森で猛々しく、蜜を飲むことに夢中になり、伴侶とともに喜ぶ六本足の蜂たちは、蓮の花粉で白く染まり、酔い痴れて風のあとを追っている。
4.30.53
जलं प्रसन्नं कुसुमप्रहासं
क्रौञ्चस्वनं शालिवनं विपक्वम्।
मृदुश्च वायुर्विमलश्च चन्द्रः
शंसन्ति वर्षव्यपनीतकालम् ॥ ४.३०.५३ ॥
澄んだ水、花の笑み、クラウンチャ鳥の声、実った稲田、穏やかな風と曇りなき月が、雨季が過ぎ去ったことを告げている。
4.30.54
मीनोपसंदर्शितमेखलानां
नदीवधूनां गतयोऽद्य मन्दाः।
कान्तोपभुक्तालसगामिनीनां
प्रभातकालेष्विव कामिनीनाम् ॥ ४.३०.५४ ॥
魚が見せる腰帯をつけた川の花嫁たちの足取りは、今日は緩やかである。夜明けに恋人に愛され、けだるく歩む女性たちのように。
4.30.55
सचक्रवाकानि सशैवलानि
काशैर्दुकूलैरिव संवृतानि।
सपत्ररेखाणि सरोचनानि
वधूमुखानीव नदीमुखानि ॥ ४.३०.५५ ॥
チャクラヴァーカの鳥、苔、カーシャ草、絹の布に覆われ、葉の模様が描かれ、黄色い顔料で飾られた川の面は、花嫁の顔のように見える。
4.30.56
प्रफुल्लबाणासनचित्रितेषु
प्रहृष्टषट्पादनिकूजितेषु।
गृहीतचापोद्यतदण्डचण्डः
प्रचण्डचापोऽद्य वनेषु कामः ॥ ४.३०.५६ ॥
花の弓で彩られ、喜ぶ蜜蜂の羽音が響く森で、今日カーマは猛々しい弓を取って立ち上がった。
4.30.57
लोकं सुवृष्ट्या परितोषयित्वा
नदीस्तटाकानि च पूरयित्वा।
निष्पन्नसस्यां वसुधां च कृत्वा
त्यक्त्वा नभस्तोयधराः प्रणष्टाः ॥ ४.३०.५७ ॥
良い雨で世界を喜ばせ、川と池を満たし、大地を実った作物で満たした後、空の水を運ぶ雲は去って消えてしまった。
4.30.58
दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः।
नवसंगमसव्रीडा जघनानीव योषितः ॥ ४.३०.५८ ॥
秋の川は少しずつ砂州を見せていく。新たな結びつきに恥じらう女たちが腰をそっと見せるように。
4.30.59
प्रसन्नसलिलाः सौम्य कुरराभिविनादिताः।
चक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः ॥ ४.३०.५९ ॥
善き人よ、澄んだ水の湖は、ミサゴの鳴き声に響き、赤鴨の群れで満ちて輝いている。
4.30.60
अन्योन्यबद्धवैराणां जिगीषूणां नृपात्मज।
उद्योगसमयः सौम्य पार्थिवानामुपस्थितः ॥ ४.३०.६० ॥
王子よ、善き人よ、互いに敵意で結ばれ勝利を望む王たちの行動の時が来た。
4.30.61
इयं सा प्रथमा यात्रा पार्थिवानां नृपात्मज।
न च पश्यामि सुग्रीवमुद्योगं च तथाविधम् ॥ ४.३०.६१ ॥
王子よ、これは王たちの最初の進軍だ。しかし私はスグリーヴァにそのような努力を見ない。
4.30.62
असनाः सप्तपर्णाश्च कोविदाराश्च पुष्पिताः।
दृश्यन्ते बन्धुजीवाश्च श्यामाश्च गिरिसानुषु ॥ ४.३०.६२ ॥
アサナ、サプタパルナ、コーヴィダーラの木々が花を咲かせ、バンドゥジーヴァとシャーマの木々が山の斜面に見える。
4.30.63
हंससारसचक्राह्वैः कुररैश्च समन्ततः।
पुलिनान्यवकीर्णानि नदीनां पश्य लक्ष्मण ॥ ४.३०.६३ ॥
白鳥、サーラサ鶴、チャクラヴァーカ、ミサゴが四方に群れ、川の砂州を覆っている。見よ、ラクシュマナ。
4.30.64
चत्वारो वार्षिका मासा गता वर्षशतोपमाः।
मम शोकाभितप्तस्य तथा सीतामपश्यतः ॥ ४.३०.६४ ॥
悲しみに苦しむ私にとって、シーターに会えぬまま、雨季の四か月は百年のように過ぎ去った。
4.30.65
चक्रवाकीव भर्तारं पृष्ठतोऽनुगता वनम्।
विषमं दण्डकारण्यमुद्यानमिव चाङ्गना ॥ ४.३०.६५ ॥
雌のチャクラヴァーカが夫に従うように、彼女は森で私の後ろについてきて、荒々しいダンダカの森を庭園のように思った。
4.30.66
प्रियाविहीने दुःखार्ते हृतराज्ये विवासिते।
कृपां न कुरुते राजा सुग्रीवो मयि लक्ष्मण ॥ ४.३०.६६ ॥
愛する人を失い、悲しみに苦しみ、王国を奪われ追放された私に、スグリーヴァ王は慈悲を示さない、ラクシュマナよ。
4.30.67
अनाथो हृतराज्योऽहं रावणेन च धर्षितः।
दीनो दूरगृहः कामी मां चैव शरणं गतः ॥ ४.३०.६७ ॥
私は庇護者もなく、王国を奪われ、ラーヴァナに辱められ、哀れで、家から遠く、恋に苦しんでいる。それなのに彼は私に庇護を求めてやって来た。
4.30.68
इत्येतैः कारणैः सौम्य सुग्रीवस्य दुरात्मनः।
अहं वानरराजस्य परिभूतः परंतपः ॥ ४.३०.६८ ॥
これらの理由により、温和なる者よ、邪な心の猿王スグリーヴァに私は侮られた、敵を焼く者よ。
4.30.69
स कालं परिसंख्याय सीतायाः परिमार्गणे।
कृतार्थः समयं कृत्वा दुर्मतिर्नाववुध्यते ॥ ४.३०.६९ ॥
シーター捜索の期限を数えて約束を交わしたが、目的を果たした邪な者はそれに耳を貸さない。
4.30.70
स किष्किन्धां प्रविश्य त्वं ब्रूहि वानरपुङ्गवम्।
मूर्खं ग्राम्यसुखे सक्तं सुग्रीवं वचनान्मम ॥ ४.३०.७० ॥
キシュキンダーに入り、私の言葉として、猿の中の雄牛、愚かで田舎の快楽に執着するスグリーヴァにこう告げよ。
4.30.71
अर्थिनामुपपन्नानां पूर्वं चाप्युपकारिणाम्।
आशां संश्रुत्य यो हन्ति स लोके पुरुषाधमः ॥ ४.३०.७१ ॥
訪れた請願者や以前に恩恵を施してくれた人々に希望を与えておきながら、それを壊す者こそ、この世で最も卑しい人間である。
4.30.72
शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम्।
सत्येन परिगृह्णाति स वीरः पुरुषोत्तमः ॥ ४.३०.७२ ॥
語られた言葉が善であれ悪であれ、真実をもってそれを守る者、その英雄こそ人間の中の最高者である。
4.30.73
कृतार्था ह्यकृतार्थानां मित्राणां न भवन्ति ये।
तान् मृतानपि क्रव्यादाः कृतघ्नान् नोपभुञ्जते ॥ ४.३०.७३ ॥
自分の目的が果たされると、目的を遂げられない友を助けない者たちは、死んでも肉食の獣さえ食べない、あの恩知らずたちは。
4.30.74
नूनं काञ्चनपृष्ठस्य विकृष्टस्य मया रणे।
द्रष्टुमिच्छसि चापस्य रूपं विद्युद्गणोपमम् ॥ ४.३०.७४ ॥
きっと君は、私が戦いで引き絞る黄金の背の弓の姿を見たいのだろう。それは稲妻の群れのようだ。
4.30.75
घोरं ज्यातलनिर्घोषं क्रुद्धस्य मम संयुगे।
निर्घोषमिव वज्रस्य पुनः संश्रोतुमिच्छसि ॥ ४.३०.७५ ॥
君は、戦いで怒った私の弓弦の恐ろしい弦音を、雷霆の轟きのようなその音を、再び聞きたいのだろう。
4.30.76
काममेवंगतेऽप्यस्य परिज्ञाते पराक्रमे।
त्वत्सहायस्य मे वीर न चिन्ता स्यान्नृपात्मज ॥ ४.३०.७६ ॥
彼の武勇はこのように知られているが、勇士よ、王子よ、君が助けとなってくれるなら、私に憂いはないだろう。
4.30.77
यदर्थमयमारम्भः कृतः परपुरंजय।
समयं नाभिजानाति कृतार्थः प्लवगेश्वरः ॥ ४.३०.७७ ॥
敵の都を征服した者よ。この企ては目的のために始められたのに、猿の王はその目的を遂げた今、定められた期限を覚えていないのだ。
4.30.78
वर्षाः समयकालं तु प्रतिज्ञाय हरीश्वरः।
व्यतीतांश्चतुरो मासान् विहरन् नावबुध्यते ॥ ४.३०.७८ ॥
猿の王は雨季を定めの時として誓ったが、四か月が過ぎてもなお遊び戯れて、それに気づかないのだ。
4.30.79
सामात्यपरिषत्क्रीडन् पानमेवोपसेवते।
शोकदीनेषु नास्मासु सुग्रीवः कुरुते दयाम् ॥ ४.३०.७९ ॥
スグリーヴァは大臣や群臣と遊び戯れ、ただ酒を飲むことに耽っており、悲しみに打ちひしがれた我々に慈悲を示さない。
4.30.80
उच्यतां गच्छ सुग्रीवस्त्वया वीर महाबल।
मम रोषस्य यद्रूपं ब्रूयाश्चैनमिदं वचः ॥ ४.३०.८० ॥
勇士よ、大力の者よ!行ってスグリーヴァに告げよ。この言葉で、私の怒りがどのような姿であるかを彼に伝えよ。
4.30.81
न स संकुचितः पन्था येन वाली हतो गतः।
समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः ॥ ४.३०.८१ ॥
ヴァーリンが殺されて去った道は狭くはない。スグリーヴァよ、定められた時に堅く立て。ヴァーリンの道を辿ってはならない。
4.30.82
एक एव रणे वाली शरेण निहतो मया।
त्वां तु सत्यादतिक्रान्तं हनिष्यामि सबान्धवम् ॥ ४.३०.८२ ॥
戦いで私は独りヴァーリンを一本の矢で討ち取った。しかし真実を踏み越えたお前は、親族もろとも私が討つ。
4.30.83
यदेवं विहिते कार्ये यद्धितं पुरुषर्षभ।
तत् तद् ब्रूहि नरश्रेष्ठ त्वर कालव्यतिक्रमः ॥ ४.३०.८३ ॥
このように事が定まった今、利となることを告げよ。人中の最勝者よ、急げ。時を逸してはならない。
4.30.84
कुरुष्व सत्यं मम वानरेश्वर
प्रतिश्रुतं धर्ममवेक्ष्य शाश्वतम्।
मा वालिनं प्रेतगतो यमक्षये
त्वमद्य पश्येर्मम चोदितः शरैः ॥ ४.३०.८४ ॥
猿王よ、私への約束を果たせ。永遠の法を顧みよ。ヴァーリンのように死霊となってヤマの館へ行くな。今日、私の矢に駆り立てられて、お前もそれを見ることになる。
4.30.85
स पूर्वजं तीव्रविवृद्धकोपं
लालप्यमानं प्रसमीक्ष्य दीनम्।
चकार तीव्रां मतिमुग्रतेजा
हरीश्वरे मानववंशवर्धनः ॥ ४.३०.८५ ॥
人の一族を栄えさせる、烈しい威光の者は、悲しみに沈んで嘆く兄を見て、怒りは激しく募った。そして猿の王に対して厳しい決意を固めた。