Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 4.31

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.31.1

स कामिनं दीनमदीनसत्त्वं
शोकाभिपन्नं समुदीर्णकोपम्।
नरेन्द्रसूनुर्नरदेवपुत्रं
रामानुजः पूर्वजमित्युवाच ॥ ४.३१.१ ॥

对这个沉溺情欲、神情沮丧却意志不屈、陷入悲痛、怒气勃发的兄长,罗摩的幼弟、王子之子罗什曼那这样说道。

4.31.2

न वानरः स्थास्यति साधुवृत्ते
न मन्यते कर्मफलानुषङ्गान्।
न भोक्ष्यते वानरराज्यलक्ष्मीं
तथा हि नातिक्रमतेऽस्य बुद्धिः ॥ ४.३१.२ ॥

那只猴子不会坚守善人之道,也不顾念行为所带来的后果。他不会享有猴王国的荣耀,因为他的心智不会如此越轨。

4.31.3

मतिक्षयाद् ग्राम्यसुखेषु सक्त-
स्तव प्रसादात् प्रतिकारबुद्धिः।
हतोऽग्रजं पश्यतु वीरवालिनं
न राज्यमेवं विगुणस्य देयम् ॥ ४.३१.३ ॥

让那因失去判断而沉溺俗世之乐、因你的恩惠而心怀报复的须羯哩婆,看看杀害其兄长的英雄婆梨。这样的无德之人,不该将王国交给他。

4.31.4

न धारये कोपमुदीर्णवेगं
निहन्मि सुग्रीवमसत्यमद्य।
हरिप्रवीरैः सह वालिपुत्रो
नरेन्द्रपुत्र्या विचयं करोतु ॥ ४.३१.४ ॥

这股汹涌而起的愤怒我不会压制;今日我就要杀死那虚伪的须羯哩婆。让婆梨之子与猴中的最勇者一起去寻找王女。

4.31.5

तमात्तबाणासनमुत्पतन्तं
निवेदितार्थं रणचण्डकोपम्।
उवाच रामः परवीरहन्ता
स्ववीक्षितं सानुनयं च वाक्यम् ॥ ४.३१.५ ॥

对于那手持弓箭跃起、已表明心意、因战斗而怒不可遏的他,灭杀敌方英雄的罗摩看着自己,说出了温和的话语。

4.31.6

नहि वै त्वद्विधो लोके पापमेवं समाचरेत्।
कोपमार्येण यो हन्ति स वीरः पुरुषोत्तमः ॥ ४.३१.६ ॥

像你这样的人在世上不会做出这样的恶行。能以高尚之心克制愤怒的人,才是英雄,是人中的至尊。

4.31.7

नेदमत्र त्वया ग्राह्यं साधुवृत्तेन लक्ष्मण।
तां प्रीतिमनुवर्तस्व पूर्ववृत्तं च संगतम् ॥ ४.३१.७ ॥

罗什曼,你品行端正,不应在此采取此举。应当保持那份情谊,履行先前的约定。

4.31.8

सामोपहितया वाचा रूक्षाणि परिवर्जयन्।
वक्तुमर्हसि सुग्रीवं व्यतीतं कालपर्यये ॥ ४.३१.८ ॥

以和解的言语,避免粗暴之词,你应当与须羯哩婆说话,因为时机已经过去。

4.31.9

सोऽग्रजेनानुशिष्टार्थो यथावत् पुरुषर्षभः।
प्रविवेश पुरीं वीरो लक्ष्मणः परवीरहा ॥ ४.३१.९ ॥

罗什曼得到兄长恰当的指示后,这位人中雄杰、英雄、敌方勇士的摧毁者,走进了城中。

4.31.10

ततः शुभमतिः प्राज्ञो भ्रातुः प्रियहिते रतः।
लक्ष्मणः प्रतिसंरब्धो जगाम भवनं कपेः ॥ ४.३१.१० ॥

于是,心地善良、智慧的罗什曼,专心于兄长所喜爱与有益之事,虽仍怒气冲冲,却前往猴王的居所。

4.31.11

शक्रबाणासनप्रख्यं धनुः कालान्तकोपमम्।
प्रगृह्य गिरिशृङ्गाभं मन्दरः सानुमानिव ॥ ४.३१.११ ॥

他拿起如因陀罗之弓、如时间终结、如山峰般的弓,仿佛带着山坡的曼陀罗山。

4.31.12

यथोक्तकारी वचनमुत्तरं चैव सोत्तरम्।
बृहस्पतिसमो बुद्ध्या मत्वा रामानुजस्तदा ॥ ४.३१.१२ ॥

罗摩之弟罗什曼那,言行遵从,智慧堪比木星之师,于是斟酌后作答。

4.31.13

कामक्रोधसमुत्थेन भ्रातुः क्रोधाग्निना वृतः।
प्रभञ्जन इवाप्रीतः प्रययौ लक्ष्मणस्ततः ॥ ४.३१.१३ ॥

罗什曼那被兄长的怒火所笼罩,由欲与怒而生,怏怏不乐,如风一般从那里出发。

4.31.14

सालतालाश्वकर्णांश्च तरसा पातयन् बलात्।
पर्यस्यन् गिरिकूटानि द्रुमानन्यांश्च वेगितः ॥ ४.३१.१४ ॥

他猛力推倒娑罗、多罗及马耳树,又将山峰与其他树木掀翻,急速前行。

4.31.15

शिलाश्च शकलीकुर्वन् पद्भ्यां गज इवाशुगः।
दूरमेकपदं त्यक्त्वा ययौ कार्यवशाद् द्रुतम् ॥ ४.३१.१५ ॥

他以双足踏碎岩石,迅如大象,一步便将远路抛在身后,因有要事而急速前行。

4.31.16

तामपश्यद् बलाकीर्णां हरिराजमहापुरीम्।
दुर्गामिक्ष्वाकुशार्दूलः किष्किन्धां गिरिसंकटे ॥ ४.३१.१६ ॥

伊克锁库族的虎将罗什曼那,看见了猴王那座大城基什坎陀,城中人才济济,城防坚固,位于山谷险隘之中。

4.31.17

रोषात् प्रस्फुरमाणोष्ठः सुग्रीवं प्रति लक्ष्मणः।
ददर्श वानरान् भीमान् किष्किन्धायां बहिश्चरान् ॥ ४.३१.१७ ॥

罗什曼那怒气使双唇颤抖,他望向须羯哩婆,又看见基什坎陀城外游荡的凶猛猴兵。

4.31.18

तं दृष्ट्वा वानराः सर्वे लक्ष्मणं पुरुषर्षभम्।
शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान्।
जगृहुः कुञ्जरप्रख्या वानराः पर्वतान्तरे ॥ ४.३१.१८ ॥

众猴见到人中之牛罗什曼那,皆如大象,成百地抓起山峰与高大的树木;在群山之中,他们把它们取了起来。

4.31.19

तान् गृहीतप्रहरणान् सर्वान् दृष्ट्वा तु लक्ष्मणः।
बभूव द्विगुणं क्रुद्धो बह्विन्धन इवानलः ॥ ४.३१.१९ ॥

罗什曼那见他们个个手持武器,怒气加倍,如同柴火堆积的烈火。

4.31.20

तं ते भयपरीताङ्गा क्षुब्धं दृष्ट्वा प्लवंगमाः।
कालमृत्युयुगान्ताभं शतशो विद्रुता दिशः ॥ ४.३१.२० ॥

众猴见他怒气勃发,如同时间、死亡与劫末,个个吓得四肢发抖,成百地向四方逃散。

4.31.21

ततः सुग्रीवभवनं प्रविश्य हरिपुंगवाः।
क्रोधमागमनं चैव लक्ष्मणस्य न्यवेदयन् ॥ ४.३१.२१ ॥

随后,诸猴中的英杰进入须羯哩婆的宫殿,禀报罗什曼那的愤怒与他的到来。

4.31.22

तारया सहितः कामी सक्तः कपिवृषस्तदा।
न तेषां कपिसिंहानां शुश्राव वचनं तदा ॥ ४.३१.२२ ॥

那时,猴中之牛与多罗在一起,沉溺情欲,未曾听取那些如狮子般的猴子的话语。

4.31.23

ततः सचिवसंदिष्टा हरयो रोमहर्षणाः।
गिरिकुञ्जरमेघाभा नगरान्निर्ययुस्तदा ॥ ४.३१.२३ ॥

随后,奉大臣之命的诸猴,形貌令人毛发竖立,如山中之象、如云团一般,便从城中出发了。

4.31.24

नखदंष्ट्रायुधाः सर्वे वीरा विकृतदर्शनाः।
सर्वे शार्दूलदंष्ट्राश्च सर्वे विवृतदर्शनाः ॥ ४.३१.२४ ॥

这些以指甲和牙齿为武器的英雄,个个相貌可怖。他们都长着虎牙,牙齿全都露在外面。

4.31.25

दशनागबलाः केचित् केचिद् दशगुणोत्तराः।
केचिन्नागसहस्रस्य बभूवुस्तुल्यवर्चसः ॥ ४.३१.२५ ॥

有的人拥有十头象的力量,有的人则是其十倍。有的人的威势与力量等同于千头象。

4.31.26

ततस्तैः कपिभिर्व्याप्तां द्रुमहस्तैर्महाबलैः।
अपश्यल्लक्ष्मणः क्रुद्धः किष्किन्धां तां दुरासदाम् ॥ ४.३१.२६ ॥

于是愤怒的罗什曼那看见了基什根达城,城中充满了那些以树枝为手的大力猴子,令人难以接近。

4.31.27

ततस्ते हरयः सर्वे प्राकारपरिखान्तरात्।
निष्क्रम्योदग्रसत्त्वास्तु तस्थुराविष्कृतं तदा ॥ ४.३१.२७ ॥

于是那些勇气十足的猴子们全都从城墙与壕沟之内走出,公然站立在那里。

4.31.28

सुग्रीवस्य प्रमादं च पूर्वजस्यार्थमात्मवान्।
दृष्ट्वा क्रोधवशं वीरः पुनरेव जगाम सः ॥ ४.३१.२८ ॥

看到须羯哩婆的疏忽以及兄长的使命,那位自制的英雄被愤怒所支配,再次向前走去。

4.31.29

स दीर्घोष्णमहोच्छ्वासः कोपसंरक्तलोचनः।
बभूव नरशार्दूलः सधूम इव पावकः ॥ ४.३१.२९ ॥

这位人中猛虎长长地喘着灼热的粗气,双眼因愤怒而通红,仿佛冒着浓烟的烈火。

4.31.30

बाणशल्यस्फुरज्जिह्वः सायकासनभोगवान्।
स्वतेजोविषसम्भूतः पञ्चास्य इव पन्नगः ॥ ४.३१.३० ॥

箭头如舌头般闪动,以箭与弓为盘绕之身,生于自身光辉之毒,他仿佛是五头之蛇。

4.31.31

तं दीप्तमिव कालाग्निं नागेन्द्रमिव कोपितम्।
समासाद्याङ्गदस्त्रासाद् विषादमगमत् परम् ॥ ४.३१.३१ ॥

走近他——他如劫火燃烧,如愤怒的蛇王——安伽陀因恐惧而陷入极深的忧伤。

4.31.32

सोऽङ्गदं रोषताम्राक्षः संदिदेश महायशाः।
सुग्रीवः कथ्यतां वत्स ममागमनमित्युत ॥ ४.३१.३२ ॥

大名远扬的须羯里婆怒目赤红,对安伽陀吩咐道:“孩子,你去告知我的到来。”

4.31.33

एष रामानुजः प्राप्तस्त्वत्सकाशमरिंदम।
भ्रातुर्व्यसनसंतप्तो द्वारि तिष्ठति लक्ष्मणः ॥ ४.३१.३३ ॥

“降伏敌人者啊,罗摩的幼弟罗什曼那已来到你面前。为兄长的灾难所煎熬的罗什曼那,正站在门口。”

4.31.34

तस्य वाक्यं यदि रुचिः क्रियतां साधु वानर।
इत्युक्त्वा शीघ्रमागच्छ वत्स वाक्यमरिंदम ॥ ४.३१.३४ ॥

“猴子啊,若他的话合你心意,就好好去办。”说罢:“孩子,降伏敌人者啊,快些回来。”

4.31.35

लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टोऽङ्गदोऽब्रवीत्।
पितुः समीपमागम्य सौमित्रिरयमागतः ॥ ४.३१.३५ ॥

安伽陀听到罗什曼那的话,为悲伤所攫,说道:“来到父王近前的,便是这位苏弥多罗之子(罗什曼那)。”

4.31.36

अथाङ्गदस्तस्य सुतीव्रवाचा
सम्भ्रान्तभावः परिदीनवक्त्रः।
निर्गत्य पूर्वं नृपतेस्तरस्वी
ततो रुमायाश्चरणौ ववन्दे ॥ ४.३१.३६ ॥

于是,安伽陀听到那严厉的话语,心神慌乱,面容憔悴,先从国王面前退出,然后向鲁玛的双足行礼。

4.31.37

संगृह्य पादौ पितुरुग्रतेजा
जग्राह मातुः पुनरेव पादौ।
पादौ रुमायाश्च निपीडयित्वा
निवेदयामास ततस्तदर्थम् ॥ ४.३१.३७ ॥

勇猛光辉的安伽陀抱住父亲的双足,又抱住母亲的双足;按压鲁玛的双足之后,才把缘由禀告。

4.31.38

स निद्राक्लान्तसंवीतो वानरो न विबुद्धवान्।
बभूव मदमत्तश्च मदनेन च मोहितः ॥ ४.३१.३८ ॥

那只猴子被睡意困倦地包裹着,没有醒来;他因醉意而狂乱,又被情欲所迷惑。

4.31.39

ततः किलकिलां चक्रुर्लक्ष्मणं प्रेक्ष्य वानराः।
प्रसादयन्तस्तं क्रुद्धं भयमोहितचेतसः ॥ ४.३१.३९ ॥

于是猴子们见罗什曼那愤怒,便发出尖锐的喧嚷;心神因恐惧而迷乱,他们试图平息他的怒气。

4.31.40

ते महौघनिभं दृष्ट्वा वज्राशनिसमस्वनम्।
सिंहनादं समं चक्रुर्लक्ष्मणस्य समीपतः ॥ ४.३१.४० ॥

他们见到他如大洪水般,声音如金刚雷电,便在罗什曼那身边齐声发出狮子吼。

4.31.41

तेन शब्देन महता प्रत्यबुध्यत वानरः।
मदविह्वलताम्राक्षो व्याकुलः स्रग्विभूषणः ॥ ४.३१.४१ ॥

那巨大的声响中,那猴子醒了过来;双眼因醉意而发红迷乱,心神不宁,身上戴着花环与饰物。

4.31.42

अथाङ्गदवचः श्रुत्वा तेनैव च समागतौ।
मन्त्रिणौ वानरेन्द्रस्य सम्मतोदारदर्शनौ ॥ ४.३१.४२ ॥

于是,听了安伽陀的话,与他一同前来的,是猴王的两位大臣,他们受人敬重,相貌高贵。

4.31.43

प्लक्षश्चैव प्रभावश्च मन्त्रिणावर्थधर्मयोः।
वक्तुमुच्चावचं प्राप्तं लक्ष्मणं तौ शशंसतुः ॥ ४.३१.४३ ॥

普拉克莎与普拉跋婆,二位掌管利益与法义的大臣,前来对罗什曼那述说各种大小事务,二人向他作了禀告。

4.31.44

प्रसादयित्वा सुग्रीवं वचनैः सार्थनिश्चितैः।
आसीनं पर्युपासीनौ यथा शक्रं मरुत्पतिम् ॥ ४.३१.४४ ॥

二人以有意义而坚定的话语使苏格利婆欢心,坐在端坐的他身旁,正如人们环绕摩录多之主因陀罗而坐。

4.31.45

सत्यसंधौ महाभागौ भ्रातरौ रामलक्ष्मणौ।
मनुष्यभावं सम्प्राप्तौ राज्यार्हौ राज्यदायिनौ ॥ ४.३१.४५ ॥

守信的、大福的兄弟罗摩与罗什曼那,已化为人身;他们配得王位,也是赐予王国的人。

4.31.46

तयोरेको धनुष्पाणिर्द्वारि तिष्ठति लक्ष्मणः।
यस्य भीताः प्रवेपन्तो नादान् मुञ्चन्ति वानराः ॥ ४.३१.४६ ॥

二人中的一位罗什曼那,手持弓箭,站在门口;猴子们因惧怕他而战栗,发出阵阵叫声。

4.31.47

स एष राघवभ्राता लक्ष्मणो वाक्यसारथिः।
व्यवसायरथः प्राप्तस्तस्य रामस्य शासनात् ॥ ४.३१.४७ ॥

这位便是罗怙王之子的兄弟罗什曼那,以言语为御者,以决心为战车,奉罗摩之命而来。

4.31.48

अयं च तनयो राजंस्ताराया दयितोऽङ्गदः।
लक्ष्मणेन सकाशं ते प्रेषितस्त्वरयानघ ॥ ४.३१.४८ ॥

大王,此乃塔拉所爱之子安伽陀,罗什曼那急遣他来见您,无罪者啊。

4.31.49

सोऽयं रोषपरीताक्षो द्वारि तिष्ठति वीर्यवान्।
वानरान् वानरपते चक्षुषा निर्दहन्निव ॥ ४.३१.४९ ॥

猴王啊,那位勇猛之人眼中充满怒火,站在门口,仿佛要以目光焚烧众猴。

4.31.50

तस्य मूर्ध्ना प्रणामं त्वं सपुत्रः सहबान्धवः।
गच्छ शीघ्रं महाराज रोषो ह्यद्योपशाम्यताम् ॥ ४.३१.५० ॥

大王啊,你应速与诸子及亲族前往,向他俯首敬礼,使他的怒气今日便得平息。

4.31.51

यथा हि रामो धर्मात्मा तत्कुरुष्व समाहितः।
राजंस्तिष्ठ स्वसमये भव सत्यप्रतिश्रवः ॥ ४.३१.५१ ॥

依照正法之心的罗摩所言,专心去做吧。大王,坚守你的约定,做一个言而有信的人。