蚁垤《罗摩衍那》 · 篇 4.34
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.34.1
तमप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम्।
सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः ॥ ४.३४.१ ॥
苏羯利婆见到愤怒而毫无阻拦走入的人中之雄罗什曼那,心神为之慌乱。
4.34.2
क्रुद्धं निःश्वसमानं तं प्रदीप्तमिव तेजसा।
भ्रातुर्व्यसनसंतप्तं दृष्ट्वा दशरथात्मजम् ॥ ४.३४.२ ॥
见十车王之子愤怒地喘息,光辉如同烈焰,因兄长的灾难而悲痛煎熬。
4.34.3
उत्पपात हरिश्रेष्ठो हित्वा सौवर्णमासनम्।
महान् महेन्द्रस्य यथा स्वलंकृत इव ध्वजः ॥ ४.३४.३ ॥
猴中之首跃身而起,离开金座,如同因陀罗高大而装饰精美的旗幡。
4.34.4
उत्पतन्तमनूत्पेतू रुमाप्रभृतयः स्त्रियः।
सुग्रीवं गगने पूर्णं चन्द्रं तारागणा इव ॥ ४.३४.४ ॥
随着苏羯利婆跃起,如露摩等众女也一同起身,犹如群星环绕天空中的满月。
4.34.5
संरक्तनयनः श्रीमान् संचचार कृताञ्जलिः।
बभूवावस्थितस्तत्र कल्पवृक्षो महानिव ॥ ४.३४.५ ॥
双眼通红、双手合十的光辉苏羯利婆来回走动;他在那里站定,宛如一棵大如意树。
4.34.6
रुमाद्वितीयं सुग्रीवं नारीमध्यगतं स्थितम्।
अब्रवील्लक्ष्मणः क्रुद्धः सतारं शशिनं यथा ॥ ४.३४.६ ॥
愤怒的罗什曼那对身处众女之中、与露摩同在的苏羯利婆说话,如同对伴随星辰的月亮言语。
4.34.7
सत्त्वाभिजनसम्पन्नः सानुक्रोशो जितेन्द्रियः।
कृतज्ञः सत्यवादी च राजा लोके महीयते ॥ ४.३४.७ ॥
具有高尚品性与高贵出身、怀有慈悲、克制诸根、知恩且诚实的君王,会在世间受到尊崇。
4.34.8
यस्तु राजा स्थितोऽधर्मे मित्राणामुपकारिणाम्।
मिथ्या प्रतिज्ञां कुरुते को नृशंसतरस्ततः ॥ ४.३४.८ ॥
对曾经相助的朋友,身处不义而背弃誓言的君王,还有谁比他更残忍?
4.34.9
शतमश्वानृते हन्ति सहस्रं तु गवानृते।
आत्मानं स्वजनं हन्ति पुरुषः पुरुषानृते ॥ ४.३४.९ ॥
关于马的虚假誓言害死一百人,关于牛的害死一千人;而关于人的虚假誓言,则害死自己和自己的亲族。
4.34.10
पूर्वं कृतार्थो मित्राणां न तत्प्रतिकरोति यः।
कृतघ्नः सर्वभूतानां स वध्यः प्लवगेश्वर ॥ ४.३४.१० ॥
昔日朋友助其成事,若他不予报答,便是对一切众生的忘恩负义之人;猴王啊,此人应当被诛。
4.34.11
गीतोऽयं ब्रह्मणा श्लोकः सर्वलोकनमस्कृतः।
दृष्ट्वा कृतघ्नं क्रुद्धेन तन्निबोध प्लवंगम ॥ ४.३४.११ ॥
此偈为三界所敬,乃梵天所吟;梵天见忘恩之人而怒,遂作此语。猴中之最,请听之。
4.34.12
गोघ्ने चैव सुरापे च चौरे भग्नव्रते तथा।
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ ४.३४.१२ ॥
杀牛者、饮酒者、窃贼及违背誓愿者,贤人已规定赎罪之法;然而对忘恩负义之人,则无赎罪。
4.34.13
अनार्यस्त्वं कृतघ्नश्च मिथ्यावादी च वानर।
पूर्वं कृतार्थो रामस्य न तत्प्रतिकरोषि यत् ॥ ४.३४.१३ ॥
猴子啊,你卑劣、忘恩负义、又说谎;你的目的先前已由罗摩成就,你却不回报他。
4.34.14
ननु नाम कृतार्थेन त्वया रामस्य वानर।
सीताया मार्गणे यत्नः कर्तव्यः कृतमिच्छता ॥ ४.३४.१४ ॥
猴子啊,你的目的既已借罗摩之力达成,就应当努力寻找悉多;希望得到恩惠的人,应当报答恩惠。
4.34.15
स त्वं ग्राम्येषु भोगेषु सक्तो मिथ्याप्रतिश्रवः।
न त्वां रामो विजानीते सर्पं मण्डूकराविणम् ॥ ४.३४.१५ ॥
你沉溺于世俗的享乐,又是违背诺言之人;罗摩并不认识你,就像人们认不出那像青蛙一样呱呱叫的蛇。
4.34.16
महाभागेन रामेण पापः करुणवेदिना।
हरीणां प्रापितो राज्यं त्वं दुरात्मा महात्मना ॥ ४.३४.१६ ॥
罪人啊,恶毒之徒!正是由于大福大德、心怀慈悲的大德罗摩,你才得到了猴族的王国。
4.34.17
कृतं चेन्नातिजानीषे राघवस्य महात्मनः।
सद्यस्त्वं निशितैर्बाणैर्हतो द्रक्ष्यसि वालिनम् ॥ ४.३४.१७ ॥
若你不感念伟大的罗怙后裔的恩德,你将立即被利箭射倒,去见婆梨。
4.34.18
न स संकुचितः पन्था येन वाली हतो गतः।
समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः ॥ ४.३४.१८ ॥
婆梨被杀而去所经之路并不狭窄;苏格利婆啊,要坚守约定,不要走上婆梨的道路。
4.34.19
न नूनमिक्ष्वाकुवरस्य कार्मुका-
च्छरांश्च तान् पश्यसि वज्रसंनिभान्।
ततः सुखं नाम विषेवसे सुखी
न रामकार्यं मनसाप्यवेक्षसे ॥ ४.३४.१९ ॥
难道你没有看见伊叉婆迦族最优秀的罗摩之弓射出的那些如雷霆般的箭吗?你沉溺于安乐,心中竟不思罗摩之事。