Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 4.36

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.36.1

इत्युक्तस्तारया वाक्यं प्रश्रितं धर्मसंहितम्।
मृदुस्वभावः सौमित्रिः प्रतिजग्राह तद्वचः ॥ ४.३६.१ ॥

塔拉如此说话后,性情温和的苏弥德罗(罗什曼那)接受了这些谦逊而合乎法义的话语。

4.36.2

तस्मिन् प्रतिगृहीते तु वाक्ये हरिगणेश्वरः।
लक्ष्मणात् सुमहत् त्रासं वस्त्रं क्लिन्नमिवात्यजत् ॥ ४.३६.२ ॥

罗什曼那接受了这些话后,猴群之主便抛开了对罗什曼那的极大恐惧,如同脱去湿衣一般。

4.36.3

ततः कण्ठगतं माल्यं चित्रं बहुगुणं महत्।
चिच्छेद विमदश्चासीत् सुग्रीवो वानरेश्वरः ॥ ४.३६.३ ॥

于是,猴王苏格利瓦扯断了挂在颈上的那串色彩斑斓、由许多股线组成的大花环,醉意也随之消散。

4.36.4

स लक्ष्मणं भीमबलं सर्ववानरसत्तमः।
अब्रवीत् प्रश्रितं वाक्यं सुग्रीवः सम्प्रहर्षयन् ॥ ४.३६.४ ॥

猴群中最优秀的苏格利瓦,以谦恭的言辞对力量可怖的罗什曼那说话,使他欢喜。

4.36.5

प्रणष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम्।
रामप्रसादात् सौमित्रे पुनश्चाप्तमिदं मया ॥ ४.३६.५ ॥

苏弥德罗之子啊!我失去的吉祥与名声,以及猴子们永恒的王国,都是因罗摩的恩德而重新归我所有。

4.36.6

कः शक्तस्तस्य देवस्य ख्यातस्य स्वेन कर्मणा।
तादृशं प्रतिकुर्वीत अंशेनापि नृपात्मज ॥ ४.३६.६ ॥

王子啊!谁能够以哪怕一部分的回报,偿还那位因自身功业而闻名、如神一般的罗摩如此的恩德呢?

4.36.7

सीतां प्राप्स्यति धर्मात्मा वधिष्यति च रावणम्।
सहायमात्रेण मया राघवः स्वेन तेजसा ॥ ४.३६.७ ॥

德行高尚的罗伽婆将得回悉多,并杀死罗波那。即便只有我这样一个助手,罗伽婆也将凭自身的威力完成此事。

4.36.8

सहायकृत्यं किं तस्य येन सप्त महाद्रुमाः।
गिरिश्च वसुधा चैव बाणेनैकेन दारिताः ॥ ४.३६.८ ॥

以一支箭便劈开七棵大树、一座山和大地的人,何须助手?

4.36.9

धनुर्विस्फारमाणस्य यस्य शब्देन लक्ष्मण।
सशैला कम्पिता भूमिः सहायैः किं नु तस्य वै ॥ ४.३६.९ ॥

罗什曼那啊,那人以其弓弦之声震动大地与群山,何须助手?

4.36.10

अनुयात्रां नरेन्द्रस्य करिष्येऽहं नरर्षभ।
गच्छतो रावणं हन्तुं वैरिणं सपुरस्सरम् ॥ ४.३६.१० ॥

人中之雄啊,当人王前往诛杀仇敌罗波那及其先锋之时,我将随行护送。

4.36.11

यदि किंचिदतिक्रान्तं विश्वासात् प्रणयेन वा।
प्रेष्यस्य क्षमितव्यं मे न कश्चिन्नापराध्यति ॥ ४.३६.११ ॥

若因信任或亲近而有所逾越,望将我这作为仆从的过失宽恕;原本无人会冒犯。

4.36.12

अभवल्लक्ष्मणः प्रीतः प्रेम्णा चेदमुवाच ह ॥ ४.३६.१२ ॥

罗什曼那心中欢喜,满怀亲情地说了这番话。

4.36.13

सर्वथा हि मम भ्राता सनाथो वानरेश्वर।
त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः ॥ ४.३६.१३ ॥

猴王之主啊,须羯羅,我的兄长在各方面都有了依靠,因为你这谦逊的主人,尤其如此。

4.36.14

यस्ते प्रभावः सुग्रीव यच्च ते शौचमीदृशम्।
अर्हस्त्वं कपिराज्यस्य श्रियं भोक्तुमनुत्तमाम् ॥ ४.३६.१४ ॥

须羯羅啊,凭你的威势和你这般的纯洁,你配享受猴国至高的荣光。

4.36.15

सहायेन च सुग्रीव त्वया रामः प्रतापवान्।
वधिष्यति रणे शत्रूनचरान्नात्र संशयः ॥ ४.३६.१५ ॥

须羯羅啊,有你相助,威武的罗摩将在战场上很快击杀敌人,此事毫无疑问。

4.36.16

धर्मज्ञस्य कृतज्ञस्य संग्रामेष्वनिवर्तिनः।
उपपन्नं च युक्तं च सुग्रीव तव भाषितम् ॥ ४.३६.१६ ॥

关于知法、感恩、在战阵中从不退缩的罗摩,须羯羅啊,你所说的话恰当而合理。

4.36.17

दोषज्ञः सति सामर्थ्ये कोऽन्यो भाषितुमर्हति।
वर्जयित्वा मम ज्येष्ठं त्वां च वानरसत्तम ॥ ४.३६.१७ ॥

猴中之最,除我的兄长和你之外,还有谁懂得过失、又有能力,配这样说话呢?

4.36.18

सदृशश्चासि रामेण विक्रमेण बलेन च।
सहायो दैवतैर्दत्तश्चिराय हरिपुंगव ॥ ४.३६.१८ ॥

猴中之最啊,你在勇力与力量上与罗摩相等,诸神将你赐予为长久的盟友。

4.36.19

किं तु शीघ्रमितो वीर निष्क्रम त्वं मया सह।
सान्त्वयस्व वयस्यं च भार्याहरणदुःखितम् ॥ ४.३६.१९ ॥

但是,英雄啊,现在快随我离开此地,去安慰因妻子被劫而悲痛的朋友吧。

4.36.20

यच्च शोकाभिभूतस्य श्रुत्वा रामस्य भाषितम्।
मया त्वं परुषाण्युक्तस्तत् क्षमस्व सखे मम ॥ ४.३६.२० ॥

我听了悲痛所困的罗摩的话,便对你说了粗暴的话;朋友啊,请为我原谅它们。