Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 4.40

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.40.1

अथ राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरः।
उवाच नरशार्दूलं रामं परबलार्दनम् ॥ ४.४०.१ ॥

于是目的已达成的猴王之主须羯哩婆对敌军的摧毁者、人中之虎罗摩说道。

4.40.2

आगता विनिविष्टाश्च बलिनः कामरूपिणः।
वानरेन्द्रा महेन्द्राभा ये मद्विषयवासिनः ॥ ४.४०.२ ॥

居住在我国中的猴王们已经到来并就座:他们强大,能随意变化形态,光辉如大因陀罗。

4.40.3

त इमे बहुविक्रान्तैर्बलिभिर्भीमविक्रमैः।
आगता वानरा घोरा दैत्यदानवसंनिभाः ॥ ४.४०.३ ॥

这些猴子,威力极大,强大,勇武骇人,已经到来,凶猛如提耶与檀那婆。

4.40.4

ख्यातकर्मापदानाश्च बलवन्तो जितक्लमाः।
पराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः ॥ ४.४०.४ ॥

以事迹和功勋闻名,强大,已战胜疲劳,以勇武著称,在果决行动上最为出众。

4.40.5

पृथिव्यम्बुचरा राम नानानगनिवासिनः।
कोट्योघाश्च इमे प्राप्ता वानरास्तव किंकराः ॥ ४.४०.५ ॥

罗摩啊,这些在陆地与水中行走、居于众多山岳的猴子,成千上万地来到,他们是你的仆从。

4.40.6

निदेशवर्तिनः सर्वे सर्वे गुरुहिते स्थिताः।
अभिप्रेतमनुष्ठातुं तव शक्ष्यन्त्यरिंदम ॥ ४.४०.६ ॥

他们都遵从命令,都忠于主上的利益;降伏敌人者啊,他们能够完成你的心愿。

4.40.7

त इमे बहुसाहस्रैरनीकैर्भीमविक्रमैः।
आगता वानरा घोरा दैत्यदानवसंनिभाः ॥ ४.४०.७ ॥

那些凶猛的猴族,率领数以千计、威力骇人的大军而来,如同提婆与檀那婆一般。

4.40.8

यन्मन्यसे नरव्याघ्र प्राप्तकालं तदुच्यताम्।
त्वत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि ॥ ४.४०.८ ॥

人中之虎啊,请说出您认为恰当的时机。您的大军听从您的调遣,您完全有资格下达命令。

4.40.9

काममेषामिदं कार्यं विदितं मम तत्त्वतः।
तथापि तु यथायुक्तमाज्ञापयितुमर्हसि ॥ ४.४०.९ ॥

诚然,他们此行的使命我确实清楚;但您仍应按照恰当的方式下达命令。

4.40.10

तथा ब्रुवाणं सुग्रीवं रामो दशरथात्मजः।
बाहुभ्यां सम्परिष्वज्य इदं वचनमब्रवीत् ॥ ४.४०.१० ॥

须羯哩婆如此说话时,十车王之子罗摩以双臂拥抱他,并说了这些话。

4.40.11

ज्ञायतां सौम्य वैदेही यदि जीवति वा न वा।
स च देशो महाप्राज्ञ यस्मिन् वसति रावणः ॥ ४.४०.११ ॥

善友啊,请查明毗提诃公主是否尚在人间;大智者啊,也请查明罗波那所居之处。

4.40.12

अधिगम्य तु वैदेहीं निलयं रावणस्य च।
प्राप्तकालं विधास्यामि तस्मिन् काले सह त्वया ॥ ४.४०.१२ ॥

待找到毗提诃公主与罗波那的居所之后,到了恰当的时候,我便与你一同行动。

4.40.13

नाहमस्मिन् प्रभुः कार्ये वानरेन्द्र न लक्ष्मणः।
त्वमस्य हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर ॥ ४.४०.१३ ॥

此事之主,非我亦非罗什曼那。猴王啊,此事的根源与主宰正是你。

4.40.14

त्वमेवाज्ञापय विभो मम कार्यविनिश्चयम्।
त्वं हि जानासि मे कार्यं मम वीर न संशयः ॥ ४.४०.१४ ॥

威武者啊,请你亲自决定我的行动。英雄啊,你必知我的意图,毫无疑问。

4.40.15

सुहृद्द्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित्।
भवानस्मद्धिते युक्तः सुहृदाप्तोऽर्थवित्तमः ॥ ४.४०.१५ ॥

你勇猛,有朋友相伴,智慧,懂得把握时机。你致力于我们的福祉,是可信赖的朋友,最通晓此事的道理。

4.40.16

एवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम्।
अब्रवीद् रामसांनिध्ये लक्ष्मणस्य च धीमतः ॥ ४.४०.१६ ॥

如此说完,须羯哩婆对名为毗那多的猴将说话,当着罗摩与智慧的罗什曼那的面。

4.40.17

शैलाभं मेघनिर्घोषमूर्जितं प्लवगेश्वरम्।
सोमसूर्यनिभैः सार्धं वानरैर्वानरोत्तम ॥ ४.४०.१७ ॥

请派遣如山岳、声如雷云的威猛猴王,与如日月般的猿众同行,猴中之最。

4.40.18

देशकालनयैर्युक्तो विज्ञः कार्यविनिश्चये।
वृतः शतसहस्रेण वानराणां तरस्विनाम् ॥ ४.४०.१८ ॥

他通晓地点、时机与策略,善于决断事务,应率十万迅猛有力的猿众前往。

4.40.19

अधिगच्छ दिशं पूर्वां सशैलवनकाननाम्।
तत्र सीतां च वैदेहीं निलयं रावणस्य च ॥ ४.४०.१९ ॥

前往东方,那里有山峦、森林与园林。在那里寻找毗提诃公主悉多,以及罗波那的居所。

4.40.20

मार्गध्वं गिरिदुर्गेषु वनेषु च नदीषु च।
नदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा ॥ ४.४०.२० ॥

在山中要塞、森林与河流中搜寻:秀美的婆吉罗提河、萨拉尤河,以及考希基河。

4.40.21

कालिन्दीं यमुनां रम्यां यामुनं च महागिरिम्।
सरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम् ॥ ४.४०.२१ ॥

寻找迦林狄河、秀美的亚穆纳河、大山亚穆那、萨罗室伐底河、信度河,以及水如宝珠的首那河。

4.40.22

महीं कालमहीं चापि शैलकाननशोभिताम्।
ब्रह्ममालान् विदेहांश्च मालवान् काशिकोसलान् ॥ ४.४०.२२ ॥

也要搜寻以山林装点的迦罗摩呵地区;以及梵摩马拉人、毗提诃人、摩罗婆人、迦尸人与憍萨罗人的国土。

4.40.23

मागधांश्च महाग्रामान् पुण्ड्रांस्त्वङ्गांस्तथैव च।
भूमिं च कोशकाराणां भूमिं च रजताकराम् ॥ ४.४०.२३ ॥

搜寻摩揭陀人与大村落,以及补罗人与盎伽人;还有库夹卡拉人之地与产银矿之地。

4.40.24

सर्वं च तद् विचेतव्यं मार्गयद्भिस्ततस्ततः।
रामस्य दयितां भार्यां सीतां दशरथस्नुषाम् ॥ ४.४०.२४ ॥

凡寻找者,皆应处处搜寻这一切——寻找罗摩心爱的妻子、十车王的儿媳悉多。

4.40.25

समुद्रमवगाढांश्च पर्वतान् पत्तनानि च।
मन्दरस्य च ये कोटिं संश्रिताः केचिदालयाः ॥ ४.४०.२५ ॥

沉没于大海中的山脉与城市,以及坐落在曼陀罗山峰顶的一些住所。

4.40.26

कर्णप्रावरणाश्चैव तथा चाप्योष्ठकर्णकाः।
घोरलोहमुखाश्चैव जवनाश्चैकपादकाः ॥ ४.४०.२६ ॥

以耳为披衣者、唇与耳相同者、面目如可怖铁器者、迅捷者,以及独足者。

4.40.27

अक्षया बलवन्तश्च तथैव पुरुषादकाः।
किरातास्तीक्ष्णचूडाश्च हेमाभाः प्रियदर्शनाः ॥ ४.४०.२७ ॥

不朽而强大者,亦有食人者,有尖髻的吉罗多人,金色而令人喜悦者。

4.40.28

आममीनाशनाश्चापि किराता द्वीपवासिनः।
अन्तर्जलचरा घोरा नरव्याघ्रा इति स्मृताः ॥ ४.४०.२८ ॥

生食鱼者、居于岛上的吉罗多人,以及在水中穿行的可怖人中虎——人们如此称述。

4.40.29

एतेषामाश्रयाः सर्वे विचेयाः काननौकसः।
गिरिभिर्ये च गम्यन्ते प्लवनेन प्लवेन च ॥ ४.४०.२९ ॥

他们的所有居所都必须搜寻,林中的猴子们啊,包括那些可以翻越山岭、游泳或跳跃抵达的地方。

4.40.30

यत्नवन्तो यवद्वीपं सप्तराजोपशोभितम्।
सुवर्णरूप्यकद्वीपं सुवर्णाकरमण्डितम् ॥ ४.४०.३० ॥

要用心搜寻爪哇岛,它以七个王国而庄严;还有金银岛,它以金矿而装饰。

4.40.31

यवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः।
दिवं स्पृशति शृङ्गेण देवदानवसेवितः ॥ ४.४०.३१ ॥

越过爪哇岛,有一座名为湿婆罗(Śiśira)的山,山峰触及天空,为天神与阿修罗所常至。

4.40.32

एतेषां गिरिदुर्गेषु प्रपातेषु वनेषु च।
मार्गध्वं सहिताः सर्वे रामपत्नीं यशस्विनीम् ॥ ४.४०.३२ ॥

在这些山中堡垒、悬崖与森林之中,你们大家同去寻找光荣的罗摩之妻。

4.40.33

ततो रक्तजलं प्राप्य शोणाख्यं शीघ्रवाहिनम्।
गत्वा पारं समुद्रस्य सिद्धचारणसेवितम् ॥ ४.४०.३३ ॥

随后抵达名为肖纳(Śoṇa)的河流,其水赤红,流速迅疾;越过大海彼岸,那里为悉陀与遮罗那所常至。

4.40.34

तस्य तीर्थेषु रम्येषु विचित्रेषु वनेषु च।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ४.४०.३४ ॥

在它美丽的圣渡口与奇异的森林中,须到处寻找罗波那与毗提诃。

4.40.35

पर्वतप्रभवा नद्यः सुभीमबहुनिष्कुटाः।
मार्गितव्या दरीमन्तः पर्वताश्च वनानि च ॥ ४.४०.३५ ॥

发源于山中的河流,多有可怖的幽谷;有洞穴的山岭与森林,皆须搜寻。

4.40.36

ततः समुद्रद्वीपांश्च सुभीमान् द्रष्टुमर्हथ।
ऊर्मिमन्तं महारौद्रं क्रोशन्तमनिलोद्धतम् ॥ ४.४०.३६ ॥

随后你们还应察看海中极其可怖的岛屿——波涛汹涌、极为凶猛、咆哮、被风掀起的大海。

4.40.37

तत्रासुरा महाकायाश्छायां गृह्णन्ति नित्यशः।
ब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः ॥ ४.४०.३७ ॥

那里的巨形阿修罗不断抓取影子,得到梵天的允许,长久饥饿。

4.40.38

तं कालमेघप्रतिमं महोरगनिषेवितम्।
अभिगम्य महानादं तीर्थेनैव महोदधिम् ॥ ४.४०.३८ ॥

抵达那片如乌云般的大海,那里有大蛇栖息,怒吼轰鸣,就从它的渡口而过。

4.40.39

ततो रक्तजलं भीमं लोहितं नाम सागरम्।
गत्वा प्रेक्ष्यथ तां चैव बृहतीं कूटशाल्मलीम् ॥ ४.४०.३९ ॥

然后,前往名为罗希多的可怕红水之海,你们还将看到那棵巨大的尖顶木棉树。

4.40.40

गृहं च वैनतेयस्य नानारत्नविभूषितम्।
तत्र कैलाससंकाशं विहितं विश्वकर्मणा ॥ ४.४०.४० ॥

还有毗那提之子(迦楼罗)的居所,以多种宝石装饰,那里如同吉隆山,由毗首羯磨所造。

4.40.41

तत्र शैलनिभा भीमा मन्देहा नाम राक्षसाः।
शैलशृङ्गेषु लम्बन्ते नानारूपा भयावहाः ॥ ४.४०.४१ ॥

那里有状如山岳、可怕的名为曼德哈的罗刹,倒悬于山峰之上,形状各异,令人恐惧。

4.40.42

ते पतन्ति जले नित्यं सूर्यस्योदयनं प्रति।
अभितप्ताः स्म सूर्येण लम्बन्ते स्म पुनः पुनः ॥ ४.४०.४२ ॥

他们总是朝着太阳升起的方向坠入水中;被太阳灼烧后,他们一次又一次地倒悬。

4.40.43

निहता ब्रह्मतेजोभिरहन्यहनि राक्षसाः।
ततः पाण्डुरमेघाभं क्षीरोदं नाम सागरम् ॥ ४.४०.४३ ॥

罗刹们每日被梵天的威光所击毙。随后是名为乳海的大海,洁白如白云。

4.40.44

गत्वा द्रक्ष्यथ दुर्धर्षा मुक्ताहारमिवोर्मिभिः।
तस्य मध्ये महान् श्वेतो ऋषभो नाम पर्वतः ॥ ४.४०.४४ ॥

诸位无敌的勇士,你们前往那里,将看见它如同浪花组成的珍珠项链。海中央矗立着一座名为Ṛṣabha的洁白大山。

4.40.45

दिव्यगन्धैः कुसुमितैराचितैश्च नगैर्वृतः।
सरश्च राजतैः पद्मैर्ज्वलितैर्हेमकेसरैः ॥ ४.४०.४५ ॥

一泓湖水,周围是散发神圣芬芳的盛开树木,湖中盛开着闪亮的银色莲花,花蕊金黄。

4.40.46

नाम्ना सुदर्शनं नाम राजहंसैः समाकुलम्।
विबुधाश्चारणा यक्षाः किंनराश्चाप्सरोगणाः ॥ ४.४०.४६ ॥

名为善见,满是王家天鹅。诸天、乾闼婆、夜叉、紧那罗与众天女。

4.40.47

हृष्टाः समधिगच्छन्ति नलिनीं तां रिरंसवः।
क्षीरोदं समतिक्रम्य तदा द्रक्ष्यथ वानराः ॥ ४.४०.४७ ॥

他们欢喜地、怀着嬉戏的心愿,走近那片莲池。诸位猴众啊,越过乳海之后,你们便会看见。

4.40.48

जलोदं सागरं शीघ्रं सर्वभूतभयावहम्।
तत्र तत्कोपजं तेजः कृतं हयमुखं महत् ॥ ४.४०.४८ ॥

速速前往那令一切众生恐惧的水海。那里,由他的愤怒所生的大马头之火已经形成。

4.40.49

अस्याहुस्तन्महावेगमोदनं सचराचरम्।
तत्र विक्रोशतां नादो भूतानां सागरौकसाम्।
श्रूयते चासमर्थानां दृष्ट्वाभूद् वडवामुखम् ॥ ४.४०.४९ ॥

据说这团威力巨大的火焰能焚烧一切动与不动之物。那里可以听到居住在海中的众生的哭喊;看到无助者的哀号,它便化作了婆多婆穆卡。

4.40.50

स्वादूदस्योत्तरे तीरे योजनानि त्रयोदश।
जातरूपशिलो नाम सुमहान् कनकप्रभः ॥ ४.४०.५० ॥

在斯瓦杜达海的北岸,相距十三由旬,矗立着一座名为金色石(Jātarūpaśilā)的巨大山峰,金光闪耀。

4.40.51

तत्र चन्द्रप्रतीकाशं पन्नगं धरणीधरम्।
पद्मपत्रविशालाक्षं ततो द्रक्ष्यथ वानराः ॥ ४.४०.५१ ॥

在那里你们将看到那条如月亮般明亮的蛇,它托举大地,双眼宽广如莲花瓣,哦,猴子们。

4.40.52

आसीनं पर्वतस्याग्रे सर्वदेवनमस्कृतम्।
सहस्रशिरसं देवमनन्तं नीलवाससम् ॥ ४.४०.५२ ॥

坐在山巅,受一切天神礼敬,是千头的无限神,身着深蓝色衣裳。

4.40.53

त्रिशिराः काञ्चनः केतुस्तालस्तस्य महात्मनः।
स्थापितः पर्वतस्याग्रे विराजति सवेदिकः ॥ ४.४०.५३ ॥

那位大人的三头金色旗帜——棕榈树,矗立在山顶,连同祭坛一起闪耀。

4.40.54

पूर्वस्यां दिशि निर्माणं कृतं तत् त्रिदशेश्वरैः।
ततः परं हेममयः श्रीमानुदयपर्वतः ॥ ४.४०.५४ ॥

在东方,它是由众天神之主所建造的。再往前,矗立着辉煌的金色的日出山。

4.40.55

तस्य कोटिर्दिवं स्पृष्ट्वा शतयोजनमायता।
जातरूपमयी दिव्या विराजति सवेदिका ॥ ४.४०.५५ ॥

其峰顶触及天空,延伸百由旬;金制而神圣,与祭坛台阶一同光辉照耀。

4.40.56

सालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः।
जातरूपमयैर्दिव्यैः शोभते सूर्यसंनिभैः ॥ ४.४०.५६ ॥

以娑罗树、棕榈、多摩罗树及盛开的迦尼迦罗树装饰,它们金光闪耀、神圣如日。

4.40.57

तत्र योजनविस्तारमुच्छ्रितं दशयोजनम्।
शृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम् ॥ ४.४०.५७ ॥

那里有一座名为娑摩那娑的山峰,宽一由旬,高十由旬,金制而坚固。

4.40.58

तत्र पूर्वं पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे।
द्वितीयं शिखरे मेरोश्चकार पुरुषोत्तमः ॥ ४.४०.५८ ॥

往昔在三步之时,毗湿奴于此迈出第一步,至上之人(补鲁ша-乌达玛)将第二步踏在弥卢山的峰顶。

4.40.59

उत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः।
दृश्यो भवति भूयिष्ठं शिखरं तन्महोच्छ्रयम् ॥ ४.४०.५९ ॥

太阳从北方绕行赡部洲时,大多能够看见那座极高的山峰。

4.40.60

तत्र वैखानसा नाम वालखिल्या महर्षयः।
प्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः ॥ ४.४०.६० ॥

那里有名为韦卡纳萨的大仙,即瓦拉基利亚,他们身如太阳之色的苦行者,光辉可见。

4.40.61

अयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशते।
तस्मिंस्तेजश्च चक्षुश्च सर्वप्राणभृतामपि ॥ ४.४०.६१ ॥

这是须达尔莎那岛,它在其前方闪耀。其中有一切众生的光辉与眼目。

4.40.62

शैलस्य तस्य पृष्ठेषु कन्दरेषु वनेषु च।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ४.४०.६२ ॥

应在那座山的山坡、洞穴和森林中到处寻找罗波那与毗提诃。

4.40.63

काञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः।
आविष्टा तेजसा संध्या पूर्वा रक्ता प्रकाशते ॥ ४.४०.६३ ॥

被金山与伟大太阳的光辉所笼罩的东方红色暮光正在闪耀。

4.40.64

पूर्वमेतत् कृतं द्वारं पृथिव्या भुवनस्य च।
सूर्यस्योदयनं चैव पूर्वा ह्येषा दिगुच्यते ॥ ४.४०.६४ ॥

此处自古便是大地与世界的门户,也是太阳升起之地;此方向被称为东方。

4.40.65

तस्य शैलस्य पृष्ठेषु निर्झरेषु गुहासु च।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ४.४०.६५ ॥

应在那座山的山坡、瀑布旁和洞穴中到处寻找罗波那与毗提诃。

4.40.66

ततः परमगम्या स्याद् दिक्पूर्वा त्रिदशावृता।
रहिता चन्द्रसूर्याभ्यामदृश्या तमसावृता ॥ ४.४०.६६ ॥

再往前,东方之域虽有诸神环绕,却极难抵达;没有日月,不可见,被黑暗笼罩。

4.40.67

शैलेषु तेषु सर्वेषु कन्दरेषु नदीषु च।
ये च नोक्ता मयोद्देशा विचेया तेषु जानकी ॥ ४.४०.६७ ॥

在那些山岭、洞穴和河流中,以及我未曾提及的地方,都必须寻找遮那吉(悉多)。

4.40.68

एतावद् वानरैः शक्यं गन्तुं वानरपुङ्गवाः।
अभास्करममर्यादं न जानीमस्ततः परम् ॥ ४.४०.६८ ॥

诸位猴中之雄,猴众只能到此为止;此外,那无日光、无边际之地,我们并不知晓。

4.40.69

अभिगम्य तु वैदेहीं निलयं रावणस्य च।
मासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम् ॥ ४.४०.६९ ॥

到达毗提诃公主与罗波那的居所之后,待一月期满,抵达日出之山时便返回。

4.40.70

ऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम।
सिद्धार्थाः संनिवर्तध्वमधिगम्य च मैथिलीम् ॥ ४.४०.७० ॥

逗留不得超过一月;逗留者必被我所杀。寻得迈提利(悉多),任务完成后便回来。

4.40.71

महेन्द्रकान्तां वनषण्डमण्डितां
दिशं चरित्वा निपुणेन वानराः।
अवाप्य सीतां रघुवंशजप्रियां
ततो निवृत्ताः सुखिनो भविष्यथ ॥ ४.४०.७१ ॥

诸位猴众啊,若能巧妙地巡行那片为摩亨陀罗所喜爱、以林丛装饰的方位,获得罗怙族所爱的悉多,然后回来,你们便会快乐。