蚁垤《罗摩衍那》 · 篇 4.41
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.41.1
ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम्।
दक्षिणां प्रेषयामास वानरानभिलक्षितान् ॥ ४.४१.१ ॥
于是须羯哩婆派遣那支庞大的猴军,并将挑选出的猴子派往南方。
4.41.2
नीलमग्निसुतं चैव हनूमन्तं च वानरम्।
पितामहसुतं चैव जाम्बवन्तं महौजसम् ॥ ४.४१.२ ॥
他派遣了火神之子那罗、猴子哈努曼,以及梵天之子、大力的遮婆缚那。
4.41.3
सुहोत्रं च शरारिं च शरगुल्मं तथैव च।
गजं गवाक्षं गवयं सुषेणं वृषभं तथा ॥ ४.४१.३ ॥
还有苏霍特罗、沙罗利和沙罗古尔玛,同样还有迦阇、迦伐刹、迦伐耶、苏舍那和伐栗沙婆。
4.41.4
मैन्दं च द्विविदं चैव सुषेणं गन्धमादनम्।
उल्कामुखमनङ्गं च हुताशनसुतावुभौ ॥ ४.४१.४ ॥
摩纳陀与双毗陀、苏舍那与乾陀摩陀那,以及焰面与无身,即火神的两个儿子。
4.41.5
अङ्गदप्रमुखान् वीरान् वीरः कपिगणेश्वरः।
वेगविक्रमसम्पन्नान् संदिदेश विशेषवित् ॥ ४.४१.५ ॥
这位英雄、猴群之主、善于分辨要务者,向以安伽陀为首、具备速度与勇力的勇士们发出指令。
4.41.6
तेषामग्रेसरं चैव बृहद्बलमथाङ्गदम्।
विधाय हरिवीराणामादिशद् दक्षिणां दिशम् ॥ ४.४१.६ ॥
他任命威力巨大的安伽陀为其先导,并指示诸猴勇士向南方进发。
4.41.7
ये केचन समुद्देशास्तस्यां दिशि सुदुर्गमाः।
कपीशः कपिमुख्यानां स तेषां समुदाहरत् ॥ ४.४१.७ ॥
凡在那个方向上极难抵达的地方,猴王都向众位猴将一一讲述。
4.41.8
सहस्रशिरसं विन्ध्यं नानाद्रुमलतायुतम्।
नर्मदां च नदीं रम्यां महोरगनिषेविताम् ॥ ४.४१.८ ॥
千峰的温底耶山,遍布众多树木与藤蔓;还有秀丽的纳尔玛达河,常有大蛇栖息。
4.41.9
ततो गोदावरीं रम्यां कृष्णवेणीं महानदीम्।
वरदां च महाभागां महोरगनिषेविताम्।
मेखलानुत्कलांश्चैव दशार्णनगराण्यपि ॥ ४.४१.९ ॥
接着是秀丽的哥达瓦里河、大河克里希那韦尼,以及赐予恩惠、极为吉祥、大蛇栖息的河流;还有墨喀拉人与乌特卡拉人之地,以及达莎尔纳的城市。
4.41.10
आब्रवन्तीमवन्तीं च सर्वमेवानुपश्यत।
विदर्भानृष्टिकांश्चैव रम्यान् माहिषकानपि ॥ ४.४१.१० ॥
要仔细察看阿文蒂与阿文蒂全境;还有毗达婆人、利什提迦人,以及可爱的摩希沙迦人。
4.41.11
तथा वङ्गान् कलिङ्गांश्च कौशिकांश्च समन्ततः।
अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहम् ॥ ४.४१.११ ॥
同样,要四处搜寻瓦伽人、卡林伽人与考希卡人;并查遍檀陀迦森林,包括其中的山峦、河流与洞穴。
4.41.12
नदीं गोदावरीं चैव सर्वमेवानुपश्यत।
तथैवान्ध्रांश्च पुण्ड्रांश्च चोलान् पाण्ड्यांश्च केरलान् ॥ ४.४१.१२ ॥
要仔细察看哥达瓦里河及其一切;同样察看安达拉人、本德拉人、朱罗人、潘地亚人与喀拉拉人。
4.41.13
अयोमुखश्च गन्तव्यः पर्वतो धातुमण्डितः।
विचित्रशिखरः श्रीमांश्चित्रपुष्पितकाननः ॥ ४.४१.१३ ॥
还必须前往阿约穆卡山,它以矿石装点,山峰奇妙,森林里开满了绚丽的花朵。
4.41.14
सुचन्दनवनोद्देशो मार्गितव्यो महागिरिः।
ततस्तामापगां दिव्यां प्रसन्नसलिलाशयाम् ॥ ४.४१.१४ ॥
还必须寻找那座有着美丽檀香林的大山;然后是那条水清澈纯净的神圣河流。
4.41.15
तत्र द्रक्ष्यथ कावेरीं विहृतामप्सरोगणैः।
तस्यासीनं नगस्याग्रे मलयस्य महौजसम् ॥ ४.४१.१५ ॥
在那里,你们会看到被天女群嬉戏的卡维利河;在山巅上,你们会看到端坐的、威光赫赫的摩罗耶之人。
4.41.16
द्रक्ष्यथादित्यसंकाशमगस्त्यमृषिसत्तमम् ।
ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना ॥ ४.४१.१६ ॥
你们将见到如太阳般光辉的阿伽斯提亚,他是诸仙中最卓越者。然后,得到那位慈悲的大德的允许——
4.41.17
ताम्रपर्णीं ग्राहजुष्टां तरिष्यथ महानदीम्।
सा चन्दनवनैश्चित्रैः प्रच्छन्नद्वीपवारिणी ॥ ४.४१.१७ ॥
你们将渡过多鳄鱼的大河塔姆拉帕尔尼。它被奇妙的檀香林所遮蔽,水中隐藏着岛屿。
4.41.18
कान्तेव युवती कान्तं समुद्रमवगाहते।
ततो हेममयं दिव्यं मुक्तामणिविभूषितम् ॥ ४.४१.१८ ॥
如同心爱的少女奔向她的爱人,那河流便投入大海。然后有一处神圣的金色之地,以珍珠和宝石装饰。
4.41.19
युक्तं कवाटं पाण्ड्यानां गता द्रक्ष्यथ वानराः।
ततः समुद्रमासाद्य सम्प्रधार्यार्थनिश्चयम् ॥ ४.४१.१९ ॥
诸位猴众,般荼王族的那扇门正合适;你们去到那里便会看见。然后到达大海,仔细考虑行动的决断……
4.41.20
अगस्त्येनान्तरे तत्र सागरे विनिवेशितः।
चित्रसानुनगः श्रीमान् महेन्द्रः पर्वतोत्तमः ॥ ४.४१.२० ॥
那里,大海之中由阿伽斯特耶所安置的,峰峦奇特的光耀的摩亨陀罗山,乃山中之最……
4.41.21
जातरूपमयः श्रीमानवगाढो महार्णवम्।
नानाविधैर्नगैः फुल्लैर्लताभिश्चोपशोभितम् ॥ ४.४१.२१ ॥
那座金制的、光耀的山没入大海之中,装饰着各种盛开的树木与藤蔓……
4.41.22
देवर्षियक्षप्रवरैरप्सरोभिश्च शोभितम्।
सिद्धचारणसङ्घैश्च प्रकीर्णं सुमनोरमम् ॥ ४.४१.२२ ॥
装饰着天仙之中最杰出的神仙圣人、夜叉与天女,遍布悉陀与乾达婆的群众,极为可爱……
4.41.23
तमुपैति सहस्राक्षः सदा पर्वसु पर्वसु।
द्वीपस्तस्यापरे पारे शतयोजनविस्तृतः ॥ ४.४१.२३ ॥
千眼的因陀罗每逢节日常常来到那座山。在它的彼岸有一座岛屿,绵延百由旬……
4.41.24
अगम्यो मानुषैर्दीप्तस्तं मार्गध्वं समन्ततः।
तत्र सर्वात्मना सीता मार्गितव्या विशेषतः ॥ ४.४१.२४ ॥
那座光耀的岛屿为凡人所不能至;请从四面八方去寻找。在那里,尤其应当全心全意地寻找悉多……
4.41.25
स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः।
राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः ॥ ४.४१.२५ ॥
那片土地是罗婆那的住所。他心术不正、应当被诛,是罗刹之主,光辉如千眼因陀罗。
4.41.26
दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी।
अङ्गारकेति विख्याता छायामाक्षिप्य भोजिनी ॥ ४.४१.२६ ॥
南海之中有一名叫安伽罗迦的著名罗刹女,她抓住人的影子吞食。
4.41.27
एवं निःसंशयान् कृत्वा संशयान्नष्टसंशयाः।
मृगयध्वं नरेन्द्रस्य पत्नीममिततेजसः ॥ ४.४१.२७ ॥
如此,去除一切疑虑,无所迟疑,去寻找那位威光无量之王(罗摩)的妻子。
4.41.28
तमतिक्रम्य लक्ष्मीवान् समुद्रे शतयोजने।
गिरिः पुष्पितको नाम सिद्धचारणसेवितः ॥ ४.४१.२८ ॥
越过之后,在大海中百由旬之外,有一座名为布湿毗多迦的吉祥山,为悉陀与遮罗那所常至。
4.41.29
चन्द्रसूर्यांशुसंकाशः सागराम्बुसमाश्रयः।
भ्राजते विपुलैः शृङ्गैरम्बरं विलिखन्निव ॥ ४.४१.२९ ॥
它如日月光辉般明亮,依托于大海之水,以广阔的山峰仿佛刻划着天空,光彩照人。
4.41.30
तस्यैकं काञ्चनं शृङ्गं सेवते यं दिवाकरः।
श्वेतं राजतमेकं च सेवते यन्निशाकरः।
न तं कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः ॥ ४.४१.३० ॥
其中一座山峰为金色,太阳常来照拂;另一座为白色银峰,月亮常来照拂。忘恩负义者、残忍之人和不信者都看不见它。
4.41.31
प्रणम्य शिरसा शैलं तं विमार्गथ वानराः।
तमतिक्रम्य दुर्धर्षं सूर्यवान्नाम पर्वतः ॥ ४.४१.३१ ॥
诸位猴子,向那座山低头致敬后去搜寻吧。越过名为苏利耶梵的那座难以攻克的山,
4.41.32
अध्वना दुर्विगाहेन योजनानि चतुर्दश।
ततस्तमप्यतिक्रम्य वैद्युतो नाम पर्वतः ॥ ४.४१.३२ ॥
沿着难以通行的道路走十四由旬;然后越过那里,便是名为吠迪优多的山。
4.41.33
सर्वकामफलैर्वृक्षैः सर्वकालमनोहरैः।
तत्र भुक्त्वा वरार्हाणि मूलानि च फलानि च ॥ ४.४१.३३ ॥
那里有能结出一切所愿之果、四季皆令人心醉的树木,在那里吃了上好的根与果,
4.41.34
मधूनि पीत्वा जुष्टानि परं गच्छत वानराः।
तत्र नेत्रमनःकान्तः कुञ्जरो नाम पर्वतः ॥ ४.४१.३४ ॥
在那里饮了蜂蜜、享受了之后,猴子们,继续前行。那里有名为昆阇罗的山,悦目赏心。
4.41.35
अगस्त्यभवनं यत्र निर्मितं विश्वकर्मणा।
तत्र योजनविस्तारमुच्छ्रितं दशयोजनम् ॥ ४.४१.३५ ॥
在毗首羯摩所建的阿伽斯缔居所之处,那里宽一由旬,高十由旬。
4.41.36
शरणं काञ्चनं दिव्यं नानारत्नविभूषितम्।
तत्र भोगवती नाम सर्पाणामालयः पुरी ॥ ४.४१.३६ ॥
那里有一处金色的神圣居所,饰以众多宝石;那里有名为婆伽瓦蒂的城市,是蛇族的居所。
4.41.37
विशालरथ्या दुर्धर्षा सर्वतः परिरक्षिता।
रक्षिता पन्नगैर्घोरैस्तीक्ष्णदंष्ट्रैर्महाविषैः ॥ ४.४१.३७ ॥
街道宽阔,难以攻取,四面防护周密,由利齿剧毒的可怖毒蛇守卫。
4.41.38
सर्पराजो महाघोरो यस्यां वसति वासुकिः।
निर्याय मार्गितव्या च सा च भोगवती पुरी ॥ ४.४१.३८ ॥
其中居住着蛇王婆苏吉,极为可怖;那便是婆伽婆提城,必须出去寻找。
4.41.39
तत्र चानन्तरोद्देशा ये केचन समावृताः।
तं च देशमतिक्रम्य महानृषभसंस्थितिः ॥ ४.४१.३९ ॥
那里及其之外,有一些被环绕的地域;穿过那片地域,便矗立着大山 Ṛṣabha。
4.41.40
सर्वरत्नमयः श्रीमानृषभो नाम पर्वतः।
गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम् ॥ ४.४१.४० ॥
有一座名为 Ṛṣabha 的辉煌之山,由各种宝石构成;那里生长着 gośīrṣaka、padmaka、harishyāma 与檀香。
4.41.41
दिव्यमुत्पद्यते यत्र तच्चैवाग्निसमप्रभम्।
न तु तच्चन्दनं दृष्ट्वा स्प्रष्टव्यं तु कदाचन ॥ ४.४१.४१ ॥
神圣的檀木在那里生长,光辉如火;然而,即便见到那檀木,也绝不可触碰。
4.41.42
रोहिता नाम गन्धर्वा घोरं रक्षन्ति तद्वनम्।
तत्र गन्धर्वपतयः पञ्च सूर्यसमप्रभाः ॥ ४.४१.४२ ॥
名为 Rohita 的乾闼婆守护着那片可怖的森林;那里有五位乾闼婆之主,光辉如太阳。
4.41.43
शैलूषो ग्रामणीः शिक्षः शुको बभ्रुस्तथैव च।
रविसोमाग्निवपुषां निवासः पुण्यकर्मणाम् ॥ ४.४१.४३ ॥
舍卢沙、格拉玛尼、施克莎、शुक与布卜鲁也住在那里;他们的身体如日、月、火,是行善积德者的居所。
4.41.44
अन्ते पृथिव्या दुर्धर्षास्ततः स्वर्गजितः स्थिताः।
ततः परं न वः सेव्यः पितृलोकः सुदारुणः ॥ ४.४१.४४ ॥
在大地的边缘住着不可战胜、征服天界的人;再往前,你们不应去,因为祖先的世界极其可怕。
4.41.45
राजधानी यमस्यैषा कष्टेन तमसाऽऽवृता।
एतावदेव युष्माभिर्वीरा वानरपुंगवाः।
शक्यं विचेतुं गन्तुं वा नातो गतिमतां गतिः ॥ ४.४१.४५ ॥
此乃阎摩的王城,被黑暗艰难地笼罩。勇士们,猴子中的俊杰,你们只能搜寻或前往到此为止;再往前不行,行者的归宿啊。
4.41.46
सर्वमेतत् समालोक्य यच्चान्यदपि दृश्यते।
गतिं विदित्वा वैदेह्याः संनिवर्तितुमर्हथ ॥ ४.४१.४६ ॥
看过这一切以及其他可见之物,并得知毗提诃(悉多)的去处之后,你们现在应当返回。
4.41.47
यश्च मासान्निवृत्तोऽग्रे दृष्टा सीतेति वक्ष्यति।
मत्तुल्यविभवो भोगैः सुखं स विहरिष्यति ॥ ४.४१.४७ ॥
谁在一月之内返回,并首先说“我见到了悉多”,谁就将以与我相等的富贵,享受快乐与种种欢乐。
4.41.48
ततः प्रियतरो नास्ति मम प्राणाद् विशेषतः।
कृतापराधो बहुशो मम बन्धुर्भविष्यति ॥ ४.४१.४८ ॥
在那之后,我没有比生命更珍爱的人;即使他屡次犯错,他仍将是我的亲族。
4.41.49
अमितबलपराक्रमा भवन्तो
विपुलगुणेषु कुलेषु च प्रसूताः।
मनुजपतिसुतां यथा लभध्वं
तदधिगुणं पुरुषार्थमारभध्वम् ॥ ४.४१.४९ ॥
你们拥有无量的力量与勇武,出身于德行深厚的显赫家族。请发起比迎得人主之女更为卓越的努力吧。