Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 4.42

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.42.1

अथ प्रस्थाप्य स हरीन् सुग्रीवो दक्षिणां दिशम्।
अब्रवीन्मेघसंकाशं सुषेणं नाम वानरम् ॥ ४.४२.१ ॥

随后,须羯里婆派遣众猴向南方出发,并对名叫苏舍那、形如云朵的猴子说道。

4.42.2

तारायाः पितरं राजा श्वशुरं भीमविक्रमम्।
अब्रवीत् प्राञ्जलिर्वाक्यमभिगम्य प्रणम्य च ॥ ४.४२.२ ॥

国王须羯里婆走近他的岳父——塔罗之父,一位威猛无比的英雄,合掌行礼后说出了这些话。

4.42.3

महर्षिपुत्रं मारीचमर्चिष्मन्तं महाकपिम्।
वृतं कपिवरैः शूरैर्महेन्द्रसदृशद्युतिम् ॥ ४.४२.३ ॥

大仙之子摩利者,以及大猴阿尔奇史曼,他被众多优秀的英勇猴子环绕,光彩如同因陀罗。

4.42.4

बुद्धिविक्रमसम्पन्नं वैनतेयसमद्युतिम्।
मरीचिपुत्रान् मारीचानर्चिर्माल्यान् महाबलान् ॥ ४.४२.४ ॥

具备智慧与勇力、光彩如迦娄茶的摩利奇之子摩利迦们,以及极其强大的阿尔奇马利亚们。

4.42.5

ऋषिपुत्रांश्च तान् सर्वान् प्रतीचीमादिशद् दिशम्।
द्वाभ्यां शतसहस्राभ्यां कपीनां कपिसत्तमाः ॥ ४.४२.५ ॥

他又将所有那些仙人之子派往西方,并率领二十万只猴子——啊,猴中之最!

4.42.6

सुषेणप्रमुखा यूयं वैदेहीं परिमार्गथ।
सौराष्ट्रान् सहबाह्लीकांश्चन्द्रचित्रांस्तथैव च ॥ ४.४२.६ ॥

你们以苏舍那为首,要仔细寻找维代希;同样也要在苏罗什特罗人、巴赫利卡人和月纹人的国土中寻找。

4.42.7

स्फीताञ्जनपदान् रम्यान् विपुलानि पुराणि च।
पुंनागगहनं कुक्षिं बकुलोद्दालकाकुलम् ॥ ४.४२.७ ॥

搜寻那些富饶的地区、美丽广阔的城市、布那伽树茂密的丛林,以及遍布菩萨罗树与乌达拉迦树的山谷。

4.42.8

तथा केतकषण्डांश्च मार्गध्वं हरिपुङ्गवाः।
प्रत्यक्स्रोतोवहाश्चैव नद्यः शीतजलाः शिवाः ॥ ४.४२.८ ॥

诸位猴中的俊杰啊,也要搜寻那些刺萼草丛林,以及向西流淌、水冷而清净的河流。

4.42.9

तापसानामरण्यानि कान्तारगिरयश्च ये।
तत्र स्थलीर्मरुप्राया अत्युच्चशिशिराः शिलाः ॥ ४.४२.९ ॥

搜寻苦行者的森林、那里的荒山峻岭、多如荒漠的高原,以及极高而清凉的岩石。

4.42.10

गिरिजालावृतां दुर्गां मार्गित्वा पश्चिमां दिशम्।
ततः पश्चिममागम्य समुद्रं द्रष्टुमर्हथ ॥ ४.४२.१० ॥

在搜寻那被群山纵横环绕、难以穿越的西方之后,然后向西前行,你们应当见到大海。

4.42.11

तिमिनक्राकुलजलं गत्वा द्रक्ष्यथ वानराः।
ततः केतकषण्डेषु तमालगहनेषु च ॥ ४.४२.११ ॥

你们前往那满是鲨鱼与鳄鱼的海水之处,便能见到它。然后在刺萼草丛林与茂密的多摩罗树丛中搜寻。

4.42.12

कपयो विहरिष्यन्ति नारिकेलवनेषु च।
तत्र सीतां च मार्गध्वं निलयं रावणस्य च ॥ ४.४२.१२ ॥

猴子们将在椰子林中游戏。你们就在那里寻找悉多,以及罗波那的住所。

4.42.13

वेलातलनिविष्टेषु पर्वतेषु वनेषु च।
मुरवीपत्तनं चैव रम्यं चैव जटापुरम् ॥ ४.४२.१३ ॥

在海岸边的山林之中,在穆拉维城,也在可爱的遮陀补罗城。

4.42.14

अवन्तीमङ्गलेपां च तथा चालक्षितं वनम्।
राष्ट्राणि च विशालानि पत्तनानि ततस्ततः ॥ ४.४२.१४ ॥

阿vantī与盎迦勒帕,隐秘的森林,广阔的国度与城市——四处皆是。

4.42.15

सिन्धुसागरयोश्चैव संगमे तत्र पर्वतः।
महान् सोमगिरिर्नाम शतशृङ्गो महाद्रुमः ॥ ४.४२.१५ ॥

在信度河与大海的交汇处,有一座名为苏摩山的大山,拥有百座山峰和巨大的树木。

4.42.16

तत्र प्रस्थेषु रम्येषु सिंहाः पक्षगमाः स्थिताः।
तिमिमत्स्यगजांश्चैव नीडान्यारोपयन्ति ते ॥ ४.४२.१६ ॥

那里的可爱山坡上住着有翼的狮子,它们把提密鱼、鱼和大象叼回自己的巢中。

4.42.17

तानि नीडानि सिंहानां गिरिशृङ्गगताश्च ये।
दृप्तास्तृप्ताश्च मातङ्गास्तोयदस्वननिःस्वनाः ॥ ४.४२.१७ ॥

那些是狮子的巢穴,还有栖息在山峰上、骄傲而饱足的大象,它们的吼声如云雷轰鸣。

4.42.18

विचरन्ति विशालेऽस्मिंस्तोयपूर्णे समन्ततः।
तस्य शृङ्गं दिवस्पर्शं काञ्चनं चित्रपादपम् ॥ ४.४२.१८ ॥

它们在这广阔充满海水的大海中四处游荡。它的山峰触及天空,金光灿灿,装饰着奇妙的树木。

4.42.19

सर्वमाशु विचेतव्यं कपिभिः कामरूपिभिः।
कोटिं तत्र समुद्रस्य काञ्चनीं शतयोजनाम् ॥ ४.४२.१९ ॥

能随意变化形态的猴众应迅速搜寻一切:那里是海洋金色岸边的千万处,绵延百由旬。

4.42.20

दुर्दर्शां पारियात्रस्य गत्वा द्रक्ष्यथ वानराः।
कोट्यस्तत्र चतुर्विंशद् गन्धर्वाणां तरस्विनाम् ॥ ४.४२.२० ॥

猴众啊!你们到达难以抵达的帕里耶特拉山脉,将在那里看见二十四千万迅捷的乾闼婆。

4.42.21

वसन्त्यग्निनिकाशानां घोराणां कामरूपिणाम्।
पावकार्चिःप्रतीकाशाः समवेताः समन्ततः ॥ ४.४२.२१ ॥

他们居住于此,如火般炽烈、可怖,能随意变化形态,四面聚集,光焰如火舌。

4.42.22

नात्यासादयितव्यास्ते वानरैर्भीमविक्रमैः।
नादेयं च फलं तस्माद् देशात् किंचित् प्लवङ्गमैः ॥ ४.४२.२२ ॥

勇猛可怖的猴众不可过分接近他们;而从那片地方,啊跳跃的猴众,你们不可摘取任何果实。

4.42.23

दुरासदा हि ते वीराः सत्त्ववन्तो महाबलाः।
फलमूलानि ते तत्र रक्षन्ते भीमविक्रमाः ॥ ४.४२.२३ ॥

他们是英雄,勇毅而力量强大,难以接近;在那里,这些勇猛可怖者守护着果实与根茎。

4.42.24

तत्र यत्नश्च कर्तव्यो मार्गितव्या च जानकी।
नहि तेभ्यो भयं किंचित् कपित्वमनुवर्तताम् ॥ ४.४२.२४ ॥

在那里应当尽力,并寻找耶那吉;对于遵循猴子本性的人来说,他们毫无可怖之处。

4.42.25

तत्र वैदूर्यवर्णाभो वज्रसंस्थानसंस्थितः।
नानाद्रुमलताकीर्णो वज्रो नाम महागिरिः ॥ ४.४२.२५ ॥

那里有一座名为伐阇罗的大山,颜色如琉璃,形如金刚杵,遍布各种树木与藤蔓。

4.42.26

श्रीमान् समुदितस्तत्र योजनानां शतं समम्।
गुहास्तत्र विचेतव्याः प्रयत्नेन प्लवङ्गमाः ॥ ४.४२.२६ ॥

那里有一座壮丽的大山,绵延百由旬,高高耸起。诸位跳跃者啊,应当在那里仔细搜寻它的山洞。

4.42.27

चतुर्भागे समुद्रस्य चक्रवान् नाम पर्वतः।
तत्र चक्रं सहस्रारं निर्मितं विश्वकर्मणा ॥ ४.४२.२७ ॥

在大海的四分之一处,有一座名为遮克罗漫的山。那里有一个由毗首羯磨所造的千辐轮。

4.42.28

तत्र पञ्चजनं हत्वा हयग्रीवं च दानवम्।
आजहार ततश्चक्रं शङ्खं च पुरुषोत्तमः ॥ ४.४२.२८ ॥

在那里,至上之人杀死了般遮阇那和檀那婆海耶揭利婆,随后取得了轮与螺。

4.42.29

तस्य सानुषु रम्येषु विशालासु गुहासु च।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ४.४२.२९ ॥

在它美丽的山坡和广阔的洞穴中,罗波那或许与毗提诃在一起;应当到处寻找他。

4.42.30

योजनानि चतुःषष्टिर्वराहो नाम पर्वतः।
सुवर्णशृङ्गः सुमहानगाधे वरुणालये ॥ ४.४२.३० ॥

名为伐罗诃的山有六十四由旬之广;这座有金色山峰的大山位于深不可测的水神伐楼那之居所(大海)中。

4.42.31

तत्र प्राग्ज्योतिषं नाम जातरूपमयं पुरम्।
यस्मिन् वसति दुष्टात्मा नरको नाम दानवः ॥ ४.४२.३१ ॥

那里有一座名为“东方光明”(Prāgjyotiṣa)的黄金之城,邪恶的达那伐Naraka居住其中。

4.42.32

तत्र सानुषु रम्येषु विशालासु गुहासु च।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ४.४२.३२ ॥

在那里秀丽的山坡和宽阔的洞穴中,罗波那或许与毗提诃在一起;应当到处搜寻他。

4.42.33

तमतिक्रम्य शैलेन्द्रं काञ्चनान्तरदर्शनम्।
पर्वतः सर्वसौवर्णो धाराप्रस्रवणायुतः ॥ ४.४२.३३ ॥

越过那座内里显露黄金的山中之王,你们将到达一座全然金色、充满溪流与泉水的山。

4.42.34

तं गजाश्च वराहाश्च सिंहा व्याघ्राश्च सर्वतः।
अभिगर्जन्ति सततं तेन शब्देन दर्पिताः ॥ ४.४२.३४ ॥

在那座山的四周,大象、野猪、狮子和老虎不停地咆哮;因这声音而自负,它们又再次咆哮。

4.42.35

यस्मिन् हरिहयः श्रीमान् महेन्द्रः पाकशासनः।
अभिषिक्तः सुरै राजा मेघो नाम स पर्वतः ॥ ४.४२.३५ ॥

诸神曾在那座山上为光辉的大因陀罗(Mahendra,黄马之主、斩杀钵迦者)加冕为王,那座山名为“云”(Megha)。

4.42.36

तमतिक्रम्य शैलेन्द्रं महेन्द्रपरिपालितम्।
षष्टिं गिरिसहस्राणि काञ्चनानि गमिष्यथ ॥ ४.४२.३६ ॥

越过这座受摩哂陀罗守护的山中之王,你们将抵达六万座金色的山。

4.42.37

तरुणादित्यवर्णानि भ्राजमानानि सर्वतः।
जातरूपमयैर्वृक्षैः शोभितानि सुपुष्पितैः ॥ ४.४२.३७ ॥

如初升太阳的颜色,四面闪耀,装饰着金色的树木和盛开的花朵。

4.42.38

तेषां मध्ये स्थितो राजा मेरुरुत्तमपर्वतः।
आदित्येन प्रसन्नेन शैलो दत्तवरः पुरा ॥ ४.४२.३८ ॥

在它们中间矗立着山王弥卢,群山之中最为殊胜,昔日欢喜的太阳曾赐予它恩惠。

4.42.39

तेनैवमुक्तः शैलेन्द्रः सर्व एव त्वदाश्रयाः।
मत्प्रसादाद् भविष्यन्ति दिवा रात्रौ च काञ्चनाः ॥ ४.४२.३९ ॥

他这样说后,群山之王说道:“所有依托于你的,凭我的恩惠,白天和夜晚都将成为金色。”

4.42.40

त्वयि ये चापि वत्स्यन्ति देवगन्धर्वदानवाः।
ते भविष्यन्ति भक्ताश्च प्रभया काञ्चनप्रभाः ॥ ४.४२.४० ॥

凡居住在你身上的天神、乾闼婆与檀那婆,也将成为虔诚之人,以光辉而呈金色。

4.42.41

विश्वेदेवाश्च वसवो मरुतश्च दिवौकसः।
आगत्य पश्चिमां संध्यां मेरुमुत्तमपर्वतम् ॥ ४.४२.४१ ॥

众生之神、婆苏、摩录多及天界居民,在西方黄昏时来到最殊胜的山弥卢。

4.42.42

आदित्यमुपतिष्ठन्ति तैश्च सूर्योऽभिपूजितः।
अदृश्यः सर्वभूतानामस्तं गच्छति पर्वतम् ॥ ४.४२.४२ ॥

他们侍奉阿底提耶,而受他们礼敬的太阳对一切众生隐没,向那座山落下。

4.42.43

योजनानां सहस्राणि दश तानि दिवाकरः।
मुहूर्तार्धेन तं शीघ्रमभियाति शिलोच्चयम् ॥ ४.४२.४३ ॥

太阳在半个牟呼栗多的时间内迅速越过那一万由旬,抵达那座岩石堆积的山。

4.42.44

शृङ्गे तस्य महद्दिव्यं भवनं सूर्यसंनिभम्।
प्रासादगणसम्बाधं विहितं विश्वकर्मणा ॥ ४.४२.४४ ॥

在那座山的峰顶上,有一座由毗首羯摩建造的伟大神圣宫殿,光辉如太阳,布满众多殿阁。

4.42.45

शोभितं तरुभिश्चित्रैर्नानापक्षिसमाकुलैः।
निकेतं पाशहस्तस्य वरुणस्य महात्मनः ॥ ४.४२.४५ ॥

那座宫殿以奇妙的树木装饰,群鸟纷飞,是手持绳索的大德伐楼那的居所。

4.42.46

अन्तरा मेरुमस्तं च तालो दशशिरा महान्।
जातरूपमयः श्रीमान् भ्राजते चित्रवेदिकः ॥ ४.४२.४६ ॥

在须弥山与西方山之间,矗立着一棵十头的大棕榈树,由黄金制成,华美灿烂,闪耀着奇妙的平台。

4.42.47

तेषु सर्वेषु दुर्गेषु सरस्सु च सरित्सु च।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ४.४२.४७ ॥

在所有那些险要之地、湖泊与河流中,都应到处寻找与毗提诃公主同在的罗波那。

4.42.48

यत्र तिष्ठति धर्मज्ञस्तपसा स्वेन भावितः।
मेरुसावर्णिरित्येष ख्यातो वै ब्रह्मणा समः ॥ ४.४२.४८ ॥

那里住着精通法的梅录萨瓦尔尼,他以自己的苦行得以清净,以与梵天同等而闻名。

4.42.49

प्रष्टव्यो मेरुसावर्णिर्महर्षिः सूर्यसंनिभः।
प्रणम्य शिरसा भूमौ प्रवृत्तिं मैथिलीं प्रति ॥ ४.४२.४९ ॥

应当向如太阳般光辉的大仙梅卢萨瓦尼(Merusāvarṇi)请教,关于迈蒂利(Maithilī,即悉多)的消息,并以头叩地行礼。

4.42.50

एतावज्जीवलोकस्य भास्करो रजनीक्षये।
कृत्वा वितिमिरं सर्वमस्तं गच्छति पर्वतम् ॥ ४.४२.५० ॥

对于生灵之世界,在夜尽之时,太阳驱散一切黑暗,便向山中落去。

4.42.51

एतावद् वानरैः शक्यं गन्तुं वानरपुङ्गवाः।
अभास्करममर्यादं न जानीमस्ततः परम् ॥ ४.४२.५१ ॥

诸位猴中之雄!猴族所能到达的只到此处;此外,那无边无际、没有日光之地,我们一无所知。

4.42.52

अवगम्य तु वैदेहीं निलयं रावणस्य च।
अस्तं पर्वतमासाद्य पूर्णे मासे निवर्तत ॥ ४.४२.५२ ॥

探知了毗提诃公主与罗波那的居所之后,到达山中,待满月之期届满时便返回。

4.42.53

ऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम।
सहैव शूरो युष्माभिः श्वशुरो मे गमिष्यति ॥ ४.४२.५३ ॥

不可逗留超过一个月;逗留者必被我处死。我那英勇的岳父将与你们一同前往。

4.42.54

श्रोतव्यं सर्वमेतस्य भवद्भिर्दिष्टकारिभिः।
गुरुरेष महाबाहुः श्वशुरो मे महाबलः ॥ ४.४२.५४ ॥

你们奉命行事者,应当聆听他所说的一切。这位大臂者是我的导师、我的岳父,有大力量。

4.42.55

भवन्तश्चापि विक्रान्ताः प्रमाणं सर्व एव हि।
प्रमाणमेनं संस्थाप्य पश्यध्वं पश्चिमां दिशम् ॥ ४.४२.५५ ॥

你们都英勇善战,各自都是可靠的人。请以此人为首领,向西方搜寻。

4.42.56

दृष्टायां तु नरेन्द्रस्य पत्न्याममिततेजसः।
कृतकृत्या भविष्यामः कृतस्य प्रतिकर्मणा ॥ ४.४२.५६ ॥

一旦见到那位光华无量的人王(罗摩)的妻子,我们便完成了使命,也算报答了已做之恩。

4.42.57

अतोऽन्यदपि यत्कार्यं कार्यस्यास्य प्रियं भवेत्।
सम्प्रधार्य भवद्भिश्च देशकालार्थसंहितम् ॥ ४.४२.५७ ॥

因此,凡对此事有益的其他事情,你们都应依时、依地、依事理仔细思量后再去做。

4.42.58

ततः सुषेणप्रमुखाः प्लवङ्गाः
सुग्रीववाक्यं निपुणं निशम्य।
आमन्त्र्य सर्वे प्लवगाधिपं ते
जग्मुर्दिशं तां वरुणाभिगुप्ताम् ॥ ४.४२.५८ ॥

于是以苏舍那为首的众猴,仔细听完须羯哩婆的话,向猴王告别,便朝着那处由伐楼那守护的方向出发了。