蚁垤《罗摩衍那》 · 篇 4.46
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.46.1
गतेषु वानरेन्द्रेषु रामः सुग्रीवमब्रवीत्।
कथं भवान् विजानीते सर्वं वै मण्डलं भुवः ॥ ४.४६.१ ॥
众猴王离去后,罗摩对须羯哩婆说:"你如何知晓大地的全部区域?"
4.46.2
सुग्रीवश्च ततो राममुवाच प्रणतात्मवान्।
श्रूयतां सर्वमाख्यास्ये विस्तरेण वचो मम ॥ ४.४६.२ ॥
于是须羯哩婆以谦恭的心对罗摩说:"请听,我将详细讲述我的话。"
4.46.3
यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम्।
प्रतिकालयते वाली मलयं प्रति पर्वतम् ॥ ४.४६.३ ॥
当伐梨向马拉亚山方向挑战那名以水牛之形而现的魔王敦度毗时。
4.46.4
तदा विवेश महिषो मलयस्य गुहां प्रति।
विवेश वाली तत्रापि मलयं तज्जिघांसया ॥ ४.४६.४ ॥
于是那水牛进入马拉亚的洞穴;伐梨也想杀它,便随之进入了那里的马拉亚。
4.46.5
ततोऽहं तत्र निक्षिप्तो गुहाद्वारि विनीतवत्।
न च निष्क्रामते वाली तदा संवत्सरे गते ॥ ४.४६.५ ॥
于是我被恭敬地安置在洞口;伐梨没有出来,一年过去了。
4.46.6
ततः क्षतजवेगेन आपुपूरे तदा बिलम्।
तदहं विस्मितो दृष्ट्वा भ्रातुः शोकविषार्दितः ॥ ४.४६.६ ॥
于是洞穴被涌出的血流灌满;我看见后十分惊异,又因兄长的悲痛之毒而饱受折磨。
4.46.7
अथाहं गतबुद्धिस्तु सुव्यक्तं निहतो गुरुः।
शिला पर्वतसंकाशा बिलद्वारि मया कृता ॥ ४.४६.७ ॥
于是我失去了理智,清楚地知道兄长已被杀害,便把一块如山的巨石堵在洞口。
4.46.8
अशक्नुवन्निष्क्रमितुं महिषो विनशिष्यति।
ततोऽहमागां किष्किन्धां निराशस्तस्य जीविते ॥ ४.४६.८ ॥
他无法出来,将如水牛魔一样灭亡。于是我绝望于他的性命,回到了基什金陀。
4.46.9
राज्यं च सुमहत् प्राप्य तारां च रुमया सह।
मित्रैश्च सहितस्तत्र वसामि विगतज्वरः ॥ ४.४६.९ ॥
我获得了广大的王国,与达罗和鲁摩一起,与朋友们在那里无忧地居住。
4.46.10
आजगाम ततो वाली हत्वा तं वानरर्षभः।
ततोऽहमददां राज्यं गौरवाद् भययन्त्रितः ॥ ४.४६.१० ॥
于是猴群中的雄牛婆罗林杀了他后回来了。于是我因敬重与恐惧所困,把王国让给了他。
4.46.11
स मां जिघांसुर्दुष्टात्मा वाली प्रव्यथितेन्द्रियः।
परिकालयते वाली धावन्तं सचिवैः सह ॥ ४.४६.११ ॥
那心怀恶念的婆罗林,欲杀我,心神激动,与大臣们一同追赶正在奔跑的我。
4.46.12
ततोऽहं वालिना तेन सोऽनुबद्धः प्रधावितः।
नदीश्च विविधाः पश्यन् वनानि नगराणि च ॥ ४.४६.१२ ॥
于是我被那婆罗林追赶,奔逃而去,一路看着各条河流、森林与城市。
4.46.13
आदर्शतलसंकाशा ततो वै पृथिवी मया।
अलातचक्रप्रतिमा दृष्टा गोष्पदवत् कृता ॥ ४.४६.१३ ॥
随后我看见大地,如镜面一般,像燃烧的火把之轮,缩小得如同牛蹄印。
4.46.14
पूर्वां दिशं ततो गत्वा पश्यामि विविधान् द्रुमान्।
पर्वतान् सदरीन् रम्यान् सरांसि विविधानि च ॥ ४.४६.१४ ॥
随后向东方前行,我看见各种树木、带有洞穴的美丽山峦,以及各种湖泊。
4.46.15
उदयं तत्र पश्यामि पर्वतं धातुमण्डितम्।
क्षीरोदं सागरं चैव नित्यमप्सरसालयम् ॥ ४.४६.१५ ॥
在那里我看见名为乌陀耶的山,装饰着矿石,还看见乳海,那是阿普萨拉斯永远的居所。
4.46.16
परिकाल्यमानस्तु तदा वालिनाभिद्रुतो ह्यहम्।
पुनरावृत्य सहसा प्रस्थितोऽहं तदा विभो ॥ ४.४६.१६ ॥
主人啊!那时我被婆利追赶攻击,便突然折返,再次出发。
4.46.17
दिशस्तस्यास्ततो भूयः प्रस्थितो दक्षिणां दिशम्।
विन्ध्यपादपसंकीर्णां चन्दनद्रुमशोभिताम् ॥ ४.४६.१७ ॥
随后我又从那个方向出发,朝向南方,那里林木茂密,尽是频耶山的树木,并以檀香树为装饰。
4.46.18
द्रुमशैलान्तरे पश्यन् भूयो दक्षिणतोऽपराम्।
अपरां च दिशं प्राप्तो वालिना समभिद्रुतः ॥ ४.४६.१८ ॥
我在林木覆盖的山丘之间观望,再次从南方到达西方,被婆利猛烈追赶。
4.46.19
स पश्यन् विविधान् देशानस्तं च गिरिसत्तमम्।
प्राप्य चास्तं गिरिश्रेष्ठमुत्तरं सम्प्रधावितः ॥ ४.४६.१९ ॥
他一边观望各方诸地,到达了最好的山阿斯塔吉里,便向北方那座最殊胜的山疾奔而去。
4.46.20
हिमवन्तं च मेरुं च समुद्रं च तथोत्तरम्।
यदा न विन्दे शरणं वालिना समभिद्रुतः ॥ ४.४६.२० ॥
当被跋林追逐时,即使在喜马拉雅、须弥山和北方大海,我也找不到庇护。
4.46.21
ततो मां बुद्धिसम्पन्नो हनुमान् वाक्यमब्रवीत्।
इदानीं मे स्मृतं राजन् यथा वाली हरीश्वरः ॥ ४.४६.२१ ॥
于是聪慧的哈奴曼对我说:“大王,我现在想起来了,猴王跋林如何……”
4.46.22
मतङ्गेन तदा शप्तो ह्यस्मिन्नाश्रममण्डले।
प्रविशेद् यदि वै वाली मूर्धास्य शतधा भवेत् ॥ ४.४६.२२ ॥
当时摩坦伽曾诅咒他:若跋林进入这片修行林区,他的头颅将碎裂成百块。
4.46.23
तत्र वासः सुखोऽस्माकं निरुद्विग्नो भविष्यति।
ततः पर्वतमासाद्य ऋष्यमूकं नृपात्मज ॥ ४.४६.२३ ॥
在那里我们的居所将安乐无忧。然后,王子啊,我们到达了黑熊山(Ṛṣyamūka)……
4.46.24
न विवेश तदा वाली मतङ्गस्य भयात् तदा।
एवं मया तदा राजन् प्रत्यक्षमुपलक्षितम्।
पृथिवीमण्डलं सर्वं गुहामस्म्यागतस्ततः ॥ ४.४६.२४ ॥
当时跋林因惧怕摩坦伽而不敢进入。如此,大王,我便清楚地看遍了整个大地;随后我来到了山洞。