蚁垤《罗摩衍那》 · 篇 4.48
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.48.1
सह ताराङ्गदाभ्यां तु सहसा हनुमान् कपिः।
सुग्रीवेण यथोद्दिष्टं गन्तुं देशं प्रचक्रमे ॥ ४.४८.१ ॥
猴子哈努曼与塔罗和安迦陀一同,立即动身前往须羯哩婆所指示的地区。
4.48.2
स तु दूरमुपागम्य सर्वैस्तैः कपिसत्तमैः।
ततो विचित्य विन्ध्यस्य गुहाश्च गहनानि च ॥ ४.४८.२ ॥
他与那些最优秀的猴子一同走得很远,搜寻了频耶山的洞穴和茂密的丛林。
4.48.3
पर्वताग्रनदीदुर्गान् सरांसि विपुलद्रुमान्।
वृक्षषण्डांश्च विविधान् पर्वतान् वनपादपान् ॥ ४.४८.३ ॥
山峰、河流与险要之地、湖泊、高大的树木、树丛、各种山岳以及林中的树木,他们都加以搜寻。
4.48.4
अन्वेषमाणास्ते सर्वे वानराः सर्वतो दिशम्।
न सीतां ददृशुर्वीरा मैथिलीं जनकात्मजाम् ॥ ४.४८.४ ॥
这些猴子英雄向各个方向搜寻,却未能见到弥提罗国公主、遮那伽之女悉多。
4.48.5
ते भक्षयन्तो मूलानि फलानि विविधान्यपि।
अन्वेषमाणा दुर्धर्षा न्यवसंस्तत्र तत्र ह ॥ ४.४८.५ ॥
这些难以战胜的猴子一边吃根茎与各种果实,一边继续搜寻,四处暂住。
4.48.6
स तु देशो दुरन्वेषो गुहागहनवान् महान्।
निर्जलं निर्जनं शून्यं गहनं घोरदर्शनम् ॥ ४.४८.६ ॥
那片地区难以搜寻,布满洞穴与密林,广阔、无水、荒无人烟、空寂、幽深,望之令人生畏。
4.48.7
तादृशान्यप्यरण्यानि विचित्य भृशपीडिताः।
स देशश्च दुरन्वेष्यो गुहागहनवान् महान् ॥ ४.४८.७ ॥
他们又搜寻了其他类似的森林,极为疲惫痛苦。那片地区难以搜索,布满山洞和密林,十分广大。
4.48.8
त्यक्त्वा तु तं ततो देशं सर्वे वै हरियूथपाः।
देशमन्यं दुराधर्षं विविशुश्चाकुतोभयाः ॥ ४.४८.८ ॥
离开那片地区后,所有猴群的首领毫无惧色地进入了另一片难以攻入的地区。
4.48.9
यत्र वन्ध्यफला वृक्षा विपुष्पाः पर्णवर्जिताः।
निस्तोयाः सरितो यत्र मूलं यत्र सुदुर्लभम् ॥ ४.४८.९ ॥
那里的树木无果、无花、无叶,河流无水,连根茎也极为难得。
4.48.10
न सन्ति महिषा यत्र न मृगा न च हस्तिनः।
शार्दूलाः पक्षिणो वापि ये चान्ये वनगोचराः ॥ ४.४८.१० ॥
那里没有水牛,没有鹿,没有象;没有老虎,没有鸟,也没有其他林中生活的生灵。
4.48.11
न चात्र वृक्षा नौषध्यो न वल्ल्यो नापि वीरुधः।
स्निग्धपत्राः स्थले यत्र पद्मिन्यः फुल्लपङ्कजाः ॥ ४.४८.११ ॥
这里没有树木,没有草药,没有藤蔓,也没有攀缘植物;但在陆地上有莲池,莲叶光滑,莲花盛开。
4.48.12
प्रेक्षणीयाः सुगन्धाश्च भ्रमरैश्च विवर्जिताः।
कण्डुर्नाम महाभागः सत्यवादी तपोधनः ॥ ४.४८.१२ ॥
它们外观秀美,香气袭人,却没有蜜蜂。那里住着一位名叫坎度的大德仙人,诚实守信,以苦行为财富。
4.48.13
महर्षिः परमामर्षी नियमैर्दुष्प्रधर्षणः।
तस्य तस्मिन् वने पुत्रो बालको दशवार्षिकः ॥ ४.४८.१३ ॥
这位大仙极易动怒,又因持戒而难以侵犯,他在那片森林里有一个十岁的幼子。
4.48.14
प्रणष्टो जीवितान्ताय क्रुद्धस्तेन महामुनिः।
तेन धर्मात्मना शप्तं कृत्स्नं तत्र महद्वनम् ॥ ४.४८.१४ ॥
那孩子死了;愤怒的大仙被那位正直之人诅咒后,便诅咒了那里整片大森林。
4.48.15
अशरण्यं दुराधर्षं मृगपक्षिविवर्जितम्।
तस्य ते काननान्तांस्तु गिरीणां कन्दराणि च ॥ ४.४८.१५ ॥
那片森林变得无处可庇、难以接近,没有鹿和鸟;它的林缘和山间洞穴也是如此。
4.48.16
प्रभवाणि नदीनां च विचिन्वन्ति समाहिताः।
तत्र चापि महात्मानो नापश्यञ्जनकात्मजाम् ॥ ४.४८.१६ ॥
他们专心地搜寻河流的源头;那里那些大德之人也没有看见阇那伽之女。
4.48.17
हर्तारं रावणं वापि सुग्रीवप्रियकारिणः।
ते प्रविश्य तु तं भीमं लतागुल्मसमावृतम् ॥ ४.४८.१७ ॥
那些令须羯哩婆欢喜的猴子,也在寻找劫掠者罗波那,他们进入了那个布满藤蔓和灌木的可怕之地。
4.48.18
ददृशुर्भीमकर्माणमसुरं सुरनिर्भयम्।
तं दृष्ट्वा वानरा घोरं स्थितं शैलमिवासुरम् ॥ ४.४८.१८ ॥
他们看见一个行事可怖、连天神也不畏惧的阿修罗。看见这个像山一样矗立的可怖阿修罗,猴子们...
4.48.19
गाढं परिहिताः सर्वे दृष्ट्वा तं पर्वतोपमम्।
सोऽपि तान् वानरान् सर्वान् नष्टाः स्थेत्यब्रवीद् बली ॥ ४.४८.१९ ॥
众猴见那如山般的怪物,便紧紧抓住了他。那强大的怪物对所有猴子说:“你们都完了。”
4.48.20
अभ्यधावत संक्रुद्धो मुष्टिमुद्यम्य संगतम्।
तमापतन्तं सहसा वालिपुत्रोऽङ्गदस्तदा ॥ ४.४८.२० ॥
他怒不可遏,举起拳头向他扑去。这时,瓦利之子安伽达忽然看见他冲了过来。
4.48.21
रावणोऽयमिति ज्ञात्वा तलेनाभिजघान ह।
स वालिपुत्राभिहतो वक्त्राच्छोणितमुद्वमन् ॥ ४.४८.२१ ॥
安伽达以为“这是罗波那”,便用手掌击打他。瓦利之子一击,他口中吐出鲜血。
4.48.22
असुरो न्यपतद् भूमौ पर्यस्त इव पर्वतः।
ते तु तस्मिन् निरुच्छ्वासे वानरा जितकाशिनः ॥ ४.४८.२२ ॥
那罗刹像倒塌的山一样倒在地上。他气息全无地躺着,猴子们自以为已经获胜,
4.48.23
व्यचिन्वन् प्रायशस्तत्र सर्वं ते गिरिगह्वरम्।
विचितं तु ततः सर्वं सर्वे ते काननौकसः ॥ ४.४८.२३ ॥
他们几乎在山洞的每个角落搜寻。随后,所有住在林中的猴子把整个山洞都搜遍了。
4.48.24
अन्यदेवापरं घोरं विविशुर्गिरिगह्वरम्।
ते विचित्य पुनः खिन्ना विनिष्पत्य समागताः।
एकान्ते वृक्षमूले तु निषेदुर्दीनमानसाः ॥ ४.४८.२४ ॥
随后他们又进入另一个可怕的山洞。搜寻得精疲力竭,他们走出来聚在一起,心情沮丧地坐在一棵孤零零的树下。