Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 4.5

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.5.1

ऋष्यमूकात् तु हनुमान् गत्वा तं मलयं गिरिम्।
आचचक्षे तदा वीरौ कपिराजाय राघवौ ॥ ४.५.१ ॥

哈奴曼从俱耶木迦山出发,来到那座摩罗耶山,然后向猴王讲述了那两位英勇的罗伽婆。

4.5.2

अयं रामो महाप्राज्ञ सम्प्राप्तो दृढविक्रमः।
लक्ष्मणेन सह भ्रात्रा रामोऽयं सत्यविक्रमः ॥ ४.५.२ ॥

哦,大智者!这位意志坚定、勇武的罗摩,与其弟罗什曼那一同到来;这位罗摩是真正勇武之人。

4.5.3

इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः।
धर्मे निगदितश्चैव पितुर्निर्देशकारकः ॥ ४.५.३ ॥

罗摩出生于甘蔗王族,是十车王之子,以法(达摩)闻名,并遵从父亲的命令。

4.5.4

राजसूयाश्वमेधैश्च वह्निर्येनाभितर्पितः।
दक्षिणाश्च तथोत्सृष्टा गावः शतसहस्रशः ॥ ४.५.४ ॥

他以拉杰苏耶祭和马祭令火神得到满足,并以数十万头牛作为祭祀布施。

4.5.5

तपसा सत्यवाक्येन वसुधा येन पालिता।
स्त्रीहेतोस्तस्य पुत्रोऽयं रामोऽरण्यं समागतः ॥ ४.५.५ ॥

这位罗摩是以苦行与真言守护大地之人的儿子,为了一个女子来到了森林。

4.5.6

तस्यास्य वसतोऽरण्ये नियतस्य महात्मनः।
रावणेन हृता भार्या स त्वां शरणमागतः ॥ ४.५.६ ॥

这位居于森林、自律的大德之人的妻子被罗波那劫走;他如今前来投奔您的庇护。

4.5.7

भवता सख्यकामौ तौ भ्रातरौ रामलक्ष्मणौ।
प्रगृह्य चार्चयस्वैतौ पूजनीयतमावुभौ ॥ ४.५.७ ॥

请接纳并敬重那两位渴望与您结交的兄弟——罗摩与罗什曼——他们二人都极其值得尊敬。

4.5.8

श्रुत्वा हनूमतो वाक्यं सुग्रीवो वानराधिपः।
दर्शनीयतमो भूत्वा प्रीत्योवाच च राघवम् ॥ ४.५.८ ॥

猴王苏g里婆听了哈奴曼的话,化作极其俊美的形貌,怀着喜爱之情对罗怙之后说道。

4.5.9

भवान् धर्मविनीतश्च सुतपाः सर्ववत्सलः।
आख्याता वायुपुत्रेण तत्त्वतो मे भवद्गुणाः ॥ ४.५.९ ॥

您精通法义,善待贤人,对众生慈爱;风神之子向我如实讲述了您的德行。

4.5.10

तन्ममैवैष सत्कारो लाभश्चैवोत्तमः प्रभो।
यत्त्वमिच्छसि सौहार्दं वानरेण मया सह ॥ ४.५.१० ॥

主上,您愿意与我这只猴子结交,这正是我的荣幸,也是我最大的利益。

4.5.11

रोचते यदि मे सख्यं बाहुरेष प्रसारितः।
गृह्यतां पाणिना पाणिर्मर्यादा बध्यतां ध्रुवा ॥ ४.५.११ ॥

若您愿与我结交,这便是我伸出的手臂;让手握住手,立下坚固的誓约。

4.5.12

एतत् तु वचनं श्रुत्वा सुग्रीवस्य सुभाषितम्।
सम्प्रहृष्टमना हस्तं पीडयामास पाणिना ॥ ४.५.१२ ॥

罗摩听了苏g里婆这番善言,心中欢喜,便用自己的手紧紧握住了他的手。

4.5.13

हृष्टः सौहृदमालम्ब्य पर्यष्वजत पीडितम्।
ततो हनूमान् संत्यज्य भिक्षुरूपमरिंदमः ॥ ४.५.१३ ॥

他欣喜地怀着友谊,紧紧拥抱了须羯哩婆。随后,制服敌人的罗摩之友哈奴曼舍弃了比丘的形象。

4.5.14

काष्ठयोः स्वेन रूपेण जनयामास पावकम्।
दीप्यमानं ततो वह्निं पुष्पैरभ्यर्च्य सत्कृतम् ॥ ४.५.१४ ॥

他以自身的力量从两根木头中钻出火来。随后,他用花供奉那熊熊燃烧的火,以示尊敬。

4.5.15

तयोर्मध्ये तु सुप्रीतो निदधौ सुसमाहितः।
ततोऽग्निं दीप्यमानं तौ चक्रतुश्च प्रदक्षिणम् ॥ ४.५.१५ ॥

他十分欢喜,专心致志,将那熊熊燃烧的火置于两人之间。随后二人绕火而行,以火在右侧。

4.5.16

सुग्रीवो राघवश्चैव वयस्यत्वमुपागतौ।
ततः सुप्रीतमनसौ तावुभौ हरिराघवौ ॥ ४.५.१६ ॥

须羯哩婆与罗摩都成为了朋友。随后,这二人,猴王与罗摩,心中极为欢喜,结为了挚友。

4.5.17

अन्योन्यमभिवीक्षन्तौ न तृप्तिमभिजग्मतुः।
त्वं वयस्योऽसि हृद्यो मे ह्येकं दुःखं सुखं च नौ ॥ ४.५.१७ ॥

二人彼此凝视,仍不满足。(须羯哩婆说:)你是我的朋友,是我心中所爱;我们两人的苦与乐,原是一体。

4.5.18

सुग्रीवो राघवं वाक्यमित्युवाच प्रहृष्टवत्।
ततः सुपर्णबहुलां भङ्क्त्वा शाखां सुपुष्पिताम् ॥ ४.५.१८ ॥

须羯哩婆对罗摩说了这些话,仿佛非常欢喜。随后,折下一枝枝叶繁茂、花开得很盛的树枝,

4.5.19

सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः।
लक्ष्मणायाथ संहृष्टो हनुमान् मारुतात्मजः ॥ ४.५.१९ ॥

苏格里婆铺开娑罗树叶,与罗ghava同坐。此时欢喜的风之子哈奴曼为罗什曼那(备好了座位)。

4.5.20

शाखां चन्दनवृक्षस्य ददौ परमपुष्पिताम्।
ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा ॥ ४.५.२० ॥

(哈奴曼)递上一枝盛开的檀香树枝。此时欢喜的苏格里婆以温柔甜美的声音(说道)。

4.5.21

प्रत्युवाच तदा रामं हर्षव्याकुललोचनः।
अहं विनिकृतो राम चरामीह भयार्दितः ॥ ४.५.२१ ॥

此时苏格里婆双眼因喜悦而迷乱,回答罗摩说:“啊,罗摩,我遭受了侵害和剥夺;我在此因恐惧而备受折磨,四处流浪。”

4.5.22

हृतभार्यो वने त्रस्तो दुर्गमेतदुपाश्रितः।
सोऽहं त्रस्तो वने भीतो वसाम्युद्भ्रान्तचेतनः ॥ ४.५.२२ ॥

妻子被夺,在林中惊恐,我投身于这险峻的(山中)。我这般恐惧、畏惧,心神迷乱,居于林中。

4.5.23

वालिना निकृतो भ्रात्रा कृतवैरश्च राघव।
वालिनो मे महाभाग भयार्तस्याभयं कुरु ॥ ४.५.२३ ॥

我被兄长婆林所侵害,与之结下仇怨。啊,罗ghava,啊,大福之人,请赐我平安,我为婆林所惧,备受折磨。

4.5.24

कर्तुमर्हसि काकुत्स्थ भयं मे न भवेद् यथा।
एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः ॥ ४.५.२४ ॥

啊,迦恭特他,你应当使我不再恐惧。如此被告知后,光辉的罗摩,通晓法义、爱护法的人,(答道……)。

4.5.25

प्रत्यभाषत काकुत्स्थः सुग्रीवं प्रहसन्निव।
उपकारफलं मित्रं विदितं मे महाकपे ॥ ४.५.२५ ॥

迦古特斯族的罗摩微笑着回答须羯梨婆:“伟大的猴王啊,朋友之恩的果报,我是知道的。”

4.5.26

वालिनं तं वधिष्यामि तव भार्यापहारिणम्।
अमोघाः सूर्यसंकाशा ममेमे निशिताः शराः ॥ ४.५.२६ ॥

我将诛杀掳走你妻子的伐林。我这些锋利的箭,如太阳般光耀,从不落空。

4.5.27

तस्मिन् वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः।
कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसंनिभाः ॥ ४.५.२७ ॥

这些以鹤羽覆盖、如因陀罗大雷霆般的箭,将迅速落在那行为邪恶的伐林身上。

4.5.28

तीक्ष्णाग्रा ऋजुपर्वाणः सरोषा भुजगा इव।
तमद्य वालिनं पश्य तीक्ष्णैराशीविषोपमैः ॥ ४.५.२८ ॥

这些箭尖锐笔直,如同愤怒的毒蛇。今日你看那伐林,被这些如毒蛇般锐利的箭所伤。

4.5.29

शरैर्विनिहतं भूमौ प्रकीर्णमिव पर्वतम्।
स तु तद् वचनं श्रुत्वा राघवस्यात्मनो हितम्।
सुग्रीवः परमप्रीतः परमं वाक्यमब्रवीत् ॥ ४.५.२९ ॥

看那伐林,被箭射死,倒在地上,如崩散的山岳。须羯梨婆听了罗怙后裔那有益的话语,极为欢喜,说出了至上的言辞。

4.5.30

तव प्रसादेन नृसिंह वीर
प्रियां च राज्यं च समाप्नुयामहम्।
तथा कुरु त्वं नरदेव वैरिणं
यथा न हिंस्यात् स पुनर्ममाग्रजम् ॥ ४.५.३० ॥

愿因您的恩典,人中狮子、英雄啊,我能重获爱妻与王国。人主啊,请使那敌人不再伤害我的兄长。

4.5.31

सीताकपीन्द्रक्षणदाचराणां
राजीवहेमज्वलनोपमानि।
सुग्रीवरामप्रणयप्रसङ्गे
वामानि नेत्राणि समं स्फुरन्ति ॥ ४.५.३१ ॥

在谈论须羯里婆与罗摩友谊之时,悉多、猴王以及夜行者的左眼同时跳动,如同莲花与炽热的金焰。