Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 4.50

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.50.1

सह ताराङ्गदाभ्यां तु संगम्य हनुमान् कपिः।
विचिनोति च विन्ध्यस्य गुहाश्च गहनानि च ॥ ४.५०.१ ॥

猴子哈努曼与多罗、安加陀会合,在温底亚山的洞穴和密林中搜寻。

4.50.2

सिंहशार्दूलजुष्टाश्च गुहाश्च परितस्तदा।
विषमेषु नगेन्द्रस्य महाप्रस्रवणेषु च ॥ ४.५०.२ ॥

于是,在群山之王四周,他们搜寻了狮子与老虎栖居的洞穴、崎岖之地和巨大的瀑布。

4.50.3

आसेदुस्तस्य शैलस्य कोटिं दक्षिणपश्चिमाम्।
तेषां तत्रैव वसतां स कालो व्यत्यवर्तत ॥ ४.५०.३ ॥

他们到达该山的西南峰。在那里居住期间,时间流逝了。

4.50.4

स हि देशो दुरन्वेष्यो गुहागहनवान् महान्।
तत्र वायुसुतः सर्वं विचिनोति स्म पर्वतम् ॥ ४.५०.४ ॥

那片地域广大难寻,布满洞穴与密林;风之子在那里搜遍了整座山。

4.50.5

परस्परेण रहिता अन्योन्यस्याविदूरतः।
गजो गवाक्षो गवयः शरभो गन्धमादनः ॥ ४.५०.५ ॥

他们彼此分散,却相距不远:迦阇、迦婆迦沙、迦婆耶、沙罗婆和乾陀摩陀那。

4.50.6

मैन्दश्च द्विविदश्चैव हनूमान् जाम्बवानपि।
अङ्गदो युवराजश्च तारश्च वनगोचरः ॥ ४.५०.६ ॥

孟陀与提毗陀,哈努曼与熊王乔巴婆,太子安加陀与多罗——林中之民。

4.50.7

गिरिजालावृतान् देशान् मार्गित्वा दक्षिणां दिशम्।
विचिन्वन्तस्ततस्तत्र ददृशुर्विवृतं बिलम् ॥ ४.५०.७ ॥

他们在山林丛生的地区向南搜寻,在那里看见一个敞开的洞穴。

4.50.8

दुर्गमृक्षबिलं नाम दानवेनाभिरक्षितम्।
क्षुत्पिपासापरीतास्तु श्रान्तास्तु सलिलार्थिनः ॥ ४.५०.८ ॥

那是一个名叫熊穴(Ṛkṣa-bila)的难以进入的洞穴,由一个檀那婆守护。他们饥渴交加、疲惫不堪,正在寻找水源。

4.50.9

अवकीर्णं लतावृक्षैर्ददृशुस्ते महाबिलम्।
तत्र क्रौञ्चाश्च हंसाश्च सारसाश्चापि निष्क्रमन् ॥ ४.५०.९ ॥

他们看见那座被藤蔓和树木覆盖的大洞穴,鹤、天鹅和沙罗巴鸟正从里面飞出。

4.50.10

जलार्द्राश्चक्रवाकाश्च रक्ताङ्गाः पद्मरेणुभिः।
ततस्तद् बिलमासाद्य सुगन्धि दुरतिक्रमम् ॥ ४.५०.१० ॥

还有被水打湿、身体被莲花花粉染红的赤麻鸭。随后他们到达那洞穴——它芬芳而难以穿越——

4.50.11

विस्मयव्यग्रमनसो बभूवुर्वानरर्षभाः।
संजातपरिशङ्कास्ते तद् बिलं प्लवगोत्तमाः ॥ ४.५०.११ ॥

他们心中因惊奇而激荡,这些猴群中的雄杰对那洞穴生出了疑虑——他们都是最善跳跃的勇士。

4.50.12

अभ्यपद्यन्त संहृष्टास्तेजोवन्तो महाबलाः।
नानासत्त्वसमाकीर्णं दैत्येन्द्रनिलयोपमम् ॥ ४.५०.१२ ॥

这些光彩照人、力量强大的勇士欣喜地走向那洞穴,里面充满各种生灵,如同阿修罗之王的居所。

4.50.13

दुर्दर्शमिव घोरं च दुर्विगाह्यं च सर्वशः।
ततः पर्वतकूटाभो हनूमान् मारुतात्मजः ॥ ४.५०.१३ ॥

那洞穴外观可怖,四面都难以进入。于是如山峰般的风之子哈奴曼,

4.50.14

अब्रवीद् वानरान् घोरान् कान्तारवनकोविदः।
गिरिजालावृतान् देशान् मार्गित्वा दक्षिणां दिशम् ॥ ४.५०.१४ ॥

精通荒野与林道的哈奴曼,在南方搜寻了被群山环绕的地域后,对凶猛的猴子们说道:

4.50.15

वयं सर्वे परिश्रान्ता न च पश्याम मैथिलीम्।
अस्माच्चापि बिलाद्धंसाः क्रौञ्चाश्च सह सारसैः ॥ ४.५०.१५ ॥

我们都已疲惫,却不见弥提罗公主。然而从这洞中,天鹅与鹤连同沙罗薮鸟一起飞出。

4.50.16

जलार्द्राश्चक्रवाकाश्च निष्पतन्ति स्म सर्वशः।
नूनं सलिलवानत्र कूपो वा यदि वा ह्रदः ॥ ४.५०.१६ ॥

被水打湿的赤麻鸭也从四面飞出。这里必定有水,或是一口井,或是一个湖。

4.50.17

तथा चेमे बिलद्वारे स्निग्धास्तिष्ठन्ति पादपाः।
इत्युक्तास्तद् बिलं सर्वे विविशुस्तिमिरावृतम् ॥ ४.५०.१७ ॥

而且这些茂盛的树木就立在洞口。听了这话,所有猴子便进入了那被黑暗笼罩的洞穴。

4.50.18

अचन्द्रसूर्यं हरयो ददृशू रोमहर्षणम्।
निशाम्य तस्मात् सिंहांश्च तांस्तांश्च मृगपक्षिणः ॥ ४.५०.१८ ॥

猴子们看见了那个令人毛骨悚然、没有日月的地方。从那里听到狮子的吼声,以及各种野兽与飞禽的叫声,

4.50.19

प्रविष्टा हरिशार्दूला बिलं तिमिरसंवृतम्।
न तेषां सज्जते दृष्टिर्न तेजो न पराक्रमः ॥ ४.५०.१९ ॥

群猴中的虎将进入那被黑暗笼罩的洞穴,他们的目力、精神与勇力都无济于事。

4.50.20

वायोरिव गतिस्तेषां दृष्टिस्तमसि वर्तते।
ते प्रविष्टास्तु वेगेन तद् बिलं कपिकुञ्जराः ॥ ४.५०.२० ॥

他们的行动如风般迅疾,目光却仍留在黑暗之中;那些猴中的象王疾速冲入洞穴,便滞留在那里。

4.50.21

प्रकाशं चाभिरामं च ददृशुर्देशमुत्तमम्।
ततस्तस्मिन् बिले भीमे नानापादपसंकुले ॥ ४.५०.२१ ॥

随后,在那可怖而树木繁多的洞穴中,他们看见了一处光明、美好而殊胜的地方。

4.50.22

अन्योन्यं सम्परिष्वज्य जग्मुर्योजनमन्तरम्।
ते नष्टसंज्ञास्तृषिताः सम्भ्रान्ताः सलिलार्थिनः ॥ ४.५०.२२ ॥

他们相互拥抱,走了一由旬之远;失去知觉,口渴慌乱,四处寻找水源。

4.50.23

परिपेतुर्बिले तस्मिन् कंचित् कालमतन्द्रिताः।
ते कृशा दीनवदनाः परिश्रान्ताः प्लवङ्गमाः ॥ ४.५०.२३ ॥

在洞中,他们徘徊了一段时间,疲惫却仍警觉;那些善跳的猴子消瘦、面容悲戚,已全然精疲力竭。

4.50.24

आलोकं ददृशुर्वीरा निराशा जीविते यदा।
ततस्तं देशमागम्य सौम्या वितिमिरं वनम् ॥ ४.५०.२४ ॥

当那些英雄几乎对生存绝望时,他们才看见了光明;这些温和的猴子来到了那片无暗之林。

4.50.25

ददृशुः काञ्चनान् वृक्षान् दीप्तवैश्वानरप्रभान्।
सालांस्तालांस्तमालांश्च पुंनागान् वञ्जुलान् धवान् ॥ ४.५०.२५ ॥

他们看见金色的树木,光芒如同燃烧的烈火:娑罗、多罗、多摩罗、普那伽、旃朱罗与达婆树。

4.50.26

चम्पकान् नागवृक्षांश्च कर्णिकारांश्च पुष्पितान्।
स्तबकैः काञ्चनैश्चित्रै रक्तैः किसलयैस्तथा ॥ ४.५०.२६ ॥

他们看见瞻波树、那伽树以及盛开的迦尔尼迦拉树,缀满金色、斑斓的花穗与红色嫩芽。

4.50.27

आपीडैश्च लताभिश्च हेमाभरणभूषितान्।
तरुणादित्यसंकाशान् वैदूर्यमयवेदिकान् ॥ ४.५०.२७ ॥

它们以花环、藤蔓和金饰装点,光辉如初升的朝阳,并设有琉璃玉砌成的台座。

4.50.28

बिभ्राजमानान् वपुषा पादपांश्च हिरण्मयान्।
नीलवैदूर्यवर्णाश्च पद्मिनीः पतगैर्वृताः ॥ ४.५०.२८ ॥

金色的树木以其形态熠熠生辉,如青金石般碧蓝的莲池被飞鸟环绕。

4.50.29

महद्भिः काञ्चनैर्वृक्षैर्वृता बालार्कसंनिभैः।
जातरूपमयैर्मत्स्यैर्महद्भिश्चाथ पङ्कजैः ॥ ४.५०.२९ ॥

它们被如朝阳般的巨大金树环绕,池中有金色的鱼和巨大的莲花。

4.50.30

नलिनीस्तत्र ददृशुः प्रसन्नसलिलायुताः।
काञ्चनानि विमानानि राजतानि तथैव च ॥ ४.५०.३० ॥

他们在那里看见盛满清澈池水的莲池,还有金制与银制的宫殿。

4.50.31

तपनीयगवाक्षाणि मुक्ताजालावृतानि च।
हैमराजतभौमानि वैदूर्यमणिमन्ति च ॥ ४.५०.३१ ॥

有金色的窗户,覆盖着珍珠网,由金、银和土制成,并镶嵌着猫眼石。

4.50.32

ददृशुस्तत्र हरयो गृहमुख्यानि सर्वशः।
पुष्पितान् फलिनो वृक्षान् प्रवालमणिसंनिभान् ॥ ४.५०.३२ ॥

猴子们在那里到处看到主要的宅第,以及开花结果的树木,闪耀如珊瑚和宝石。

4.50.33

काञ्चनभ्रमरांश्चैव मधूनि च समन्ततः।
मणिकाञ्चनचित्राणि शयनान्यासनानि च ॥ ४.५०.३३ ॥

金色的蜜蜂,四周有蜂蜜,还有镶嵌着宝石与黄金的卧榻与座椅。

4.50.34

विविधानि विशालानि ददृशुस्ते समन्ततः।
हैमराजतकांस्यानां भाजनानां च राशयः ॥ ४.५०.३४ ॥

他们到处看到各种宏大的物品,以及金、银、铜器皿的堆积。

4.50.35

अगुरूणां च दिव्यानां चन्दनानां च संचयान्।
शुचीन्यभ्यवहाराणि मूलानि च फलानि च ॥ ४.५०.३५ ॥

神圣的沉香与檀香堆积如山,还有洁净的饮食、根茎和果实。

4.50.36

महार्हाणि च यानानि मधूनि रसवन्ति च।
दिव्यानामम्बराणां च महार्हाणां च संचयान् ॥ ४.५०.३६ ॥

极其珍贵的车乘、香甜的蜂蜜,以及神圣而极其贵重的衣物堆积。

4.50.37

कम्बलानां च चित्राणामजिनानां च संचयान्।
तत्र तत्र च विन्यस्तान् दीप्तान् वैश्वानरप्रभान् ॥ ४.५०.३७ ॥

他们看见到处堆放着的彩色毛毯和鹿皮堆,闪耀着如祭火般的光芒。

4.50.38

ददृशुर्वानराः शुभ्राञ्जातरूपस्य संचयान्।
तत्र तत्र विचिन्वन्तो बिले तत्र महाप्रभाः ॥ ४.५०.३८ ॥

在那山洞里,四处搜寻的大光明的猴子们看见了闪亮的黄金堆。

4.50.39

ददृशुर्वानराः शूराः स्त्रियं कांचिददूरतः।
तां च ते ददृशुस्तत्र चीरकृष्णाजिनाम्बराम् ॥ ४.५०.३९ ॥

勇猛的猴子们在不远处看见一个女子,她身穿树皮衣和黑羚羊皮。

4.50.40

तापसीं नियताहारां ज्वलन्तीमिव तेजसा।
विस्मिता हरयस्तत्र व्यवतिष्ठन्त सर्वशः।
पप्रच्छ हनुमांस्तत्र कासि त्वं कस्य वा बिलम् ॥ ४.५०.४० ॥

猴子们看见这位饮食有节、光芒如火燃烧的苦行女子,惊讶地站在四周。于是哈努曼问道:“你是谁?这山洞是谁的?”

4.50.41

ततो हनूमान् गिरिसंनिकाशः
कृताञ्जलिस्तामभिवाद्य वृद्धाम्।
पप्रच्छ का त्वं भवनं बिलं च
रत्नानि चेमानि वदस्व कस्य ॥ ४.५०.४१ ॥

于是,如山一般的哈努曼合掌向那位老妇人致敬,问道:“你是谁?这住所、山洞和这些宝物是谁的?请告诉我们。”