蚁垤《罗摩衍那》 · 篇 4.51
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.51.1
इत्युक्त्वा हनुमांस्तत्र चीरकृष्णाजिनाम्बराम्।
अब्रवीत् तां महाभागां तापसीं धर्मचारिणीम् ॥ ४.५१.१ ॥
说完这话,哈努曼便对那位身着树皮衣与黑羚羊皮、恪守法道的大福德苦行女说道。
4.51.2
इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम्।
क्षुत्पिपासापरिश्रान्ताः परिखिन्नाश्च सर्वशः ॥ ४.५१.२ ॥
我们饥渴交迫、十分疲惫,忽然走进了这座被黑暗笼罩的洞穴。
4.51.3
महद् धरण्या विवरं प्रविष्टाः स्म पिपासिताः।
इमांस्त्वेवंविधान् भावान् विविधानद्भुतोपमान् ॥ ४.५१.३ ॥
我们口渴难耐,进入了大地的这一巨大洞口;在这里我们看到了种种如奇迹般的景象。
4.51.4
दृष्ट्वा वयं प्रव्यथिताः सम्भ्रान्ता नष्टचेतसः।
कस्यैते काञ्चना वृक्षास्तरुणादित्यसंनिभाः ॥ ४.५१.४ ॥
看到这些,我们十分惊慌、迷乱,心神失守。这些如初升朝阳般的金色树木,是属于谁的?
4.51.5
शुचीन्यभ्यवहाराणि मूलानि च फलानि च।
काञ्चनानि विमानानि राजतानि गृहाणि च ॥ ४.५१.५ ॥
这里有洁净可食的根与果实,有金色的天宫,也有银色的房屋。
4.51.6
तपनीयगवाक्षाणि मणिजालावृतानि च।
पुष्पिताः फलवन्तश्च पुण्याः सुरभिगन्धयः ॥ ४.५१.६ ॥
它们有覆着宝石网的金色窗户;还有开花结果、香气扑鼻的圣洁树木。
4.51.7
इमे जाम्बूनदमयाः पादपाः कस्य तेजसा।
काञ्चनानि च पद्मानि जातानि विमले जले ॥ ४.५१.७ ॥
这些由闍浮那金制成的树木是凭借谁的光辉而存在?清澈的水中金色的莲花又是凭借谁的力量而生长的?
4.51.8
कथं मत्स्याश्च सौवर्णा दृश्यन्ते सह कच्छपैः।
आत्मनस्त्वनुभावाद् वा कस्य चैतत्तपोबलम् ॥ ४.५१.८ ॥
金色的鱼为何与龟一同出现?这是你自身的力量,还是谁的苦行之力?
4.51.9
अजानतां नः सर्वेषां सर्वमाख्यातुमर्हसि।
एवमुक्ता हनुमता तापसी धर्मचारिणी ॥ ४.५१.९ ॥
我们都不知道,你应当把一切都告诉我们。哈努曼如此询问后,那位遵行法道的女苦行者……
4.51.10
प्रत्युवाच हनूमन्तं सर्वभूतहिते रता।
मयो नाम महातेजा मायावी वानरर्षभ ॥ ४.५१.१० ॥
那位致力于众生福祉的女苦行者回答哈努曼:猴中之雄啊,他名叫摩耶,大有光辉,精通幻术。
4.51.11
तेनेदं निर्मितं सर्वं मायया काञ्चनं वनम्।
पुरा दानवमुख्यानां विश्वकर्मा बभूव ह ॥ ४.५१.११ ॥
他以幻术造出了整片金色的森林。往昔,他曾是诸大檀那婆的神工匠。
4.51.12
येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम्।
स तु वर्षसहस्राणि तपस्तप्त्वा महद्वने ॥ ४.५१.१२ ॥
建造这座金色、神圣而殊胜宫殿的人,曾在大森林中苦修了千年。
4.51.13
पितामहाद् वरं लेभे सर्वमौशनसं धनम्।
विधाय सर्वं बलवान् सर्वकामेश्वरस्तदा ॥ ४.५१.१३ ॥
他从祖父梵天处获得恩赐,乌那娑的全部财富也归他所有。于是这位强大的一切欲望之主安排了一切。
4.51.14
उवास सुखितः कालं कंचिदस्मिन् महावने।
तमप्सरसि हेमायां सक्तं दानवपुङ्गवम् ॥ ४.५१.१४ ॥
他在这片大森林中幸福地居住了一段时间;这位达那婆中的佼佼者眷恋着天女赫玛。
4.51.15
विक्रम्यैवाशनिं गृह्य जघानेशः पुरंदरः।
इदं च ब्रह्मणा दत्तं हेमायै वनमुत्तमम् ॥ ४.५१.१५ ॥
威武的因陀罗神勇地持起金刚杵将其击倒。而这片殊胜的森林是梵天赐予赫玛的。
4.51.16
शाश्वतः कामभोगश्च गृहं चेदं हिरण्मयम्।
दुहिता मेरुसावर्णेरहं तस्याः स्वयंप्रभा ॥ ४.५१.१६ ॥
永恒的欲乐,还有这座金色的宫殿。我是梅卢萨瓦尔尼之女,名叫自光。
4.51.17
इदं रक्षामि भवनं हेमाया वानरोत्तम।
मम प्रियसखी हेमा नृत्तगीतविशारदा ॥ ४.५१.१७ ॥
威猛的猴中之王啊,我守护着赫玛的这座宫殿。我亲爱的朋友赫玛精通舞蹈与歌唱。
4.51.18
तयादत्तवरा चास्मि रक्षामि भवनं महत्।
किं कार्यं कस्य वा हेतोः कान्ताराणि प्रपद्यथ ॥ ४.५१.१८ ॥
凭着她赐予我的恩惠,我守护着这座大宫殿。你们为了何事、为了谁、因何缘故进入这些荒僻的森林?
4.51.19
कथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम्।
शुचीन्यभ्यवहाराणि मूलानि च फलानि च।
भुक्त्वा पीत्वा च पानीयं सर्वं मे वक्तुमर्हसि ॥ ४.५१.१९ ॥
你们是如何到达这片艰险的森林的?你们吃了洁净的食物、根茎和果实,又饮了水,这一切都应当告诉我。