Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 4.6

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

4.6.1

पुनरेवाब्रवीत् प्रीतो राघवं रघुनन्दनम्।
अयमाख्याति ते राम सचिवो मन्त्रिसत्तमः ॥ ४.६.१ ॥

再び喜んで、ラグの民の喜びなるラーghavaに彼は言った。「ラーマよ、あなたの最も優れた大臣が告げます。」

4.6.2

हनुमान् यन्निमित्तं त्वं निर्जनं वनमागतः।
लक्ष्मणेन सह भ्रात्रा वसतश्च वने तव ॥ ४.६.२ ॥

ハヌマーン(言う)「なぜあなたは弟のラクシュマナとともにこの人けのない森に来て、森に住んでいるのですか。」

4.6.3

रक्षसापहृता भार्या मैथिली जनकात्मजा।
त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता ॥ ४.६.३ ॥

羅刹にさらわれたあなたの妻、ジャナカの娘マイティリーは、あなたと賢明なラクシュマナと離れて泣いている。

4.6.4

अन्तरं प्रेप्सुना तेन हत्वा गृध्रं जटायुषम्।
भार्यावियोगजं दुःखं प्रापितस्तेन रक्षसा ॥ ४.६.४ ॥

機会をうかがって彼は鷲のジャターユを殺した。その羅刹によって、あなたは妻との別離から生じた悲しみに陥れられた。

4.6.5

भार्यावियोगजं दुःखं नचिरात् त्वं विमोक्ष्यसे।
अहं तामानयिष्यामि नष्टां वेदश्रुतीमिव ॥ ४.६.५ ॥

まもなくあなたは、妻との別離から生じたこの悲しみから解放されるでしょう。失われたヴェーダの啓示を取り戻すように、私が彼女を連れ戻します。

4.6.6

रसातले वा वर्तन्तीं वर्तन्तीं वा नभस्तले।
अहमानीय दास्यामि तव भार्यामरिंदम ॥ ४.६.६ ॥

彼女が冥界にいようと空にいようと、私は彼女を連れてきて、あなたの妻をあなたにお渡しします。敵を征服する方よ!

4.6.7

इदं तथ्यं मम वचस्त्वमवेहि च राघव।
न शक्या सा जरयितुमपि सेन्द्रैः सुरासुरैः ॥ ४.६.७ ॥

ラーガヴァよ、私の言葉は真実だと知れ。インドラを含む神々と阿修羅でさえ、彼女を屈服させることはできない。

4.6.8

तव भार्या महाबाहो भक्ष्यं विषकृतं यथा।
त्यज शोकं महाबाहो तां कान्तामानयामि ते ॥ ४.६.८ ॥

あなたの妻は毒を盛られた食べ物のようなもの、大腕の方よ。悲しみを捨てよ、大腕の方よ。その愛しい人を、あなたのもとへ連れて来よう。

4.6.9

अनुमानात् तु जानामि मैथिली सा न संशयः।
ह्रियमाणा मया दृष्टा रक्षसा रौद्रकर्मणा ॥ ४.६.९ ॥

推測によって、彼女はマイティリーであると私は知っている、疑いはない。残酷な行為をする羅刹に連れ去られるのを私は見た。

4.6.10

क्रोशन्ती रामरामेति लक्ष्मणेति च विस्वरम्।
स्फुरन्ती रावणस्याङ्के पन्नगेन्द्रवधूर्यथा ॥ ४.६.१० ॥

「ラーマよ、ラーマよ」「ラクシュマナよ」と悲痛に叫び、ラーヴァナの膝の上でもがく、まるで蛇王の妃のように。

4.6.11

आत्मना पञ्चमं मां हि दृष्ट्वा शैलतले स्थितम्।
उत्तरीयं तया त्यक्तं शुभान्याभरणानि च ॥ ४.६.११ ॥

山の斜面に立つ私を、五番目の者として見つけると、彼女は上衣と吉祥の飾りを投げ落とした。

4.6.12

तान्यस्माभिर्गृहीतानि निहितानि च राघव।
आनयिष्याम्यहं तानि प्रत्यभिज्ञातुमर्हसि ॥ ४.६.१२ ॥

私たちはそれらを拾い上げ、取っておいた、ラーガヴァよ。私がそれらを持って来よう。あなたはそれを見分けるべきだ。

4.6.13

तमब्रवीत् ततो रामः सुग्रीवं प्रियवादिनम्।
आनयस्व सखे शीघ्रं किमर्थं प्रविलम्बसे ॥ ४.६.१३ ॥

そこでラーマは、やさしく語るスグリーヴァに言った。「友よ、早く持ってこい。なぜ遅れるのか。」

4.6.14

एवमुक्तस्तु सुग्रीवः शैलस्य गहनां गुहाम्।
प्रविवेश ततः शीघ्रं राघवप्रियकाम्यया ॥ ४.६.१४ ॥

こう言われたスグリーヴァは、ラグハヴァに喜ばれたい一心で、山の深い洞窟へ素早く入った。

4.6.15

उत्तरीयं गृहीत्वा तु स तान्याभरणानि च।
इदं पश्येति रामाय दर्शयामास वानरः ॥ ४.६.१५ ॥

するとその猿は上衣とそれらの装身具を手に取り、「これを見てください」と言ってラーマに示した。

4.6.16

ततो गृहीत्वा वासस्तु शुभान्याभरणानि च।
अभवद् बाष्पसंरुद्धो नीहारेणेव चन्द्रमाः ॥ ४.६.१६ ॥

そしてラーマは、その布と輝く装身具を手にすると、霧に覆われた月のように涙に咽んだ。

4.6.17

सीतास्नेहप्रवृत्तेन स तु बाष्पेण दूषितः।
हा प्रियेति रुदन् धैर्यमुत्सृज्य न्यपतत् क्षितौ ॥ ४.६.१७ ॥

シーターへの愛から溢れた涙に打ちひしがれ、「ああ、愛しい人よ!」と泣き叫び、平静を失って地に倒れ伏した。

4.6.18

हृदि कृत्वा स बहुशस्तमलंकारमुत्तमम्।
निशश्वास भृशं सर्पो बिलस्थ इव रोषितः ॥ ४.६.१८ ॥

その見事な装身具を幾度も胸に押し当て、穴に潜む怒った蛇のように深く溜め息をついた。

4.6.19

अविच्छिन्नाश्रुवेगस्तु सौमित्रिं प्रेक्ष्य पार्श्वतः।
परिदेवयितुं दीनं रामः समुपचक्रमे ॥ ४.६.१९ ॥

絶え間なく涙を流すラーマは、傍らに立つスミトラーの子ラクシュマナを見て、悲痛な声で嘆き始めた。

4.6.20

पश्य लक्ष्मण वैदेह्या संत्यक्तं ह्रियमाणया।
उत्तरीयमिदं भूमौ शरीराद् भूषणानि च ॥ ४.६.२० ॥

見よ、ラクシュマナ。連れ去られる間に、ヴァイデーヒーはこの上衣と身から外した装身具を地面に落としたのだ。

4.6.21

शाद्वलिन्यां ध्रुवं भूम्यां सीतया ह्रियमाणया।
उत्सृष्टं भूषणमिदं तथा रूपं हि दृश्यते ॥ ४.६.२१ ॥

草に覆われたこの地面に、連れ去られるシーターは確かにこの装飾品を落としたのだ。その形はそのまま見えている。

4.6.22

एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत्।
नाहं जानामि केयूरे नाहं जानामि कुण्डले ॥ ४.६.२२ ॥

ラーマがこう言うと、ラクシュマナは答えた。「私は腕輪を見分けられません。耳飾りも見分けられません。」

4.6.23

नूपुरे त्वभिजानामि नित्यं पादाभिवन्दनात्।
ततस्तु राघवो वाक्यं सुग्रीवमिदमब्रवीत् ॥ ४.६.२३ ॥

しかし足首の飾りは分かります。私はいつも彼女の足元に礼拝していましたから。そこでラーガヴァはスグリーヴァにこう言った。

4.6.24

ब्रूहि सुग्रीव कं देशं ह्रियन्ती लक्षिता त्वया।
रक्षसा रौद्ररूपेण मम प्राणप्रिया हृता ॥ ४.६.२४ ॥

スグリーヴァよ、言ってくれ。連れ去られる彼女をどの地方の方角に見たのか。恐ろしい姿の羅刹が、命よりも愛しい私の妻を奪い去ったのだ。

4.6.25

क्व वा वसति तद् रक्षो महद् व्यसनदं मम।
यन्निमित्तमहं सर्वान् नाशयिष्यामि राक्षसान् ॥ ४.६.२५ ॥

私に大いなる災いをもたらしたあの大羅刹は、どこに住んでいるのか。彼のために、私はすべての羅刹を滅ぼそう。

4.6.26

हरता मैथिलीं येन मां च रोषयता ध्रुवम्।
आत्मनो जीवितान्ताय मृत्युद्वारमपावृतम् ॥ ४.६.२६ ॥

マイティリーを奪い、私を怒らせた彼は、確かに自らの命の終わりへ死の門を開いてしまったのだ。

4.6.27

मम दयिततमा हृता वनाद्
रजनिचरेण विमथ्य येन सा।
कथय मम रिपुं तमद्य वै
प्लवगपते यमसंनिधिं नयामि ॥ ४.६.२७ ॥

最愛の妻が、夜歩く者によって森から無理やり奪われた。猿の王よ、その敵が誰か私に告げよ。今日のうちに彼をヤマの御前へ送ってやろう。