Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 4.60

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.60.1

ततः कृतोदकं स्नातं तं गृध्रं हरियूथपाः।
उपविष्टा गिरौ रम्ये परिवार्य समन्ततः ॥ ४.६०.१ ॥

随后,猴群的首领们让已洗浴并献上水供的秃鹫坐在可爱的山上,四面环绕着他。

4.60.2

तमङ्गदमुपासीनं तैः सर्वैर्हरिभिर्वृतम्।
जनितप्रत्ययो हर्षात् सम्पातिः पुनरब्रवीत् ॥ ४.६०.२ ॥

桑帕提坐在安伽达身旁,被众猴环绕,心生信任,欢喜地再次开口说道。

4.60.3

कृत्वा निःशब्दमेकाग्राः शृण्वन्तु हरयो मम।
तथ्यं संकीर्तयिष्यामि यथा जानामि मैथिलीम् ॥ ४.६०.३ ॥

诸位猴子,请安静专注地听我说。我将如实说出我所知道的关于摩提里的事。

4.60.4

अस्य विन्ध्यस्य शिखरे पतितोऽस्मि पुरानघ।
सूर्यतापपरीताङ्गो निर्दग्धः सूर्यरश्मिभिः ॥ ४.६०.४ ॥

无罪者啊,很久以前我坠落在这座温陀耶山的峰顶,身体被太阳的热力灼伤,被阳光的光线烧焦。

4.60.5

लब्धसंज्ञस्तु षड्रात्राद् विवशो विह्वलन्निव।
वीक्षमाणो दिशः सर्वा नाभिजानामि किंचन ॥ ४.६०.५ ॥

六夜之后我虽恢复了知觉,却无助而迷乱,望着四面八方,什么都认不出来。

4.60.6

ततस्तु सागरान् शैलान् नदीः सर्वाः सरांसि च।
वनानि च प्रदेशांश्च निरीक्ष्य मतिरागता ॥ ४.६०.६ ॥

随后,我看见了大海、群山、所有的河流、湖泊、森林与各地,我的心智(记忆)才恢复过来。

4.60.7

हृष्टपक्षिगणाकीर्णः कन्दरोदरकूटवान्।
दक्षिणस्योदधेस्तीरे विन्ध्योऽयमिति निश्चितः ॥ ४.६०.७ ॥

这里群鸟欢鸣,遍布洞穴、深谷与峰峦,被确认为南海岸边的温底耶山。

4.60.8

आसीच्चात्राश्रमं पुण्यं सुरैरपि सुपूजितम्।
ऋषिर्निशाकरो नाम यस्मिन्नुग्रतपाऽभवत् ॥ ४.६०.८ ॥

这里曾有一座圣洁的修行林,连诸神都极为尊崇;苦行严酷的仙人尼舍卡拉曾在此修行。

4.60.9

अष्टौ वर्षसहस्राणि तेनास्मिन्नृषिणा गिरौ।
वसतो मम धर्मज्ञे स्वर्गते तु निशाकरे ॥ ४.६०.९ ॥

精通法义的人啊!那位仙人住在此山时,以及尼舍卡拉升天之后,我在此居住了八千年。

4.60.10

अवतीर्य च विन्ध्याग्रात् कृच्छ्रेण विषमाच्छनैः।
तीक्ष्णदर्भां वसुमतीं दुःखेन पुनरागतः ॥ ४.६०.१० ॥

我从温底耶山顶艰难地缓缓下来,走过崎岖的小路,怀着忧伤回到了长满尖利吉祥草的大地。

4.60.11

तमृषिं द्रष्टुकामोऽस्मि दुःखेनाभ्यागतो भृशम्।
जटायुषा मया चैव बहुशोऽधिगतो हि सः ॥ ४.६०.११ ॥

我想见那位仙人,怀着极大的忧愁来到此地;我和迦塔尤曾多次拜会过他。

4.60.12

तस्याश्रमपदाभ्याशे ववुर्वाताः सुगन्धिनः।
वृक्षो नापुष्पितः कश्चिदफलो वा न दृश्यते ॥ ४.६०.१२ ॥

在他修行林的附近,吹拂着芬芳的风;看不到一棵没有花或没有果的树。

4.60.13

उपेत्य चाश्रमं पुण्यं वृक्षमूलमुपाश्रितः।
द्रष्टुकामः प्रतीक्षे च भगवन्तं निशाकरम् ॥ ४.६०.१३ ॥

我来到神圣的修行处,在树根下栖身,渴望见到尊贵的月神,于是等待着。

4.60.14

अथ पश्यामि दूरस्थमृषिं ज्वलिततेजसम्।
कृताभिषेकं दुर्धर्षमुपावृत्तमुदङ्मुखम् ॥ ४.६०.१४ ॥

然后我远远看见一位光芒炽盛的仙人,已完成灌顶沐浴,不可侵犯,转身面向北方而立。

4.60.15

तमृक्षाः सृमरा व्याघ्राः सिंहा नानासरीसृपाः।
परिवार्योपगच्छन्ति दातारं प्राणिनो यथा ॥ ४.६०.१५ ॥

如同众生围绕施主,熊、鹿、虎、狮及各种爬行之物围绕着他,纷纷走近。

4.60.16

ततः प्राप्तमृषिं ज्ञात्वा तानि सत्त्वानि वै ययुः।
प्रविष्टे राजनि यथा सर्वं सामात्यकं बलम् ॥ ४.६०.१६ ॥

得知仙人已到,那些生灵便散去了,正如国王驾临时,全军连同大臣都退避一旁。

4.60.17

ऋषिस्तु दृष्ट्वा मां तुष्टः प्रविष्टश्चाश्रमं पुनः।
मुहूर्तमात्रान्निर्गम्य ततः कार्यमपृच्छत ॥ ४.६०.१७ ॥

仙人见我欢喜,又回到修行处;片刻之后出来,问我此行的目的。

4.60.18

सौम्य वैकल्यतां दृष्ट्वा रोम्णां ते नावगम्यते।
अग्निदग्धाविमौ पक्षौ प्राणाश्चापि शरीरके ॥ ४.६०.१८ ॥

善良的人啊,见你残缺,羽毛的绒毛也看不出来;这两只翅膀已被火烧焦,连你身上的气息也几乎没有了。

4.60.19

गृध्रौ द्वौ दृष्टपूर्वौ मे मातरिश्वसमौ जवे।
गृध्राणां चैव राजानौ भ्रातरौ कामरूपिणौ ॥ ४.६०.१९ ॥

我以前见过两只与风一样迅疾的秃鹫。它们是秃鹫之王,是两兄弟,能随意变化形貌。

4.60.20

ज्येष्ठोऽवितस्त्वं सम्पाते जटायुरनुजस्तव।
मानुषं रूपमास्थाय गृह्णीतां चरणौ मम ॥ ४.६०.२० ॥

你是长兄,阿维多,啊,桑帕蒂;贾塔尤是你的弟弟。愿他们化为人形,抓住我的双足。

4.60.21

किं ते व्याधिसमुत्थानं पक्षयोः पतनं कथम्।
दण्डो वायं धृतः केन सर्वमाख्याहि पृच्छतः ॥ ४.६०.२१ ॥

你的这场病是怎么来的?你的翅膀又怎么会折落?这根杖是谁持的?我问你,请把一切都告诉我。