Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 4.62

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.62.1

एवमुक्त्वा मुनिश्रेष्ठमरुदं भृशदुःखितः।
अथ ध्यात्वा मुहूर्तं च भगवानिदमब्रवीत् ॥ ४.६२.१ ॥

如此对诸仙中最优秀的阿鲁达说完,极度悲伤的他随后静思片刻,这位尊者便说道:

4.62.2

पक्षौ च ते प्रपक्षौ च पुनरन्यौ भविष्यतः।
चक्षुषी चैव प्राणाश्च विक्रमश्च बलं च ते ॥ ४.६२.२ ॥

你的翅膀和羽毛将再次变成另外的样子;你的眼睛、生命之气、勇力与力量也都将重新属于你。

4.62.3

पुराणे सुमहत्कार्यं भविष्यं हि मया श्रुतम्।
दृष्टं मे तपसा चैव श्रुत्वा च विदितं मम ॥ ४.६२.३ ॥

我在古老的典籍中听说过一件未来的大事;我以苦行看见了它,听闻之后,它也为我所知。

4.62.4

राजा दशरथो नाम कश्चिदिक्ष्वाकुवर्धनः।
तस्य पुत्रो महातेजा रामो नाम भविष्यति ॥ ४.६२.४ ॥

将会有一位名叫十车王的国王,他是伊克瓦库家族的光大者;他那光辉灿烂的儿子将名叫罗摩。

4.62.5

अरण्यं च सह भ्रात्रा लक्ष्मणेन गमिष्यति।
तस्मिन्नर्थे नियुक्तः सन् पित्रा सत्यपराक्रमः ॥ ४.६२.५ ॥

他将与弟弟罗什曼那一同前往森林;受父亲委派去完成那件事,这位真正勇猛的人(将前往)。

4.62.6

नैर्ऋतो रावणो नाम तस्य भार्यां हरिष्यति।
राक्षसेन्द्रो जनस्थाने अवध्यः सुरदानवैः ॥ ४.६२.६ ॥

名为罗刹的罗波那将劫走他的妻子;这位罗刹之王在檀那斯坦中,连神与檀那婆都无法杀死。

4.62.7

सा च कामैः प्रलोभ्यन्ती भक्ष्यैर्भोज्यैश्च मैथिली।
न भोक्ष्यति महाभागा दुःखमग्ना यशस्विनी ॥ ४.६२.७ ॥

即使她被欲乐与美食、饮食所引诱,摩ithila公主(悉多)也不会进食;她福德广大(mahābhāgā),沉浸于悲苦之中,且荣耀(yaśasvinī)。

4.62.8

परमान्नं च वैदेह्या ज्ञात्वा दास्यति वासवः।
यदन्नममृतप्रख्यं सुराणामपि दुर्लभम् ॥ ४.६२.८ ॥

得知因陀罗(伐薮婆)将赐予毗提诃公主至上之食——那食物如甘露,连诸天也难以获得。

4.62.9

तदन्नं मैथिली प्राप्य विज्ञायेन्द्रादिदं त्विति।
अग्रमुद्धृत्य रामाय भूतले निर्वपिष्यति ॥ ४.६२.९ ॥

摩提罗公主(悉多)得到此食,知其来自因陀罗,便取出第一份,在地上为罗摩献祭。

4.62.10

यदि जीवति मे भर्ता लक्ष्मणो वापि देवरः।
देवत्वं गच्छतोर्वापि तयोरन्नमिदं त्विति ॥ ४.६२.१० ॥

若我的夫君尚在,或小叔罗什曼那尚在,或二人已成神,则此食物属于他们二人。

4.62.11

एष्यन्ति प्रेषितास्तत्र रामदूताः प्लवङ्गमाः।
आख्येया राममहिषी त्वया तेभ्यो विहङ्गम ॥ ४.६२.११ ॥

罗摩所派的使者——跳跃的猴子们将会来到那里。啊,鸟儿,你要把罗摩的正妃(悉多)之事告诉他们。

4.62.12

सर्वथा तु न गन्तव्यमीदृशः क्व गमिष्यसि।
देशकालौ प्रतीक्षस्व पक्षौ त्वं प्रतिपत्स्यसे ॥ ४.६२.१२ ॥

你绝不可离去;这样的状况,你能去哪里?且待时机与地点——届时你便会获得双翼。

4.62.13

उत्सहेयमहं कर्तुमद्यैव त्वां सपक्षकम्।
इहस्थस्त्वं हि लोकानां हितं कार्यं करिष्यसि ॥ ४.६२.१३ ॥

我今天就能使你重新长出翅膀;你就站在这里,便将为众世界完成有益之事。

4.62.14

त्वयापि खलु तत् कार्यं तयोश्च नृपपुत्रयोः।
ब्राह्मणानां गुरूणां च मुनीनां वासवस्य च ॥ ४.६२.१४ ॥

你也必须完成那件事——为了那两位王子,为了婆罗门、师长、诸位仙人,也为了因陀罗。

4.62.15

इच्छाम्यहमपि द्रष्टुं भ्रातरौ रामलक्ष्मणौ।
नेच्छे चिरं धारयितुं प्राणांस्त्यक्ष्ये कलेवरम्।
महर्षिस्त्वब्रवीदेवं दृष्टतत्त्वार्थदर्शनः ॥ ४.६२.१५ ॥

我也想见到那两兄弟罗摩与罗什曼那。我不愿长久地保留生命之息;我将舍弃这具身躯。洞见真理之义的大仙人如此说道。