Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 4.66

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

4.66.1

अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम्।
जाम्बवान् समुदीक्ष्यैवं हनूमन्तमथाब्रवीत् ॥ ४.६६.१ ॥

幾十万の猿の軍勢が意気消沈しているのを見て、ジャーンバヴァーンはハヌマーンにこう語った。

4.66.2

वीर वानरलोकस्य सर्वशास्त्रविदां वर।
तूष्णीमेकान्तमाश्रित्य हनूमन् किं न जल्पसि ॥ ४.६६.२ ॥

勇士よ、猿族の中で一切の学問に通じた最良の者よ!ハヌマーンよ、なぜ一人黙して、何も語らないのか。

4.66.3

हनूमन् हरिराजस्य सुग्रीवस्य समो ह्यसि।
रामलक्ष्मणयोश्चापि तेजसा च बलेन च ॥ ४.६६.३ ॥

ハヌマーンよ、お前は猿王スグリーヴァと全く同等であり、威光と力においてはラーマやラクシュマナにも並ぶ。

4.66.4

अरिष्टनेमिनः पुत्रो वैनतेयो महाबलः।
गरुत्मानिव विख्यात उत्तमः सर्वपक्षिणाम् ॥ ४.६६.४ ॥

アリシュタネーミの子、ヴィナターの子である大力のガルダのように、すべての鳥の中で最も優れたものとして名高い。

4.66.5

बहुशो हि मया दृष्टः सागरे स महाबलः।
भुजङ्गानुद्धरन् पक्षी महाबाहुर्महाबलः ॥ ४.६६.५ ॥

海の中で、あの大力者を私は幾度も見た。蛇どもを持ち上げていた、大きな腕と大いなる力をもつ鳥を。

4.66.6

पक्षयोर्यद् बलं तस्य भुजवीर्यबलं तव।
विक्रमश्चापि वेगश्च न ते तेनापहीयते ॥ ४.६६.६ ॥

彼の翼にある力は、お前の腕の勇猛な力と同等である。お前の武勇も速さも、彼に比べて劣ることはない。

4.66.7

बलं बुद्धिश्च तेजश्च सत्त्वं च हरिपुङ्गव।
विशिष्टं सर्वभूतेषु किमात्मानं न सज्जसे ॥ ४.६६.७ ॥

猿の中の最上者よ、力、知恵、輝き、気概は、すべての生き物の中で卓越している。なぜ自分をそれに用いないのか。

4.66.8

अप्सराऽप्सरसां श्रेष्ठा विख्याता पुञ्जिकस्थला।
अञ्जनेति परिख्याता पत्नी केसरिणो हरेः ॥ ४.६६.८ ॥

天女の中で最も優れ、名高いプンジカスタラーは、アンジャナーの名で知られ、猿のケーサリンの妻となった。

4.66.9

विख्याता त्रिषु लोकेषु रूपेणाप्रतिमा भुवि।
अभिशापादभूत् तात कपित्वे कामरूपिणी ॥ ४.६६.९ ॥

三界に名高く、地上で美しさに並ぶ者のない彼女は、いとしい者よ、呪いによって猿の身となり、意のままに姿を変えられるようになった。

4.66.10

दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः।
मानुषं विग्रहं कृत्वा रूपयौवनशालिनी ॥ ४.६६.१० ॥

彼女は偉大な心の猿王クンジャラの娘であり、人の身を得て、美しさと若さに輝いていた。

4.66.11

विचित्रमाल्याभरणा कदाचित् क्षौमधारिणी।
अचरत् पर्वतस्याग्रे प्रावृडम्बुदसंनिभे ॥ ४.६६.११ ॥

色とりどりの花輪と装身具で飾り、ある時絹の衣をまとって、雨季の雲のような山の頂をさまよっていた。

4.66.12

तस्या वस्त्रं विशालाक्ष्याः पीतं रक्तदशं शुभम्।
स्थितायाः पर्वतस्याग्रे मारुतोऽपाहरच्छनैः ॥ ४.६६.१२ ॥

山の頂に立つ広く美しい目の彼女の、赤い縁取りのある黄色の美しい衣を、風がそっと奪い去った。

4.66.13

स ददर्श ततस्तस्या वृत्तावूरू सुसंहतौ।
स्तनौ च पीनौ सहितौ सुजातं चारु चाननम् ॥ ४.६६.१३ ॥

それから彼は、丸く整った太ももと、豊かで調和のとれた乳房、そして美しく整った顔立ちを見た。

4.66.14

तां बलादायतश्रोणीं तनुमध्यां यशस्विनीम्।
दृष्ट्वैव शुभसर्वाङ्गीं पवनः काममोहितः ॥ ४.६६.१४ ॥

広い腰と細い胴の、栄光ある、全身の美しい彼女を見るやいなや、風神は欲望に惑わされた。

4.66.15

स तां भुजाभ्यां दीर्घाभ्यां पर्यष्वजत मारुतः।
मन्मथाविष्टसर्वाङ्गो गतात्मा तामनिन्दिताम् ॥ ४.६६.१५ ॥

彼は長い両腕で彼女を抱きしめた。愛欲に全身を襲われ、心を失った風神は、その非の打ちどころのない女を抱きすくめた。

4.66.16

सा तु तत्रैव सम्भ्रान्ता सुव्रता वाक्यमब्रवीत्।
एकपत्नीव्रतमिदं को नाशयितुमिच्छति ॥ ४.६६.१६ ॥

しかし彼女はそこで大いに動揺し、善き誓いを守る身として言った。「この一夫一妻の誓いを壊そうとするのは誰か」

4.66.17

अञ्जनाया वचः श्रुत्वा मारुतः प्रत्यभाषत।
न त्वां हिंसामि सुश्रोणि मा भूत् ते मनसो भयम् ॥ ४.६६.१७ ॥

アンジャナーの言葉を聞いて、風神は答えた。「美しい腰の女よ、私はあなたを傷つけはしない。あなたの心に恐れがあってはならない。」

4.66.18

मनसास्मि गतो यत् त्वां परिष्वज्य यशस्विनि।
वीर्यवान् बुद्धिसम्पन्नस्तव पुत्रो भविष्यति ॥ ४.६६.१८ ॥

「栄光ある女よ、私は心であなたを抱いたのみ。だからあなたの息子は勇猛で知恵に恵まれるであろう。」

4.66.19

महासत्त्वो महातेजा महाबलपराक्रमः।
लङ्घने प्लवने चैव भविष्यति मया समः ॥ ४.६६.१९ ॥

大いなる勇気、大いなる威光、大いなる力と武勇を備え、跳躍と渡河において彼は私と等しくなるだろう。

4.66.20

एवमुक्ता ततस्तुष्टा जननी ते महाकपे।
गुहायां त्वां महाबाहो प्रजज्ञे प्लवगर्षभ ॥ ४.६६.२० ॥

そう告げられて喜んだ母は、大猿よ、大腕の者よ、猿の中の雄牛よ、洞窟の中でお前を産んだ。

4.66.21

अभ्युत्थितं ततः सूर्यं बालो दृष्ट्वा महावने।
फलं चेति जिघृक्षुस्त्वमुत्प्लुत्याभ्युत्पतो दिवम् ॥ ४.६६.२१ ॥

そのとき大森林に昇った太陽を見て、幼いお前は「これは果実だ」と思い、それをつかもうと跳び上がって天へと飛び立った。

4.66.22

शतानि त्रीणि गत्वाथ योजनानां महाकपे।
तेजसा तस्य निर्धूतो न विषादं गतस्ततः ॥ ४.६६.२२ ॥

大猿よ、お前は三百ヨージャナを進み、彼の光輝に押し戻されたが、絶望には陥らなかった。

4.66.23

त्वामप्युपगतं तूर्णमन्तरिक्षं महाकपे।
क्षिप्तमिन्द्रेण ते वज्रं कोपाविष्टेन तेजसा ॥ ४.६६.२३ ॥

大猿よ、お前が空中で素早く近づくと、怒りに満ちたインドラは威力をもってお前めがけて雷霆を投げつけた。

4.66.24

तदा शैलाग्रशिखरे वामो हनुरभज्यत।
ततो हि नामधेयं ते हनुमानिति कीर्तितम् ॥ ४.६६.२४ ॥

そのとき山頂の峰で、お前の左の顎が砕けた。それゆえお前はハヌマーンと呼ばれることになった。

4.66.25

ततस्त्वां निहतं दृष्ट्वा वायुर्गन्धवहः स्वयम्।
त्रैलोक्यं भृशसंक्रुद्धो न ववौ वै प्रभञ्जनः ॥ ४.६६.२५ ॥

そのとき、おまえが打ち倒されたのを見て、香りを運ぶ風神ヴァーユ自身が激怒し、三界において風を吹かせるのをやめた。

4.66.26

सम्भ्रान्ताश्च सुराः सर्वे त्रैलोक्ये क्षुभिते सति।
प्रसादयन्ति संक्रुद्धं मारुतं भुवनेश्वराः ॥ ४.६६.२६ ॥

三界が揺れ動いたとき、神々はみな狼狽し、世界の主たちは怒れるマールタを宥めようとした。

4.66.27

प्रसादिते च पवने ब्रह्मा तुभ्यं वरं ददौ।
अशस्त्रवध्यतां तात समरे सत्यविक्रम ॥ ४.६६.२७ ॥

ヴァーユが宥められると、ブラフマーはおまえに恩寵を授けた。「愛しい子よ、真の勇者よ、戦において武器によっておまえが殺されることはない」と。

4.66.28

वज्रस्य च निपातेन विरुजं त्वां समीक्ष्य च।
सहस्रनेत्रः प्रीतात्मा ददौ ते वरमुत्तमम् ॥ ४.६६.२८ ॥

インドラの金剛杵の一撃を受けてもおまえが無傷なのを見て、千眼のインドラは心喜び、おまえに最上の恩寵を授けた。

4.66.29

स्वच्छन्दतश्च मरणं तव स्यादिति वै प्रभो।
स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः ॥ ४.६६.२९ ॥

また、主よ、おまえの死はおまえ自身の意志によって訪れるという恩寵も授けられた。おまえはケーサリンの息子、畑に生まれた者、恐ろしい勇力の持ち主だ。

4.66.30

मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः।
त्वं हि वायुसुतो वत्स प्लवने चापि तत्समः ॥ ४.६६.३० ॥

おまえはマールタの実子であり、輝きにおいても彼と等しい。愛しい子よ、おまえは風の子であり、跳躍においても彼と等しい。

4.66.31

वयमद्य गतप्राणा भवानस्मासु साम्प्रतम्।
दाक्ष्यविक्रमसम्पन्नः कपिराज इवापरः ॥ ४.६६.३१ ॥

今日、我々は生気を失ったかのようだ。今やあなただけが我々の中におり、技量と武勇を備え、もう一人の猿王のようだ。

4.66.32

त्रिविक्रमे मया तात सशैलवनकानना।
त्रिःसप्तकृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम् ॥ ४.६६.३२ ॥

愛しい子よ、三歩の時、私は山々・林・森を含む大地を二十一回、右手に見ながら巡った。

4.66.33

तथा चौषधयोऽस्माभिः संचिता देवशासनात्।
निर्मथ्यममृतं याभिस्तदानीं नो महद्बलम् ॥ ४.६६.३३ ॥

神々の命により、我々は薬草を集めた。それによって甘露を攪拌した時、我々は大いなる力を持っていた。

4.66.34

स इदानीमहं वृद्धः परिहीनपराक्रमः।
साम्प्रतं कालमस्माकं भवान् सर्वगुणान्वितः ॥ ४.६६.३४ ॥

今や私は老い、武勇は衰えた。今この時、すべての徳を備えているのはあなただけだ。

4.66.35

तद् विजृम्भस्व विक्रान्त प्लवतामुत्तमो ह्यसि।
त्वद्वीर्यं द्रष्टुकामा हि सर्वा वानरवाहिनी ॥ ४.६६.३५ ॥

ゆえに、勇者よ、あなたの力を示せ。あなたは跳躍する者の中で最も優れており、猿の全軍があなたの武勇を見たがっている。

4.66.36

उत्तिष्ठ हरिशार्दूल लङ्घयस्व महार्णवम्।
परा हि सर्वभूतानां हनुमन् या गतिस्तव ॥ ४.६६.३६ ॥

立ち上がれ、猿の中の虎よ。大海を跳び越えよ。ハヌマーンよ、あなたの速さはあらゆる生き物を超えている。

4.66.37

विषण्णा हरयः सर्वे हनुमन् किमुपेक्षसे।
विक्रमस्व महावेग विष्णुस्त्रीन् विक्रमानिव ॥ ४.६६.३७ ॥

猿たちはみな落胆している。ハヌマーンよ、なぜ傍観しているのか。大いなる速さの者よ、ヴィシュヌが三歩を踏み出したように、勇武を示せ。

4.66.38

ततः कपीनामृषभेण चोदितः
प्रतीतवेगः पवनात्मजः कपिः।
प्रहर्षयंस्तां हरिवीरवाहिनीं
चकार रूपं महदात्मनस्तदा ॥ ४.६६.३८ ॥

そのとき猿の長に促され、速さで知られた風神の子ハヌマーンは、猿の勇士たちの軍勢を喜ばせながら、自らの巨大な姿をとった。