Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 4.7

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.7.1

एवमुक्तस्तु सुग्रीवो रामेणार्तेन वानरः।
अब्रवीत् प्राञ्जलिर्वाक्यं सबाष्पं बाष्पगद्गदः ॥ ४.७.१ ॥

罗摩如此说后,悲痛的猴王须羯里婆合掌,含泪、哽咽着说出了这些话。

4.7.2

न जाने निलयं तस्य सर्वथा पापरक्षसः।
सामर्थ्यं विक्रमं वापि दौष्कुलेयस्य वा कुलम् ॥ ४.७.२ ॥

那罪恶的罗刹的住处、他的力量与勇猛,乃至那出身卑贱者的家族,我全然不知。

4.7.3

सत्यं तु प्रतिजानामि त्यज शोकमरिंदम।
करिष्यामि तथा यत्नं यथा प्राप्स्यसि मैथिलीम् ॥ ४.७.३ ॥

我真诚地向你承诺:请放下忧愁,征服敌人的人啊。我会竭尽全力,使你得到摩提利。

4.7.4

रावणं सगणं हत्वा परितोष्यात्मपौरुषम्।
तथास्मि कर्ता नचिराद् यथा प्रीतो भविष्यसि ॥ ४.७.४ ॥

我将杀死罗波那及其随从,令你的勇武得到满足,并且很快就会使你欢喜。

4.7.5

अलं वैक्लव्यमालम्ब्य धैर्यमात्मगतं स्मर।
त्वद्विधानां न सदृशमीदृशं बुद्धिलाघवम् ॥ ४.७.५ ॥

够了,不要再沮丧!请记起你内心固有的勇气。像你这样的人,不应有这般心智的轻浮。

4.7.6

मयापि व्यसनं प्राप्तं भार्याविरहजं महत्।
नाहमेवं हि शोचामि धैर्यं न च परित्यजे ॥ ४.७.६ ॥

因与妻子分离而生的巨大灾难也降临到我身上;然而我并不如此悲伤,也不放弃勇气。

4.7.7

नाहं तामनुशोचामि प्राकृतो वानरोऽपि सन्।
महात्मा च विनीतश्च किं पुनर्धृतिमान् महान् ॥ ४.७.७ ॥

我虽只是一只普通的猴子,也不为她悲伤。何况是品德高尚、谦逊、极有毅力的人呢?

4.7.8

बाष्पमापतितं धैर्यान्निग्रहीतुं त्वमर्हसि।
मर्यादां सत्त्वयुक्तानां धृतिं नोत्स्रष्टुमर्हसि ॥ ४.७.८ ॥

你应当以坚定克制涌出的泪水。有德操的人的规矩,是不放弃坚毅。

4.7.9

व्यसने वार्थकृच्छ्रे वा भये वा जीवितान्तगे।
विमृशंश्च स्वयाबुद्ध्या धृतिमान् नावसीदति ॥ ४.७.९ ॥

无论身处灾难、财物困窘、恐惧之中,或临近生命尽头,坚毅之人以自己的智慧思考,便不会沉沦。

4.7.10

बालिशस्तु नरो नित्यं वैक्लव्यं योऽनुवर्तते।
स मज्जत्यवशः शोके भाराक्रान्तेव नौर्जले ॥ ४.७.१० ॥

然而,总是屈从于沮丧的人是愚蠢的。他在悲痛中无能为力而沉没,如同载重过多的小船沉入水中。

4.7.11

एषोऽञ्जलिर्मया बद्धः प्रणयात् त्वां प्रसादये।
पौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि ॥ ४.७.११ ॥

出于爱,我合掌恳求你。请依靠男子汉的勇毅,不要给悲伤留下空隙。

4.7.12

ये शोकमनुवर्तन्ते न तेषां विद्यते सुखम्।
तेजश्च क्षीयते तेषां न त्वं शोचितुमर्हसि ॥ ४.७.१२ ॥

沉溺于悲伤的人没有幸福,他们的光彩也会消减。你不应当悲伤。

4.7.13

शोकेनाभिप्रपन्नस्य जीविते चापि संशयः।
स शोकं त्यज राजेन्द्र धैर्यमाश्रय केवलम् ॥ ४.७.१३ ॥

被悲痛压倒的人,连生命也成疑问。因此,王中之王啊,请舍弃悲伤,只依靠坚韧。

4.7.14

हितं वयस्यभावेन ब्रूहि नोपदिशामि ते।
वयस्यतां पूजयन्मे न त्वं शोचितुमर्हसि ॥ ४.७.१४ ॥

我以朋友之情说出有益的话,并非教训你。尊重我们的友谊,你不该悲伤。

4.7.15

मधुरं सान्त्वितस्तेन सुग्रीवेण स राघवः।
मुखमश्रुपरिक्लिन्नं वस्त्रान्तेन प्रमार्जयत् ॥ ४.७.१५ ॥

罗怙之后被须羯哩婆温言安慰,便用衣角擦去满是泪水的脸。

4.7.16

प्रकृतिस्थस्तु काकुत्स्थः सुग्रीवचनात् प्रभुः।
सम्परिष्वज्य सुग्रीवमिदं वचनमब्रवीत् ॥ ४.७.१६ ॥

因须羯哩婆之言心神安定,主人迦古特他拥抱须羯哩婆,说了这番话。

4.7.17

कर्तव्यं यद् वयस्येन स्निग्धेन च हितेन च।
अनुरूपं च युक्तं च कृतं सुग्रीव तत् त्वया ॥ ४.७.१७ ॥

须羯哩婆啊,凡有情有益的朋友所应做的,你都做得恰当而合宜。

4.7.18

एष च प्रकृतिस्थोऽहमनुनीतस्त्वया सखे।
दुर्लभो हीदृशो बन्धुरस्मिन् काले विशेषतः ॥ ४.७.१८ ॥

朋友啊,经你安慰,我现已心神平复。这样的亲人,尤其在此时,实在难得。

4.7.19

किं तु यत्नस्त्वया कार्यो मैथिल्याः परिमार्गणे।
राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः ॥ ४.७.१९ ॥

但你必须在寻找Maithilī之事上尽力,也要留意残暴的罗刹、恶心的罗婆那。

4.7.20

मया च यदनुष्ठेयं विस्रब्धेन तदुच्यताम्।
वर्षास्विव च सुक्षेत्रे सर्वं सम्पद्यते तव ॥ ४.७.२० ॥

凡我所应做的,请放心说出;如同雨季里良田之中万物生长,对你而言一切都将成就。

4.7.21

मया च यदिदं वाक्यमभिमानात् समीरितम्।
तत्त्वया हरिशार्दूल तत्त्वमित्युपधार्यताम् ॥ ४.७.२१ ॥

我因骄傲而说出的这些话,哦,猴中之虎,请你就照此理解。

4.7.22

अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन।
एतत्ते प्रतिजानामि सत्येनैव शपाम्यहम् ॥ ४.७.२२ ॥

我从未曾说过谎话,今后也绝不会说。这是我向你的承诺;我以真理本身起誓。

4.7.23

ततः प्रहृष्टः सुग्रीवो वानरैः सचिवैः सह।
राघवस्य वचः श्रुत्वा प्रतिज्ञातं विशेषतः ॥ ४.७.२३ ॥

于是,须羯哩婆与猴众和大臣们一起,听到罗怙后裔的话语,尤其是他所许下的誓言,万分欢喜。

4.7.24

एवमेकान्तसम्पृक्तौ ततस्तौ नरवानरौ।
उभावन्योन्यसदृशं सुखं दुःखमभाषताम् ॥ ४.७.२४ ॥

就这样,二者——人与猴——在独处中紧密相连,彼此相应地诉说着欢乐与悲伤。

4.7.25

महानुभावस्य वचो निशम्य
हरिर्नृपाणामधिपस्य तस्य।
कृतं स मेने हरिवीरमुख्य-
स्तदा च कार्यं हृदयेन विद्वान् ॥ ४.७.२५ ॥

猴族勇士中的首领须羯哩婆闻那位威德广大的诸王之主之言,便于心中以智慧认定此事已经成就。